०३-१३ त्रिमुनि-कथा

मुञ्च मुञ्च पतत्येको मा मुञ्चेति द्वितीयकः ।
उभयोः पतनं दृष्ट्वा मौनं सर्वार्थ-साधनम् ॥३.२०५॥

कस्मिंश्चिद् नदी-तट एकत-द्वित-त्रिताभिधानास् त्रयो ऽपि भ्रातरो मुनयस् तपः कुर्वन्ति । तेषां च तपः-प्रभावाद् आकाशस्था धौत-पोतिका निरालम्बा जलार्द्रा भू-स्पर्शन-भयेन स्नान-समये तिष्ठन्ति । अथान्ये-द्युर् ममैव काचिन् मण्डूकिका केनापि गृध्रेण बलेन नीता । अथ तां गृहीता विलोक्य तेषां ज्येष्ठेन करुणार्द्र-हृदयेन भवतेव व्याहृतं-मुञ्च मुञ्चेति । अत्रान्तरे तस्य धौत-पोतिकाकाशाद् भूमौ पतिता । तां पतितां दृष्ट्वा द्वितीयेन तद्-भयार्तेन मा मुञ्चेत्य् अभिहितं यावत् तस्यापि पपात । ततस् तृतीयो द्वयोर् अपि धौत-पोतिकां भूमौ पतितां दृष्ट्वा तूष्णीं बभूव ।