०३-११ वीरवर-रथकार-तत्पत्नी-कथा

प्रत्यक्षेऽपि कृते पापे मूर्खः साम्ना प्रशाम्यति ।
रथ-कारः स्वकां भार्यां सजारां शिरसावहत् ॥३.१९३॥

अस्ति कस्मिंश्चिद् अधिष्ठाने वीरवरो नाम रथकारः । तस्य भार्या कामदमनी । सा पुंश्चली जनापवाद-संयुक्ता । सो ऽपि तस्याः परीक्षणार्थं व्यचिन्तयत्-अथ मयास्याः परीक्षणं कर्तव्यम् । उक्तं च-

यदि स्यात् पावकः शीतः प्रोष्णी वा शश-लाञ्छनः ।
स्त्रीणां तदा सतीत्वं स्याद् यदि स्याद् दुर्जनो हितः ॥पन्च्_३.१९४॥

जानामि चैनां लोक-वचनाद् असतीम् । उक्तं च-

यच् च वेदेषु शास्त्रेषु न दृष्टं न च संश्रुतम् ।
तत् सर्वं वेत्ति लोको ऽयं यत् स्याद् ब्रह्माण्ड-मध्यगम् ॥पन्च्_३.१९५॥

एवं सम्प्रधार्य भार्याम् अवोचत्-प्रिये ! प्रभातेऽहं ग्रामान्तरं यास्यामि । तत्र कतिचिद् दिनानि लगिष्यन्ति । तत् त्वया किम् अपि पाथेयं मम योग्यं विधेयम् ।

सापि तद्-वचनं श्रुत्वा हर्षित-चित्ता । औत्सुक्यात् सर्व-कार्याणि सन्त्यज्य सिद्धम् अन्नं घृत-शर्करा-प्रायम् अकरोत् । अथवा साध्व् इदम् उच्यते-

दुर्दिवसे घन-तिमिरे वर्षति जलदे महाटवी-प्रभृतौ ।
पत्युर् विदेश-गमने परम-सुखं जघन-चपलायाः ॥पन्च्_३.१९६॥

अथासौ प्रत्यूषे उत्थाय स्व-गृहान् निर्गतः सापि तं प्रस्थितं विज्ञाय प्रहसित-वदनाङ्ग-संस्कारं कुर्वाणा कथञ्चित् तं दिवसम् अत्यवाहयत् । अथ पूर्व-परिचित-विट-गृहे गत्वा तं प्रत्युक्तवती-स दुरात्मा मे पतिर् ग्रामान्तरं गतः । तत् त्वयास्मद्-गृहे प्रसुप्ते जने समागन्तव्यम् ।

तथानुष्ठिते स रथकारो ऽरण्ये दिनम् अतिवाह्य प्रदोषे स्व-गृहेऽपद्वारेण प्रविश्य शय्याधस्-तले निभृतो भूत्वा स्थितः । एतस्मिन्न् अन्तरे स देवदत्तः समागत्य तत्र शयने उपविष्टः । दृष्ट्वा रोषाविष्ट-चित्तो रथकारो व्यचिन्तयत्-किम् एनम् उत्थाय हन्मि ? अथवा हेलयैव प्रसुप्तौ द्वाव् अप्य् एतौ व्यापादयामि ? परं पश्यामि तावद् अस्याश् चेष्टितम् । शृणोमि चानेन सहालापम् ।

अत्रान्तरे सा गृह-द्वारं निभृतं पिधाय शयन-तलम् आरूढा । तस्यास् तत्रारोहयन्त्या रथकार-शरीरे पादो विलग्नः । ततः सा व्यचिन्तयत्-नूनम् एतेन दुरात्मना रथकारेण मत्-परीक्षणार्थं भाव्यम् । ततः स्त्री-चरित्र-विज्ञानं किम् अपि करोमि ।

एवं तस्याश् चिन्तयन्या स देवदत्तः स्पर्शोत्सुको बभूव । अथ तया कृताञ्जलि-पुटयाभिहितं-भोः महानुभाव ! न मे शरीरं त्वया स्पर्शनीयं यतो ऽहं पतिव्रता महासती च । नो चेच् छापं दत्त्वा त्वां बह्स्मसात्करिष्यामि ।

स आह-यद्य् एवं तर्हि त्वया किम् अहम् आहूतः ?

