०३-१३अ स्वर्णष्ठीवीसिन्धुकपक्षी-कथा

पूर्वं तावद् अहं मूर्खो द्वितीयः पशु-बन्धकः ।
ततो राजा च मन्त्री च सर्वं वै मूर्ख-मण्डलम् ॥३.२१६॥

अस्ति कस्मिंश्चित् पर्वतैक-देशे महान् वृक्षः । तत्र च सिन्धुक-नामा को ऽपि पक्षी प्रतिवसति स्म । तस्य पुरीषे सुवर्णम् उत्पद्यते । अथ कदाचित् तम् उद्दिश्य व्याधः को ऽपि समाययौ । स च पक्षी तद्-अग्रत एव पुरीषम् उत्ससर्ज । अथ पात-सम-कालम् एव तत्-सुवर्णीभूतं दृष्ट्वा व्याधो विस्मयम् अगमत्-अहो मम शिशु-कालाद् आरभ्य शकुनि-बन्ध-व्यसनिनो ऽशीति-वर्षाणि समभूवन्,न च कदाचित् पक्षि-पुरीषे सुवर्णं दृष्टम् इति विचिन्त्य तत्र वृक्षे पाशं बबन्ध । अथासाव् अपि पक्षी मूर्खस् तत्रैव विश्वस्त-चित्तो यथा-पूर्वम् उपविष्टस् तत्-कालम् एव पाशेन बद्धः । व्याधस् तु तं पाशाद् उन्मुच्य पञ्जरके संस्थाप्य निजावासं नीतवान् । अथ चिन्तयामास-किम् अनेन सापायेन पक्षिणाहं करिष्यामि ? यदि कदाचित् को ऽप्य् अमुम् ईदृशं ज्ञात्वा राज्ञे निवेदयिष्यति तन् नूनं प्राण-संशयो मे भवेत् । अतः स्वयम् एव पक्षिणं राज्ञे निवेदयामि । इति विचार्य तथैवानुष्ठितवान् ।

अथ राजापि तं पक्षिणं दृष्ट्वा विकसित-नयन-वदन-कमलः परां तुष्टिम् उपगतः । प्राह चैवं-हंहो रक्षा-पुरुषाः ! एनं पक्षिणं यत्नेन रक्षत । अशन-पानादिकं चास्य यथेच्छं प्रयच्छत ।

अथ मन्त्रिणाभिहितम्-किम् अनेनाश्रद्धेय-व्याध-वचन-मात्र-परिगृहीतेनाण्डजेन ? किं कदाचित् पक्षी-पुरीषे सुवर्णं सम्भवति ? तन् मुच्यतां पञ्जर-बन्धनाद् अयं पक्षी । इति मन्त्रि-वचनाद् राज्ञा मोचितो ऽसौ पक्ष्य् उन्नत-द्वार-तोरणे समुपविश्य सुवर्ण-मयीं विष्ठां विधाय-पूर्वं तावद् अहं मूर्खः इति श्लोकं पठित्वा यथा-सुखम् आकाश-मार्गेण प्रायात् ।