०३-१४ खरनखरसिंह-कथा

अनागतं यः कुरुते स शोभते
स शोचते यो न करोत्य् अनागतम् ।
वने वसन्न् एव जराम् उपागतो
बिलस्य वाचा न कदापि हि श्रुता ॥पन्च्_३.२१७॥

कस्मिंश्चिद् वनोद्देशे खरनखरो नाम सिंहः प्रतिवसति स्म । स कदाचिद् इतश् चेतश् च परिभ्रमन् क्षुत्क्षाम-कण्ठो न किञ्चिद् अपि सत्त्वम् आससाद । ततश् चास्तम् अनसमये महतीं गिरि-गुहाम् आसाद्य प्रविष्टश् चिन्तयामास-नूनम् एतस्यां गुहायां रात्रौ केनापि सत्त्वेनागन्तव्यम् । तन् निभृतो भूत्वा तिष्ठामि ।

एतस्मिन्न् अन्तरे तत्-स्वामी दधिपुच्छो नाम शृगालः समायातः । स च यावत् पश्यति तावत् सिंह-पद-पद्धतिर् गुहायां प्रविष्टः, न च निष्क्रान्ता इति दृष्टवान् । ततश् चाचिन्तयत्-अहो विनष्टो ऽस्मि, नूनम् अस्यान्तर्गतेन सिंहेन भाव्यम् । तत् किं करोमि ? कथं ज्ञास्यामि ? एवं विचिन्त्य द्वारस्थः फूत्कर्तुम् आरब्धः-अहो बिल ! अहो बिल ! इत्य् उक्त्वा तूष्णींभूय भूयो ऽपि तथैव प्रत्यभाषत-भोः ! किं न स्मरसि यन् मया त्वया सह समयः कृतो ऽस्ति ? यन् मया बाह्यात् समागतेन त्वं वक्तव्यः, त्वया चाहम् आकरणीयः इति । तद् यदि मां नाह्वयसि ततो ऽहं द्वितीयं बिलं यास्यामि ।

अथ तच् छ्रुत्वा सिंहश् चिन्तितवान्-नूनम् एषा गुहास्य समागतस्य सदा समाह्वानं करोति । परम् अद्य मद्-भयान् न किंचिद् ब्रूते । अथवा साध्व् इदम् उच्यते-

भय-सन्त्रस्त-मनसां हस्त-पादादिकाः क्रियाः ।
प्रवर्तन्ते न वाणी च वेपथुश् चाधिको भवेत् ॥पन्च्_३.२१८॥

तद् अहम् अस्याह्वानं करोमि येन तद्-अनुसारेण प्रविष्टो ऽयं मे भोज्यतां यास्यति । एवं सम्प्रधार्य सिंहस् तस्याह्वानम् अकरोत् । अथ सिंह-शब्देन सा गुहा प्रतिरव-सम्पूर्णा अन्यान् अपि दूर-स्थान् अरण्य-जीवांस् त्रासयामास ।