साब्रवीत्-भोः शृणुष्वैकाग्र-मनाः । अहम् अद्य प्रत्यूषे देवता-दर्शनार्थं चण्ड्कायतनं गता तत्राकस्मात् खे वाणी सञ्जाता-पुत्रि किं करोमि ? भक्तासि मे त्वं, परं षण्मासाभ्यन्तरे विधि-नियोगाद् विधवा भविष्यसि ।

ततो मयाभिहितं-भगवति ! यथा त्वम् आपदं वेत्सि, तथा तत्-प्रतीकारम् अपि जानासि । तद् अस्ति कश्चिद् उपायो येन मे पतिः शत-संवत्सर-जीवी भवति ?

ततस् तयाभिहितम्-वत्से, सन्न् अपि नास्ति, यतस् तवायत्तः स प्रतीकारः ।

तच् छ्रुत्वा मयाभिहितम्-देवि ! यदि तन् मम प्राणैर् भवति तद् आदेशय येन करोमि ।

अथ देव्याभिहितम्-यद्य् अद्य पर-पुरुषेण सहैकस्मिन् शयने समारुह्यालिङ्गनं करोषि तत् तव भर्तृ-सक्तो ऽपमृत्युस् तस्य सञ्चरति । भर्तापि तेन पुनर् वर्ष-शतं जीवति । तेन त्वं मयाभ्यर्थितः । तद् यत् किञ्चित् कर्तु-मनास् तत् कुरुष्व । न हि देवता-वचनम् अन्यथा भविष्यतीति निश्चयः । ततो ऽन्तर्हास-विकास-मुखः स तद्-उचितम् आचचार ।

सो ऽपि रथकारो मूर्खस् तस्यास् तद्-वचनम् आकर्ण्य पुलकाञ्चित-तनुः शय्याधस्तलान् निष्क्रम्य ताम् उवाच-साधु पतिव्रते ! साधु कुल-नन्दिनि ! अहं दुर्जन-वचन-शङ्कित-हृदयस् त्वत्-परीक्षा-निमित्तं ग्रामान्तर-व्याजं कृत्वा खट्वाधस्-तले निभृतं लीनः । तद् एहि, आलिङ्ग माम् । त्वं स्व-भर्तृ-भक्तानां मुख्या नारीणां, यद् एवं ब्रह्म-व्रतं पर-सङ्गेऽपि पालितवती । यद् आयुर् बुद्धि-कृतेऽपमृत्यु-विनाशार्थं चत्वम् एवं कृतवती । ताम् एवम् उक्त्वा सस्नेहम् आलिङ्गितवान् ।

स्व-स्कन्धे ताम् आरोप्य ताम् अपि देवदत्तम् उवाच-भो महानुभाव ! मत्-पुण्यैस् त्वम् इहागतः । त्वत्-प्रसादान् मया प्राप्तं वर्ष-शत-प्रमाणम् आयुः । तत् त्वम् अपि माम् आलिङ्ग्य मत्-स्कन्धे समारोह इति जल्पन्न् अनिच्छन्तम् अपि देवदत्तम् आलिङ्ग्य बलात् स्वकीय-स्कन्धे आरोपितवान् ।

ततश् च नृत्यं कृत्वा-हे ब्रह्म-व्रत-धराणां धुरीण ! त्वयापि मय्य् उपकृतम् इत्य् आद्य् उक्त्वा स्कन्धाद् उत्तार्य यत्र यत्र स्वजन-गृह-द्वारादिषु बभ्राम तत्र तत्र तयोर् उभयोर् अपि तद्-गुण-वर्णनम् अकरोत् ।