सूर्यं भर्तारम् उत्सृज्य पर्जन्यं मारुतं गिरिम् ।
स्व-जातिं मूषिका प्राप्ता स्वजातिर् दुरतिक्रमा ॥३.१९९॥
- अस्ति कस्मिंश्चिद् अधिष्ठाने शालङ्कायनो नाम तपोधनो जाह्नव्यां स्नानार्थं गतः । तस्य च सूर्योपस्थानं कुर्वतस् तत्र प्रदेशे मूषिका काचित् खरतर-नखाग्र-पुटेन श्येनेन गृहीता । दृष्ट्वा स मुनिः करुणार्द्र-हृदयो मुञ्च मुञ्चेति कुर्वाणस् तस्योपरि पाषाण-खण्डं प्राक्षिपत् । सो ऽपि पाषाण-खण्ड-प्रहार-व्याकुलेन्द्रियो भ्रष्ट-मूषिको भूमौ निपपात मूषिकापि भय-त्रस्ता कर्तव्यम् अजानन्ती रक्ष रक्षेति जल्पन्ती मुनि-चरणान्तिकम् उपाविशत् । श्येनेनापि चेतनं लब्ध्वा मुनिर् उक्तो, यद्-भो मुने ! न युक्तम् अनुष्ठितं भवता यद् अहं पाषाणेन ताडितः । किं त्वम् अधर्मान् न बिभेषि ? तत् समर्पय माम् एनाम् मूषिकाम् । नो चेत् प्रभूतं पातकम् अवाप्स्यसि ।
इति ब्रुवाणं श्येनं प्रोवाच सः-भो विहङ्गाधम ! रक्षणीयाः प्राणिनां प्राणाः । दण्डनीया दुष्टाः । सम्माननीयाः साधवः । पूजनीया गुरवः । स्तुत्या देवाः । तत् किम् असम्बद्धं प्रजल्पसि ?
श्येन आह-मुने ! न त्वं सूक्ष्म-धर्मं वेत्सि । इह हि सर्वेषां प्राणिनां विधिना सृष्टिं कुर्वताहारो ऽपि विनिर्मितः । ततो यथा भवताम् अन्नं तथास्माकं मूषिकादयो विहिताः । तत् स्वाहार-काङ्क्षिणं मां किं दूषयसि ? उक्तं च-
यद्य् अस्य विहितं भोज्यं न तत् तस्य प्रदुष्यति ।
अभक्ष्ये बहु-दोषः स्यात् तस्मात् कार्यो न व्यत्ययः ॥पन्च्_३.२००॥
भक्ष्यं यथा द्विजातीनां मद्यपानां यथा हविः ।
अभक्ष्यं भक्ष्यताम् एति तथान्येषाम् अपि द्विज ॥पन्च्_३.२०१॥
भक्ष्यं भक्ष्यतां श्रेय अभक्ष्यं तु महद् अघम् ।
तत् कथं मां वृथाचार त्वं दण्डयितुम् अर्हसि ॥पन्च्_३.२०२॥
अपरं मुनीनां न चैष धर्मो यतस् तैर् दृष्टं श्रुतम् अश्रुतम् अलौल्यत्वम् अशत्रुत्वं प्रशस्यते । उक्तं च-
समः शत्रौ च मित्रे च सम-लोष्टाश्म-काञ्चनः ।
सुहृन्-मित्रे ह्य् उदासीनो मध्यस्थो द्वेष्य-बन्धुषु ।
साधुष्व् अपि च पापेषु सम-बुद्धिर् विशिष्यते ॥पन्च्_३.२०३॥
साधूनां निरवद्यानां सदाचार-विचारिणाम् ।
योगी युञ्जीत सततं सततम् आत्मानं रहसि स्थितः ॥पन्च्_३.२०४।
तत् त्वम् अनेन कर्मणा भ्रष्ट-तपाः सञ्जातः । उक्तं च-
मुञ्च मुञ्च पतत्य् एको मा मुञ्चेति द्वितीयकः ।
उभयोः पतनं दृष्ट्वा मौनं सर्वार्थ-साधनम् ॥पन्च्_३.२०५॥
शालङ्कायन आह–कथम् एतत् ?
