०३-१२अ मूषिका-कथा

सूर्यं भर्तारम् उत्सृज्य पर्जन्यं मारुतं गिरिम् ।
स्व-जातिं मूषिका प्राप्ता स्वजातिर् दुरतिक्रमा ॥पन्च्_३.१९९॥

+++(सम्पादकटिप्पनी - पुस्तके इतः आरभ्य १२तमी कथा…..)+++

  • अस्ति विषमशिलातलस्खलिताम्बुनिर्घोषश्रवणसन्त्रस्त-मत्स्यपरिवर्त्तनसञ्जनितश्वेतफेनशबलतरङ्गाया गङ्गायाः तटे जपनियमतपःस्वाध्यायोपवासयोगक्रियानुष्ठानपरायणैः परिपूतपरिमितजलजिघृक्षुभिः कन्दमूलफलशैलाभ्यवहारकदर्थितशरीरैः वल्कलकृतकौपीनमात्रप्रच्छादनैः तपस्विभिः आकीर्णमाश्रमपदम् । तत्र याज्ञवल्क्यो नाम कुलपतिः आसीत् । तस्य जाह्नव्यां स्नात्वा उपस्प्रष्टमारब्धस्य करतले श्येनमुखात् परिभ्रष्टा मूषिका पतिता । तां दृष्ट्वा न्यग्रोधपत्रेऽवस्थाप्य, पुनः स्नात्वा उपस्पृश्य च, प्रायश्चित्तादिक्रियां कृत्वा च, मूषिकां तां स्वतपोबलेन कन्यकां कृत्वा समादाय स्वाश्रमं आनिनाय । अनपत्याञ्च जायामाह, - “भद्रे ! गृह्यतामियं तव दुहितोत्पन्ना प्रयत्नेन संवर्द्धनीया” इति। ततः तया संवर्द्धिता लालिता पालिता च यावत् द्वादशवर्षा सञ्जाता । अथ विवाहयोग्यां तां दृष्ट्वा भर्त्तारमेव जाया उवाच, - “भो भर्त्तः! किमिदं न अवबुध्यसे यथा अस्याः स्वदुहितुर्विवाह-समयातिक्रमो भवति” असौ आह । “साधु उक्तम् ।” उक्तञ्च-

स्त्रियः पूर्व सुरैर्भुक्ताः सोमगन्धर्ववह्निभिः ।
भुञ्जते मानुषाः पश्चात्तस्माद्दोषो न विद्यते ॥३००॥

सोमस्तासां ददौ शौचं गन्धर्वाः शिक्षितां गिरम् ।
पावकः सर्वमेध्यत्वं तस्मान्निष्कल्मषाः स्त्रियः ॥३०१॥

असम्प्राप्तरजा गौरी प्राप्ते रजसि रोहिणी ।
अव्यञ्जना भवेत्कन्या कुचहीना च नग्निका ॥३०२॥

व्यञ्जनैस्तु समुत्पन्नैः सोमो भुङ्क्ते हि कन्यकाम् ।
पयोधराभ्यां गन्धर्वा रजस्यग्निः प्रतिष्ठितः॥३०३॥

तस्माद्विवाहयेत्कन्यां यावन्नर्त्तुमती भवेत् ।
विवाहश्चाष्टवर्षायाः कन्यायास्तु प्रशस्यते ॥३०४॥

व्यञ्जनं हन्ति वै पूर्वं परं चैव पयोधरौ ।
रतिरिष्टांस्तथा लोकान्हन्याच्च पितरं रजः॥३०५॥

ऋतुमत्यां तु तिष्टन्त्यां स्वेच्छादानं विधीयते ।
तस्मादुद्वाहयेन्नग्नां मनुः स्वायम्भुवोऽब्रवीत् ॥३०६॥

पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता ।
अविवाह्या तु सा कन्या जघन्या वृषली स्मृता ॥३०७॥

श्रेष्ठेभ्यः सदृशेभ्यश्च जघन्येभ्यो रजस्वला ।
पित्रा देया विनिश्चित्य यतो दोषो न विद्यते ॥३०८॥

अतोऽहमेनां सदृशाय प्रयच्छामि न अन्यस्मै ।
उक्तञ्च- ।

ययोरेव समं वित्तं ययोरेव समं कुलम् ।
तयोर्विवाहः सख्यं च न तु पुष्टविपुष्टयोः॥३०९॥ +++(सम्पादकटिप्पनी - पुस्तके एतावान् अधिकः पाठः । )+++

