शूद्रश् च कृत-विघ्नश् च दर्शनीयो ऽसि पुत्रक ।
यस्मिन् कुले त्वम् उत्पन्नो गजस् तत्र न हन्यते ॥पन्च्_४.३९॥
कस्मिंश्चिद् उद्देशे सिंह-दम्पती प्रतिवसतः स्म । अथ सिंही पुत्र-द्वयम् अजीजनत् । सिंहो ऽपि नित्यम् एव मृगान् व्यापाद्य सिंह्यै ददाति । अथान्यस्मिन् अहनि तेन किम् अपि नासादितम् । येन भ्रमतो ऽपि तस्य रविर् अस्तं गतः । अथ तेन स्व-गृहम् आगच्छता शृगाल-शिशुः प्राप्तः । स च बालको ऽयम् इत्य् अवधार्य यत्नेन दंष्ट्रामध्य-गतं कृत्वा सिंह्या जीवन्तम् एव समर्पितवान् । ततः सिंह्याभिहितम्-भोः कान्त ! त्वयानीतं किञ्चिद् अस्माकं भोजनम् ?
सिंह आह-प्रिये ! मयाद्यैनं शृगाल-शिशुं परित्यज्य न किञ्चित् सत्त्वम् आसादितम् । स च मया बालो ऽयम् इति मत्वा न व्यापादितो विशेषात् स्वजातीयश् च । उक्तं च-
स्त्री-विप्रलिङ्गि-बालेषु प्रहर्तव्यं न कर्हिचित् ।
प्राण-त्यागेऽपि सञ्जाते विश्वस्तेषु विशेषतः ॥पन्च्_४.४०॥
इदानीं त्वम् एनं भक्षयित्वा पथ्यं कुरु । प्रभातेऽन्यत् किञ्चिद् उपार्जयिष्यामि । सा प्राह-भोः कान्त ! त्वया बालको ऽयम् इति विचिन्त्य न हतः । तत् कथम् एनम् अहं स्वोदरार्थे विनाशयामि । उक्तं च-
अकृत्यं नैव कर्तव्यं प्राण-त्यागेऽप्य् उपस्थिते ।
न च कृत्यं परित्याज्यम् एष धर्मः सनातनः ॥पन्च्_४.४१॥
तस्मान् ममायं तृतीयः पुत्रो भविष्यति । इत्य् एवम् उक्त्वा तम् अपि स्वस्तन-क्षीरेण परां पुष्टिम् अनयत् । एवं ते त्रयो ऽपि शिशवः परस्परम् अज्ञात-जाति-विशेषा एकाचार-विहारा बाल्य-समयं निर्वाहयन्ति । अथ कदाचित् तत्र वने भ्रमन्न् अरण्य-गजः समायातः । तं दृष्ट्वा तौ सिंह-सुतौ द्वाव् अपि कुपिताननौ तं प्रति प्रचलितौ यावत् तावत् तेन शृगाल-सुतेनाभिहितम्-अहो ! गजो ऽयं युष्मत्-कुल-शत्रुः । तन् न गन्तव्यम् एतस्याभिमुखम् ।
एवम् उक्त्वा गृहं प्रधावितः । ताव् अपि ज्येष्ठ-बान्धव-भङ्गान् निरुत्साहतां गतौ । अथवा साध्व् इदम् उच्यते-
एकेनापि सुधीरेण सोत्साहेन रणं प्रति ।
सोत्साहं जायते सैन्यं भग्ने भङ्गम् अवाप्नुयात् ॥पन्च्_४.४२॥
तथा च-
अत एव वाञ्छन्ति भूपा योधान् महाबलान् ।
शूरान् वीरान् कृतोत्साहान् वर्जयन्ति च कातरान् ॥पन्च्_४.४३॥
अथ तौ द्वाव् अपि गृहं प्राप्य पित्रोर् अग्रतो ज्येष्ठ-भ्रातृ-चेष्टितम् ऊचतुः-यथा गजं दृष्ट्वा दूरतो ऽपि नष्टः ।
सो ऽपि तद् आकर्ण्य कोपाविष्ट-मनाः प्रस्फुरिताधर-पल्लवस् ताम्रलोचनस् त्रिशिखां भ्रुकुटिं कृत्वा तौ निर्भर्त्सयन् परुषतर-वचनान्य् उवाच-ततः सिंह्यै कान्ते नीत्वा प्रबोधितो ऽसौ-वत्स ! मैवं कदाचिज् जल्प । भवदीय-लघु-भ्रातराव् एतौ ।
अथासौ प्रभूत-कोपाविष्टस् ताम् उवाच-किम् अहम् एताभ्यां शौर्येण रूपेण विद्याभ्यासेन कौशलेन वा हीनः ? येन माम् उपहसतः । तन् मयावश्यम् एतौ व्यापादनीयौ ।
तद् आकर्ण्य सिंही तस्य जीवितम् इच्छन्त्य् अन्तर् विहस्य प्राह-
- शूरोऽसि कृतविद्योऽसि दर्शनीयोऽसि पुत्रक ।
यस्मिन्कुले त्वमुत्पन्नो गजस्तत्र न हन्यते ॥ +++( सम्पादकटिप्पनी - पुस्तके इदम् अधिकं पद्यम् ।)+++
तत् सम्यक् शृणु । त्वं शृगाली-सुतः । कृपया मया स्वस्तन-क्षीरेण पुष्टिं नीतः । तद् यावद् एतौ मत्-पुत्रौ शिशुत्वात् त्वां शृगालं न जानीतः, तावद् द्रुततरं गत्वा स्वजातीयानां मध्ये भव । नो चेद् आभ्यां हतो मृत्यु-पथं समेष्यसि । सो ऽपि तद्-वचनं श्रुत्वा भय-व्याकुल-मनाः शनैः शनैर् अपसृत्य स्व-जात्या मिलितः ।