०३-१५ मन्दविषसर्प-कथा

स्कन्धेनापि वहेच् छत्रुं कालम् आसाद्य बुद्धिमान् ।
महता कृष्ण-सर्पेण मण्डूका बहवो हताः ॥पन्च्_३.२३८॥

अस्ति वरुणाद्रि-समीप एकस्मिन् प्रदेशे परिणत-वया मन्द-विषो नाम कृष्ण-सर्पः । स एवं चित्ते सञ्चिन्तितवान्-कथं नाम मया सुखोपाय-वृत्त्या वर्तितव्यम् इति । ततो बहु-मण्डूकं ह्रदम् उपगम्य धृति-परीतम् इवात्मानं दर्शितवान् ।

अथ तथा स्थिते सौदक-प्रान्त-गतेनैकेन मण्डूकेन पृष्टः-माम ! किम् अद्य यथा-पूर्वम् आहारार्थं न विहरसि ।

सो ऽब्रवीत्-भद्र ! कुतो मे मन्द-भाग्यस्याहाराभिलाषः ? यत् कारणम् अद्य रात्रौ प्रदोष एव मयाहारार्थं विहरमाणेन दृष्ट एको मण्डूकः । तद्-ग्रहणार्थं मया क्रमः सज्जितः । सो ऽपि मां दृष्ट्वा मृत्यु-भयेन स्वाध्याय-प्रसक्तानां ब्राह्मणानाम् अन्तरम् अपक्रान्तो न विभावितो मया क्वापि गतः । तत्-सादृश्य-मोहित-चित्तेन मया कस्यचिद् ब्राह्मणस्य सूनोर् ह्रद-तट-जलान्तः-स्थो ऽङ्गुष्ठो दष्टः । ततो ऽसौ सपदि पञ्चत्वम् उपागतः ।

अथ तस्य पित्रा दुःखितेनाहं शप्तो यथा-दुरात्मन् ! त्वया निरपराधो मत्-सुतो दष्टः । तद् अनेन दोषेण त्वं मण्डूकानां वाहनं भविष्यसि, तत्-प्रसाद-लब्ध-जीविकया वर्तिष्ये इति । ततो ऽहं युष्माकं वाहनार्थम् आगतो ऽस्मि ।

तेन च सर्व-मण्डूकानाम् इदम् आवेदितम् । ततस् तैः प्रहृष्ट-मनोभिः सर्वैर् एव गत्वा जल-पाद-नाम्नो दर्दुर-राजस्य विज्ञप्तम् । अथासाव् अपि मन्त्रि-परिवृतो ऽत्यद्भुतम् इदम् इति मन्यमानो स-सम्भ्रमं ह्रदाद् उत्तीर्य मन्द-विषस्य फणिनः फणा-प्रदेशम् अधिरूढः । शेषा अपि यथा-ज्येष्ठं तत्-पृष्ठोपरि समारुरुहुः । किं बहुना, उपरित-स्थानम् अप्राप्तवन्तस् तस्यानुपदं धावन्ति । मन्दविषो ऽपि तेषां तुष्ट्य्-अर्थम् अनेक-प्रकारान् गति-विशेषान् अदर्शयत् । अथ जलपादो लब्ध-सुखस् तम् आह-

न तथा करिणा यानं तुरगेण रथेन वा ।
नर-यानेन वा यानं यथा मन्दविषेण मे ॥पन्च्_३.२३९॥

अथान्येद्युर् मन्द-विषश् छद्मना मन्दं मन्दं विसर्पति । तच् च दृष्ट्वा जलपादो ऽब्रवीत्-भद्र ! मन्दविष ! यथा-पूर्वं किम् अद्य साधु नोह्यते ?

मन्दविषो ऽब्रवीत्-देव अद्याहार-वैकल्यान् न मे वोढुं शक्तिर् अस्ति ।

अथासाव् अब्रवीत्-भद्र ! भक्षय क्षुद्र-मण्डूकान् ।

तच् छ्रुत्वा प्रहर्षित-सर्व-गात्रो मन्दविषः स-सम्भ्रमम् अब्रवीत्-ममायम् एव विप्र-शापो ऽस्ति । तत् तवानेनानुज्ञा-वचनेन प्रीतो ऽस्मि ।

ततो ऽसौ नैरन्तर्येण मण्डूकान् भक्षयन् कतिपयैर् एवाहोभिर् बलवान् संवृत्तः । प्रहृष्टश् चान्तर्-लीनम् अवहस्येदम् अब्रवीत्-

मण्डूका विविधा ह्य् एते छल-पूर्वोपसाधिताः ।
कियन्तं कालम् अक्षीणा भवेयुः खादिता मम ॥पन्च्_३.२४०॥

जल-पादो ऽपि मन्दविषेण कृत-कवच-नव्यामोहित-चित्तः किम् अपि नावबुध्यते । अत्रान्तरेऽन्यो महाकायः कृष्ण-सर्पस् तम् उद्देशं समायातः । तं च मण्डूकैर् वाह्यमानं दृष्ट्वा विस्मय-गतम् । आह च-वयस्य ! यद् अस्माकम् अशनं तैः कथं वाह्यसे । विरुद्धम् एतत् ।

मन्दविषो ऽब्रवीत्-

सर्वम् एतद् विजानामि यथा वाह्यो ऽस्मि दर्दुरैः ।
किञ्चित् कालं प्रतीक्षेऽहं घृतान्धो ब्राह्मणो यथा ॥पन्च्_३.२४१॥

सो ऽब्रवीत्-कथम् एतत् ?

मन्दविषः कथयति-

अतोऽहं ब्रवीमि- सर्वम् एतद् विजानामीत्यादि ।

  • अथ मन्दविशोऽन्तर्लीनमवहस्य पुनरपि “मण्डूका विविधास्वादाः” इति तमेवमब्रवीत् । अथ जलपादाः तच्छ्रुत्वा सुतरां व्यग्रहृदयः “किमनेन अभिहितम्” इति तमपृच्छत्, “भद्र! किं त्वया अभिहितमिदं विरुद्धं वचः” । अथासौ - आकारप्रच्छादनार्थं -“न किञ्चित्” इति अब्रवीत । तथैव कृतकवचनव्यामोहितचित्तो जलपादस्तस्य दुष्टाभिसन्धिं न अवबुध्यते । किं बहुना, तथा तेन सर्वेऽपि भक्षिता यथा बीजमात्रमपि न अवशिष्टम् । +++(सम्पादकटिप्पनी - पुस्तकेऽयमत्राधिकः पाठः ।)+++