०४-०२ करालकेसर-कथा

आगतश् च गतश् चैव गत्वा यः पुनर् आगतः ।
अकर्ण-हृदयो मूर्खस् तत्रैव निधनं गतः ॥पन्च्_४.३३॥

कस्मिंश्चिद् वनोद्देशे कराल-केसरो नाम सिंहः प्रतिवसति स्म । तस्य च धूसरको नाम शृगालः सदैवानुयायी परिचारको ऽस्ति । अथ कदाचित् तस्य हस्तिना सह युध्यमानस्य शरीरे गुरुतराः प्रहाराः सञ्जाताः । यैः पदम् एकम् अपि चलितुं न शक्नोति । तस्याचलनाच् च धूसरकः क्षुत्क्षाम-कण्ठो दौर्बल्यं गतः । अन्यस्मिन्न् अहनि तम् अवोचत्-स्वामिन् ! बुभुक्षय पीडितो ऽहम् । पदात् पदम् अपि चलितुं न शक्नोमि । तत् कथं ते शुश्रूषां करोमि ?

सिंह आह-भोः ! गच्छ अन्वेषय किञ्चित् सत्त्वम् । येनेमाम् अवस्थां गतो ऽपि व्यापादयामि ।

तद् आकर्ण्य शृगालो ऽन्वेषयन् कञ्चित् समीप-वर्तिनं ग्रामम् आसादितवान् । तत्र लम्बकर्णो नाम गर्दभस् तडागोपान्ते प्रविरल-दूर्वाङ्कुरान् कृच्छ्राद् आस्वादयन् दृष्टः । ततश् च समीप-वर्तिना भूत्वा तेनाभिहितः-माम ! नमस्कारो ऽयं मदीयः सम्भाव्यताम् । चिराद् दृष्टो ऽसि । तत् कथय किम् एवं दुर्बलतां गतः ।

स आह-भो भगिनी-पुत्र ! किं कथयामि । रजको ऽतिनिर्दयातिभारेण मां पीडयति । घास-मुष्टिम् अपि न प्रयच्छति । केवलं दूर्वाङ्कुरान् धूइ-मिश्रितान् भक्षयामि । तत् कुतो मे शरीरे पुष्टिः ?

शृगाल आह-माम ! यद्य् एवं तद् अस्ति मरकत-सदृश-शष्प-प्रायो नदी-सनाथो रमणीयतरः प्रदेशः । तत्रागत्य मया सह सुभाषित-गोष्ठी-सुखम् अनुभवंस् तिष्ठ ।

लम्बकर्ण आह-भो भगिनी-सुत ! युक्तम् उक्तं भवता । परं वयं ग्राम्याः पशवो ऽरण्य-चारिणां वध्याः । तत् किं तेन भव्य-प्रदेशेन ।

शृगाल आह- माम ! मैवं वद । मद्-भुज-पञ्जर-परिरक्षितः स देशः । तत्रास्ति न कश्चिद् अपरस्य तत्र प्रवेशः । परमम् अनेनैव दोषेण रजक-कदर्थितास् तत्र तिस्रो रासभ्यो ऽनाथाः सन्ति । ताश् च पुष्टिम् आपन्ना यौवनोत्कटा इदं माम् ऊचुः-यदि त्वम् अस्माकं सत्यो मातुलस् तदा कंचिद् ग्रामान्तरं गत्वास्मद्-योग्यं कश्चित् पतिम् आनय । तद्-अर्थे त्वाम् अहं तत्र नयामि ।

अथ शृगाल-वचनानि श्रुत्वा काम-पीडिताङ्गस् तम् अवोचत्-भद्र ! यद्य् एवं तद्-अग्रे भव येनागच्छामि । अथवा साध्व् इदम् उच्यते-

नामृतं न विषं किञ्चिद् एकां मुक्त्वा नितम्बिनीम् ।
यस्याः सङ्गेन जीव्येत म्रियते च वियोगतः ॥पन्च्_४.३४॥

तथा च-
यासां नाम्नापि कामः स्यात् सङ्गमं दर्शनं विना ।
तासां दृक्-सङ्गमं प्राप्य यन् न द्रवति कौतुकम् ॥पन्च्_४.३५॥

तत्रानुष्ठिते शृगालेन सह सिंहान्तिकम् आगतः । सिंहो ऽपि व्यथाकुलितस् तं दृष्ट्वा यावत् समुत्तिष्ठति तावद् रासभः पलायितुम् आरब्धवान् । अथ तस्य पलायमानस्य सिंहेन तल-प्रहारो दत्तः । स च मन्द-भाग्यस्य व्यवसाय इव व्यर्थतां गतः । अत्रान्तरे शृगालः कोपाविष्टस् तम् उवाच-भोः ! किम् एवंविधः प्रहारस् ते । यद् गर्दभो ऽपि तव पुरतो बलाद् गच्छति । तत् कथं गजेन सह युद्धं करिष्यसि ? तद् दृष्टं ते बलम् ।

