०४-०१ गङ्गदत्तप्रियदर्शन-कथा

बुभुक्षितः किं न करोति पापं
क्षीणा जना निष्करुणा भवन्ति ।
आख्याहि भद्रे प्रिय-दर्शनस्य
न गङ्गदत्तः पुनर् एति कूपम् ॥पन्च्_४.१६॥

कस्मिंश्चित् कूपे गङ्गदत्तो नाम मण्डूक-राजः प्रतिवसति स्म । स कदाचिद् दायादैर् उद्वेजितो ऽरघट्ट-घटीम् आरुह्य निष्क्रान्तः । अथ तेन चिन्तितम्-यत् कथं तेसां दायादानां मया प्रत्यपकारः कर्तव्यः । उक्तं च-

आपदि येनापकृतं येन च हसितं दशासु विषमासु ।
अपकृत्य तयोर् उभयोः पुनर् अपि जातं नरं मन्ये ॥पन्च्_४.१७॥

एवं चिन्तयन् बिले प्रविशन्तं कृष्णसर्पम् अपश्यत् । तं दृष्ट्वा भूयो ऽप्य् अचिन्तयत्-यद् एनं तत्र कूपे नीत्वा सकल-दायादानाम् उच्छेदं करोमि । उक्तं च-

शत्रुभिर् योजयेच् छत्रुं बलिना बलवत्तरम् ।
स्व-कार्याय यतो न स्यात् काचित् पीडात्र तत्-क्षये ॥पन्च्_४.१८॥

तथा च-
शत्रुम् उन्मूलयेत् प्राज्ञस् तीक्ष्णं तीक्ष्णेन शत्रुणा ।
व्यथा-करं सुखार्थाय कण्टकेनैव कण्टकम् ॥पन्च्_४.१९॥

एवं स विभाव्य बिल-द्वारं गत्वा तम् आहूतवान्-एह्य् एहि प्रिय-दर्शन ! एहि !

तच् छ्रुत्वा सर्पश् चिन्तयामास-य एवं माम् आह्वयति । स्वजातीयो न भवति । यतो नैषा सर्प-वाणी । अन्येन केनापि सह मम मर्त्य-लोके सन्धानं नास्ति । तद् अत्रैव दुर्गे स्थितस् तावद् वेद्मि को ऽयं भविष्यति । उक्तं च-

यस्य न जायते शीलं न कुलं न च संश्रयः ।
न तेन सङ्गतिं कुर्याद् इत्य् उवाच बृहस्पतिः ॥पन्च्_४.२०॥

कदाचित्को ऽपि मन्त्रवाद्य् औषध-चतुरो वा माम् आहूय बन्धने क्षिपति । अथवा कश्चित् पुरुषो वैरम् आश्रित्य कस्यचिद् भक्षणार्थे माम् आह्वयति । आह च-भोः ! को भवान् ?

स आह-अहं गङ्गदत्तो नाम मण्डूकाधिपतिस् त्वत्-सकाशे मैत्र्य्-अर्थम् अभ्यागतः ।

तच् छ्रुत्वा सर्प आह-भो ! अश्रद्धेयम् एतत् यत्-तृणानां वह्निना सह सङ्गमः । उक्तं च-

यो यस्य जायते वध्यः स स्वप्नेऽपि कथञ्चन ।
न तत्-समीपम् अभ्येति तत् किम् एवं प्रजल्पसि ॥पन्च्_४.२१॥

गङ्गदत्त आह-भोः ! सत्यम् एतत् । स्वभाव-वैरी त्वम् अस्माकम् । परं पर-परिभवात् प्राप्तो ऽहं ते सकाशम् । उक्तं च-

सर्व-नाशे च सञ्जाते प्राणानाम् अपि संशये ।
अपि शत्रुं प्रणम्यापि रक्षेत् प्राणान्धनानि च ॥पन्च्_४.२२॥

सर्प आह-कथय कस्मात् ते परिभवः ।

स आह-दायादेभ्यः ।

सो ऽप्य् आह-क्व ते आश्रयो वाप्यां कूपे तडागे ह्रदे वा । तत् कथय स्वाश्रयम् ।

तेनोक्तम्-पाषाण-चय-निबद्धे कूपे ।

सर्प आह-अहो अपदा वयम् । तत्रास्ति तत्र मे प्रवेशः । प्रविष्टस्य च स्थानं नास्ति । यत्र स्थितस् तव दायादान् व्यापादयामि । तद् गम्यताम् । उक्तं च-