श्येन आह-
अतो ऽहं ब्रवीमि-मुञ्च मुञ्च पतत्य् एक इत्य् आदि ।
तच् छ्रुत्वा मुनिर् विहस्याह-भो मूर्ख विहङ्गम ! कृत-युगे धर्मः स आसीत्, यतः कृत-युगे पापालापतो ऽपि पापं जायते तेन धौत-पोतिके पतिते अशिष्टालापेन न सद्-अपवचन-दोषतः । एष पुनः कलि-युगः । अत्र सर्वो ऽपि पापात्मा । तत् कर्म कृतं विना पापं न लगति । उक्तं च-
सञ्चरन्तीह पापानि युगेष्व् अन्येषु देहिनाम् ।
कलौ तु पाप-संयुक्ते यः करोति स लिप्यते ॥पन्च्_३.२०६॥
उक्तं च-
आसनाच् छयनाद् यानात् संगतेश् चापि भोजनात् ।
कृते सञ्चरते पापं तैल-बिन्दुर् इवाम्भसि ॥पन्च्_३.२०७॥
तत् किं वृथा प्रलपितेन ? गच्छ त्वम् । नो चेच् छापयिष्यामि । अथ गते श्येने मूषिकया स मुनिर् अभिहितः-भगवन् ! नय मां स्वाश्रयम् । नो चेद् अन्यो दुष्ट-पक्षी मां व्यापादयिष्यति । तद् अहं तत्रैवाश्रमे त्वद्-दत्तान्नाहार-मुष्ट्या कालं नेष्यामि ।
सो ऽपि दाक्षिण्यवान् स-करुणो व्यचिन्तयत्-कथं मया मूषिका हस्ते धृत्वा नेया जन-हास्य-कारिणी । तद् एनां कुमारिकां कृत्वा नयामि । एवं सा कन्यका कृता । तथानुष्ठिते कन्या-सहितं मुनिम् अवलोक्य पत्नी पप्रच्छ-भगवन् ! कुत इयं कन्या ?
स आह-एषा मूषिका श्येन-भयाच् छरणार्थिनी कन्या-रूपेण तव गृहम् आनीता । तत् त्वया यत्नेन रक्षणीया । भूयो ऽप्य् एनां मूषिकां करिष्यामि ।
सा प्राह-भगवन् ! मैवं कार्षीः । अस्यास् त्वं धर्म-पिता । उक्तं च-
जनिता चोपनेता च यस् तु विद्यां प्रयच्छति ।
अन्न-दाता भय-त्राता पञ्चैते पितरः स्मृताः ॥पन्च्_३.२०८॥
तत् त्वयास्याः प्राण-प्रदत्ता । अपरं ममाप्य् अपत्यं नास्ति । तस्माद् एषा मम सुता भविष्यति ।
तथानुष्ठिते सा कन्या शुक्ल-पक्ष-चन्द्र-कलिकेव नित्यं वृद्धिं प्राप्नोति । सापि तस्य मुनेः शुश्रूषां कुर्वती सपत्नीकस्य यौवनम् आश्व् अयात् । अथ तां यौवनोन्मुखीम् अवलोक्य शालङ्कायनः स्व-पत्नीम् उवाच-प्रिये ! यौवनोन्मुखी वर्तत इयं कन्या । अनर्हा स साम्प्रतं मद्-गृह-वासस्य । उक्तं च-
अनूढा मन्दिरे यस्य रजः प्राप्नोति कन्यका ।
पतन्ति पितरस् तस्य स्वर्ग-स्था अपि तैर् गुणैः ॥पन्च्_३.२०९॥
वरं वरयते कन्या माता वित्तं पिता श्रुतम् ।
बान्धवाः कुलम् इच्छन्ति मिष्टान्नम् इतरे जनाः ॥पन्च्_३.२१०॥
तथा च-
यावन् न लज्जते कन्या यावत् क्रीडति पांसुना ।
यावत् तिष्ठति गो-मार्गे तावत् कन्यां विवाहयेत् ॥पन्च्_३.२११॥
माता चैव पिता चैव ज्येष्ठ-भ्राता तथैव च ।
त्रयस् ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥पन्च्_३.२१२॥
+++(सम्पादकटिप्पनी - पुस्तके एतावान् पाठः न विद्यते ।)+++