अथ सविलक्ष-स्मितं सिंह आह-भोः ! किम् अहं करोमि । मया न क्रमः सज्जीकृत आसीत् । अन्यथा गजो ऽपि मत्-क्रमाक्रान्ता न गच्छति ।

शृगाल आह-अद्याप्य् एक-वारं तवान्तिके तम् आनेष्यामि । परं त्वया सज्जीकृत-क्रमेण स्थातव्यम् ।

सिंह आह-भद्र ! यो मां प्रत्यक्षं दृष्ट्वा गतः स पुनः कथम् अत्रागमिष्यति ? तद् अन्यत् किम् अपि सत्त्वम् अन्विष्यताम् ।

शृगाल आह-किं तवानेन व्यापारेण ? त्वं केवलं सज्जित-क्रमस् तिष्ठ ।

तथानुष्ठिते शृगालो ऽपि यावद् रासभ-मार्गेण गच्छति, तावत् तत्रैव स्थाने चरन् दृष्टः । अथ शृगालं दृष्ट्वा रासभः प्राह-भो भगिनी-सुत ! शोभन-स्थाने त्वयाहं नीतः । द्राङ् मृत्यु-वशं गतः । तत् कथय किं तत् सत्त्वं यस्यातिरौद्र-वज्र-सदृश-कर-प्रहाराद् अहं मुक्तः ।

तच् छ्रुत्वा प्रहसन् शृगाल आह-भद्र ! रासभी त्वाम् आयान्तं दृष्ट्वा सानुरागम् आलिङ्गितुं समुत्थिता । त्वं च कातरत्वान् नष्टः । सा पुनर् न शक्ता त्वां विना स्थातुम् । तया तु नशतस् तेऽवलम्बनार्थं हस्तः क्षिप्तः । नान्य-कारणेन । तद् आगच्छ । सा त्वत्-कृते प्रायोपवेशनोपविष्टा तिष्ठति । एतद् वदति-यल् लम्बकर्णो यदि मे भर्ता न भवति तद् अहम् अग्नौ जलं वा प्रविशामि । पुनस् तस्य वियोगं सोढुं न शक्नोमि इति । तत् प्रसादं कृत्वा तत्रागम्यताम् । नो चेत् तव स्त्री-हत्या भविष्यति । अपरं भगवान् काम-कोपं तवोपरि करिष्यति । उक्तं च-

स्त्री-मुद्रां मकरध्वजस्य जयिनीं सर्वार्ध-सम्पत्-करीं
ते मूढाः प्रविहाय यान्ति कुधियो मिथ्या-फलान्वेषिणः ।
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः
केचिद् रक्त-पटीकृताश् च जटिलाः कापालिकाश् चापरे ॥पन्च्_४.३६॥

अथासौ तद्-वचनं श्रद्धेयतया श्रुत्वा भूयो ऽपि तेन सह प्रस्थितः । अथवा साध्व् इदम् उच्यते-

जानन्न् अपि नरो दैवात् प्रकरोति विगर्हितम् ।
कर्म किं कस्यचिल् लोके गर्हितं रोचते कथम् ॥पन्च्_४.३७॥

अत्रान्तरे सज्जित-क्रमेण सिंहेन स लम्बकर्णो व्यापादितः । ततस् तं हत्वा शृगालं रक्षकं निरूप्य स्वयं स्नानार्थं नद्यां गतः । शृगालेनापि लौल्योत्सुक्यात् तस्य कर्ण-हृदयं भक्षितम् । अत्रान्तरे सिंहो यावत् स्नात्वा कृते देवार्चनः प्रतर्पित-पितृ-गणः समायाति तावत् कर्ण-हृदय-रहितो रासभस् तिष्ठति । तं दृष्ट्वा कोप-परीतात्मा सिंहः शृगालम् आह-पाप ! किम् इदम् अनुचितं कर्म समाचरितम् ? यत् कर्ण-हृदय-भक्षणेनायम् उच्छिष्टतां नीतः ।

शृगालः स-विनयम् आह-स्वामिन् ! मा मैवं वद । यत् कर्ण-हृदय-रहितो ऽयं रासभ आसीत्, तेनेहागत्य त्वाम् अवलोक्य भूयो ऽप्य् आगतः ।

अथ त्वद्-वचनं श्रद्धेयं मत्वा सिंहस् तेनैव संविभज्य निःशङ्कित-मनास् तं भक्षितवान् ।