सर्वम् एतद् विजानामि यथा वाह्यो ऽस्मि दर्दुरैः ।
किञ्चित् कालं प्रतीक्षेऽहं घृतान्धो ब्राह्मणो यथा ॥पन्च्_३.२४१॥
अस्ति कस्मिंश्चिद् अधिष्ठाने यज्ञदत्तो नाम ब्राह्मणः । तस्य भार्या पुंश्चल्य् अन्यासक्त-मना अजस्रं विटायस-खण्ड-घृतान् घृत-पूरान् कृत्वा भर्तुश् चौरिकया प्रयच्छति । अथ कदाचिद् भर्ता दृष्ट्वाब्रवीत्-भद्रे ! किम् एतत् परिपच्यते ? कुत्र वाजस्रं नयसीदम् ? तत् कथय सत्यम् ।
सा चोत्पन्न-प्रतिभा कृतक-वचनैर् भर्तारम् अब्रवीत्-अस्त्य् अत्र नातिदूरे भगवत्या देव्या आयतनम् । तत्राहम् उपोषिता सती बलिं भक्ष्य-विशेषांश् चापूर्वान् नयामि ।
अथ तत् पश्यता गृहीत्वा तत् सकलं देव्यायतनाभिमुखी प्रतस्थे । यत् कारणं देव्या निवेदितेनानेन मदीयो भर्तैवं मंस्यते यत् मम ब्राह्मणी भगवत्याः कृते नद्याम् अवतीर्य यावत् स्नानं करोति तावत् तद् भर्तापि मार्गान्तरेणागत्य देव्याः पृष्ठतो ऽदृश्यो ऽवतस्थे ।
अथ सा ब्राह्मणी स्नात्वा देव्य्-आयतनम् आगत्य स्नानानुलेपन-माल्य-धूप-बलि-क्रियादिकं कृत्वा देवीं प्रणम्य व्यजिज्ञपत्-भगवति ! केन प्रकारेण मम भर्तान्धो भविष्यति ?
तच् छ्रुत्वा स्वर-भेदेन देवी-पृष्ठ-स्थितो ब्राह्मणो जगाद-यदि त्वम् अजस्रं घृत-पूरादि-भक्ष्यं तस्मै भर्त्रे प्रयच्छसि, ततः शीघ्रम् अन्धो भविष्यति ।
सा तु बन्धकी कृतक-वचन-वञ्चित-मानसा तस्मै ब्राह्मणाय तद् एव नित्यं प्रददौ । अथान्येद्युर् ब्राह्मणेनाभिहितम्-भद्रे, नाहं सुतरां पश्यामि ।
तच् छ्रुत्वा चिन्तितम् अनया-देव्याः प्रसादो ऽयं प्राप्त इति । अथ तस्या हृदय-वल्लभो विटस् तत्-सकाशम्-अन्धीभूतो ऽयं ब्राह्मणः किं मम करिष्यतीति निःशङ्कं प्रतिदिनम् अभ्येति । अथान्येद्युस् तं प्रविशन्तम् अभ्याश-गतं दृष्ट्वा केशैर् गृहीत्वा लगुड-पार्ष्णि-प्रभृति-प्रहारैस् तावद् अताडयत् यावद् असौ पञ्चत्वम् आप । ताम् अपि पुष्ट-पत्नीं विच्छन्न-नासिकां कृत्वा विससर्ज ।