कुलं च शीलं च सनाथतां च
विद्यां च वित्तं च वपुर् वयश् च ।
एतान् गुणान् सप्तान् सप्त परीक्ष्य देया
कन्या बुधैः शेषम् अचिन्तनीयम् ॥पन्च्_३.२१३॥

तद् यद् यस्या रोचते तद् भगवन्तं आदित्यम् आकार्य तस्मै प्रयच्छामि । उक्तं च-

  • अनिष्टः कन्यकाया यो वरो रूपान्वितोऽपि यः ।
    यदि स्यात्तस्य नो देया कन्या श्रेयोऽभिवाञ्छता ॥३.२१४॥ +++(सम्पादकटिप्पनी - इदं पद्यं पुस्तके नास्ति ।)+++

सा प्राह-को दोषो ऽत्र विषये ? एवं क्रियताम् ।

अथ मुनिना रविर् आहूतः । वेद-मन्त्रामन्त्रण-प्रभावात् तत्-क्षणाद् एवाभ्युपगम्यादित्यः प्रोवाच-भगवन् ! वद द्रुतं किम्-अर्थम् आहूतः ?

स आह-एषा मदीया कन्यका तिष्ठति । यद्य् एषा त्वां वृणोति तर्ह्य् उद्वहस्व ताम् इति । एवम् उक्त्वा भगवांस् तस्या दर्शितः । प्रोवाच-पुत्रि ! किं तव रोचत एष भगवांस् त्रैलोक्य-दीपः ?

सा प्राह-तात ! अतिदहनात्मको ऽयम् । नाहम् एनम् अभिलषामि । अस्माद् अपि य उत्कृष्टतरः स आहूयताम् ।

अथ तस्यास् तद्-वचनम् आकर्ण्य भास्वरो ऽपि तां मूषिकां विदित्वा निःस्पृहस् तम् उवाच-भगवन् ! अस्ति ममाप्य् अधिको मेघो येनाच्छादितस्य मे नामाइ न ज्ञायते ?

अथ मुनिना मेघम् अप्य् आहूय कन्याभिहिता-एष ते रोचते ?

सा प्राह-कृष्ण-वर्णो ऽयं जडात्मा च । तद् अस्माद् अन्यस्य कस्यचित् प्रधानस्य मां प्रयच्छ ।

अथ मुनिना मेघो ऽपि पृष्टः-भोः ! त्वत्तो ऽप्य् अधिकः को ऽप्य् अस्ति ?

स आह-मत्तो ऽप्य् अधिको ऽस्ति वायुः । वायुना हतो ऽहं सहस्रधा यामि ।

तच् छ्रुत्वा मुनिना वायुर् आहूतः, आह च-पुत्रिके किम् एष वायुस् ते विवाहाय उत्तमः प्रतिभाति ?

सा आह-प्रबलो ऽप्य् अयं चञ्चलः । तद् अभ्यधिकः कश्चिद् आहूयताम् ।

मुनिर् आह-भो वायो ! त्वत्तो ऽप्य् अधिको ऽस्ति कश्चित् ?

स आह-मत्तो ऽप्य् अधिको ऽस्ति पर्वतो येन संस्तभ्य बलवान् अप्य् अहं ध्रिये ।

अथ मुनिः पर्वतम् आहूय कन्याया अदर्शयत्-पुत्रिके ! त्वाम् अस्मै प्रयच्छामि ?

सा आह-तात ! कठिनात्मको ऽयं स्तब्धश् च । तद् अन्यस्मै देहि माम् ।

अथ स मुनिना पृष्टः, यद्-भोः पर्वत-राज ! त्वत्तो ऽप्य् अधिको ऽस्ति कश्चित् ?

स आह-सन्ति मत्तो ऽप्य् अधिका मूषिकाः, ये मद्-देहं बलात् सर्वतो भेदयन्ति ।

तद् आकर्ण्य मुनिर् मूषकम् आहूय तस्या अदर्शयत्-पुत्रिके ! एष ते प्रतिभाति मूषक-राजो येन यथोचितम् अनुष्ठीयते । सापि तं दृष्ट्वा स्व-जातीय एष इति मन्यमाना पुलकोद्भूषित-शरीरा प्रोवाच-तात ! मां मूषिकां कृत्वास्मै प्रयच्छ येन स्वजाति-विहितं गृह-धर्मम् अनुतिष्ठामि ।

तच् छ्रुत्वा तेन स्त्री-धर्म-विचक्षणेन तां मूषिकां कृत्वा मूषकाय प्रदत्ता ।