स्वार्थम् उत्सृज्य यो दम्भी सत्यं ब्रूते सुमन्द-धीः ।
स स्वार्थाद् भ्रश्यते नूनं युधिष्ठिर इवापरः ॥पन्च्_४.३८॥
कस्मिंश्चित् अधिष्ठाने कुम्भकारः प्रतिवसति स्म । स कदाचित् प्रमादाद् अर्ध-मग्न-खर्पर-तीक्ष्णाग्रस्योपरि महता वेगेन धावन् पतितः । ततः खपर-कोट्या पाटित-ललाई᳡ओओ रुधिर-प्लावित-तनुः कृच्छ्राद् उत्थाय स्वाश्रयं गतः । ततश् चापथ्य-सेवनात् स प्रहारस् तस्य करालतां गतः कृच्छ्रेण नीरोगतां नीतः ।
अथ कदाचिद् दुर्भिक्ष-पीडिते देशे च कुम्भकारः क्षुत्क्षाम-कण्ठः कैश्चिद् राज-सेवकैः सह देशान्तरं गत्वा कस्यापि राज्ञः सेवको बभूव । सो ऽपि राजा तस्य ललाटे विकरालं प्रहार-क्षतं दृष्ट्वा चिन्तयामास, यद्-वीरः पुरुषः कश्चिद् अयम् । नूनं तेन ललाट-पट्टे सम्मुख-प्रहारः ।
अतस् तं समानादिभिः सर्वेषां राज-पुत्राणां मध्ये विशेष-प्रसादेन पश्यति स्म । तेऽपि राज-पुत्रास् तस्य तं प्रसादातिरेकं पश्यन्तं परमेर्ष्या-धर्मं वहन्तो राज-भयान् न किञ्चिद् ऊचुः ।
अथान्यस्मिन्न् अहनि तस्य भूपतेर् वीर-सम्भावनायां क्रियमाणायां विग्रहे समुपस्थिते प्रकल्प्यमानेषु गजेषु संनह्यमानेषु वाजिषु योधेषु । प्रगुणीक्रियमाणेषु तेन भूभुजा स कुम्भकारः प्रस्तावानुगतं पृष्टो निर्जने-भो राज-पुत्र ! किं ते नाम ? का च जातिः ? कस्मिन् सङ्ग्रामे प्रहारो ऽयं ते ललाटे लग्नः ?
स आह-देव ! नायं शस्त्र-प्रहारः । युधिष्ठिराभिधः कुलालो ऽहं प्रकृत्या । मद्-गेहेऽनेक-खर्पराण्य् आसन् । अथ कदाचिन् मद्य-पानं कृत्वा निर्गतः प्रधावन् खर्परोपरि पतितः । तस्य प्रहार-विकारो ऽयं मे ललाटे एवं विकरालतां गतः ।
तद् आकर्ण्य राजा स-व्रीडम् आह-अहो वञ्चितो ऽहं राजापुत्रानुकारिणानेन कुलालेन । तद् दीयतां द्राग् एतस्य चन्द्रार्धः ।
तथानुष्ठिते कुम्भकार आह-मा मैवं कुरु । पश्य मे रणे हस्त-लाघवम् ।
राजा प्राह-सर्व-गुण-सम्पन्नो भवान् । तथापि गम्यताम् । उक्तं च-
शूद्रश् च कृत-विघ्नश् च दर्शनीयो ऽसि पुत्रक ।
यस्मिन् कुले त्वम् उत्पन्नो गजस् तत्र न हन्यते ॥पन्च्_४.३९॥
कुलाल आह-कथम् एतत् ?
राजा कथयति-
तस्मात् त्वं अपि यावद् एते राज-पुत्रास् त्वां कुलालं नजानन्ति, तावद् द्रुततरम् अपसर । नो चेद् एतेषां सकाशाद् विडम्बनां प्राप्य मरिष्यामि । कुलालो ऽपि तद् आकर्ण्य सत्वरं प्रणष्टः ।