यच् छक्यं ग्रसितुं यस्य ग्रस्तं परिणमेच् च यत् ।
हितं च परिणामे यत् तद् आद्यं भूतिम् इच्छता ॥पन्च्_४.२३॥

गङ्गदत्त आह-भोः ! समागच्छ त्वम् । अहं सुखोपायेन तत्र तव प्रवेशं कारयिष्यामि । तथा तस्य मध्ये जलोपान्ते रम्यतरं कोटरम् अस्ति । तत्र स्थितस् त्वं लीलया दायादान् व्यापादयिष्यसि ।

तच् छ्रुत्वा सर्पो व्यचिन्तयत्-अहं तावत् परिणत-वयाः । कदाचित् कथञ्चिन् मूषकम् एकं प्राप्नोमि । तत् सुखावहो जीवनोपायो ऽयम् अनेन कुलाङ्गारेण दर्शितः । तद् गत्वा तान् मण्डूकान् भक्षयामि इति । अथवा साध्व् इदम् उच्यते-

यो हि प्राण-परिक्षीणः सहाय-परिवर्जितः ।
स हि सर्व-सुखोपायां वृत्तिम् आरचयेद् बुधः ॥पन्च्_४.२४॥

एवं विचिन्त्य तम् आह-भो गङ्गदत्त ! यद्य् एवं तद्-अग्रे भव । येन तत्र गच्छावः ।
गङ्गदत्त आह-भोः प्रियदर्शन ! अहं त्वां सुखोपायेन तत्र नेष्यामि, स्थानं च दर्शयिष्यामि त एव भक्षणीयाः इति ।

सर्प आह-साम्प्रतं त्वं मे मित्रं जातम् । तन् न भेतव्यम् । तव वचनेन भक्षण्यास् ते दायादाः ।

एवम् उक्त्वा बिलान् निष्क्रम्य तम् आलिङ्ग्य च तेनैव सह प्रस्थितः । अथ कूपम् आसाद्यार-घट्ट-घटिका-मार्गेण सर्पस् तेनात्मना स्वालयं नीतः ।

गङ्गदत्त आह-भद्र ! कुतः त्वया मित्र-कृत्यम् । तत् साम्प्रतम् अनेनैव घटिका-यन्त्र-मार्गेण गम्यताम् इति ।

सर्प आह-भो गङ्गदत्त ! न सम्यग् अभिहितं त्वया । कथम् अहं तत्र गच्छामि ? मदीय-बिल-दुर्गम् अन्येन रुद्धं भविष्यति । तस्माद् अत्र-स्थस्य मे मण्डूकम् एकैकं स्व-वर्गीयं प्रयच्छ । नो चेत् सर्वान् अपि भक्षयिष्यामि इति ।

तच् छ्रुत्वा गङ्गदत्तो व्याकुल-मना व्याचिन्तयत्-अहो किम् एतन् मया कृतं सर्पम् आनयता । तद् यदि निषेधयिष्यामि तत् सर्वान् अपि भक्षयिष्यति । अथवा युक्तम् उच्यते-

यो ऽमित्रं कुरुते मित्रं वीर्याभ्यधिकम् आत्मनः ।
स करोति न सन्देहः स्वयं हि विष-भक्षणम् ॥पन्च्_४.२५॥

तत् प्रयच्छाम्य् अस्यैकैकं प्रतिदिनं सुहृदम् । उक्तं च-

सर्वस्व-हरणे युक्तं शत्रुं बुद्धि-युता नराः ।
तोषयन्त्य् अल्प-दानेन बाडवं सागरो यथा ॥पन्च्_४.२६॥

तथा च-
यो दुर्बलो ऽणून् अपि याच्यमानो
बलीयसा यच्छति नैव साम्ना ।
प्रयच्छते नैव च दर्श्यमानं
खारीं स चूर्णस्य पुनर् ददाति ॥पन्च्_४.२७॥

तथा च-
सर्व-नाशे समुत्पन्ने अर्धं त्यजति पण्डितः ।
अर्धेन कुरुते कार्यं सर्व-नाशो हि दुस्तरः ॥पन्च्_४.२८॥
न स्वल्पस्य कृते भूरि नाशयेन् मतिमान् नरः ।
एतद् एव हि पाण्डित्यं यत् स्वल्पाद् भूरि-रक्षणम् ॥पन्च्_४.२९॥

एवं निश्चिन्त्य नित्यम् एकैकम् आदिशति । सो ऽपि तं भक्षयित्वा तस्य परोक्षेऽन्यान् अपि भक्षयति । अथवा साध्व् इदम् उच्यते-

यथा हि मलिनैर् वस्त्रैर् यत्र तत्रोपविश्यते ।
एवं चलित-वित्तस् तु वित्त-शेषं न रक्षति ॥पन्च्_४.३०॥

अथान्य-दिने तेनापरान् मण्डूकान् भक्षयित्वा गङ्गदत्त-सुतो यमुनादत्तो भक्षितः । तं भक्षितं मत्वा गङ्गदत्तस् तार-स्वरेण धिग् धिक् प्रलाप-परः कथञ्चिद् अपि न विरराम । ततः स्व-पत्न्याभिहितः-

किं क्रन्दसि दुराक्रन्द स्व-पक्ष-क्षय-कारक ।
स्व-पक्षस्य क्षये जाते को नस् त्राता भविष्यति ॥पन्च्_४.३१॥

तद् अद्यापि विचिन्त्यताम् आत्मनो निष्क्रमणम् अस्य वधोपायश् च । अथ गच्छता कालेन सकलम् अपि कवलितं मण्डूक-कुलम् । केवलम् एको गङ्गदत्तस् तिष्ठति । ततः प्रियदर्शनेन भणितम्-भोः गङ्गदत्त ! बुभुक्षितो ऽहम् । निःशेषिताः सर्वे मण्डूकाः । तद् दीयतां मे किञ्चिद् भोजनं यतो ऽहं त्वयात्रानीतः ।

स आह-भो मित्र ! न त्वयात्र विषये मयावस्थितेन कापि चिन्ता कार्या । तद् यदि मां प्रेषयति ततो ऽन्य-कूप-स्थान् अपि मण्डूकान् विश्वास्यात्रानयामि ।

स आह-मम तावत् त्वम् अभक्ष्यो भ्रातृ-स्थाने । तद् यद्य् एवं करोषि तत् साम्प्रतं पितृ-स्थाने भवसि । तद् एवं क्रियताम् इति ।

सो ऽपि तद् आकर्ण्यार-घट्ट-घटिकाम् आश्रित्य विविध-देवतोपकल्पित-पूजोपयाचितस् तत्-कूपाद् विनिष्क्रान्तः । प्रियदर्शनो ऽपि तद्-आकाङ्क्षया तत्रस्थः प्रतीक्षमाणस् तिष्ठति । अथ चिराद् अनागते गङ्गदत्ते प्रियदर्शनो ऽन्य-कोटर-निवासिनीं गोधाम् उवाच-भद्रे ! क्रियतां स्तोकं साहाय्यम् । यतश् चिर-परिचितस् ते गङ्गदत्तः । तद् गत्वा तत्-सकाशं कुत्रचिज् जलाशयेऽन्विष्य मम सन्देशं कथय । येनागम्यताम् एकाकिनापि भवता द्रुततरं यद्य् अन्ये मण्डूका नागच्छन्ति । अहं त्वया विना नात्र वस्तुं शक्नोमि । तथा यद्य् अहं तव विरुद्धम् आचरामि तत् सुकृतम् अन्तरे मया विधृतम् ।

गोधापि तद्-वचनाद् गङ्गदत्तं द्रुततरम् अन्विष्याह-भद्र गङ्गदत्त ! स तव सुहृत्-प्रियदर्शनस् तव मार्गं समीक्षमाणस् तिष्ठति । तच् छीघ्रम् आगम्यताम् इति ।

अपरं च तेन तव विरूप-करणे सुकृतम् अन्तरे धृतम् । तन्-निःशङेन मनसा समागम्यताम् । तद् आकर्ण्य गङ्गदत्त आह-

बुभुक्षितः किं न करोति पापं
क्षीणा नरा निष्करुणा भवन्ति ।
आख्याहि भद्रे प्रिय-दर्शनस्य
न गङ्गदत्तः पुनर् एति कूपम् ॥पन्च्_४.३२॥

एवम् उक्त्वा स तां विसर्जयामास ।