परस्परस्य मर्माणि ये न रक्षन्ति जन्तवः ।
त एव निधनं यान्ति वल्मीकोदर-सर्पवत् ॥पन्च्_३.१९१॥
अस्ति कस्मिंश्चिन् नगरे देवशक्तिर् नाम राजा । तस्य च पुत्रो जठर-वल्मीकाश्रयेणोरगेण प्रतिदिनं प्रत्यङ्गं क्षीयते । अनेकोपचारैः सद्-वैद्यैः सच्-छास्त्रोपदिष्टौषध-युक्त्यापि चिकित्स्यमानो न स्वास्थ्यम् एति । अथासौ राजपुत्रो निर्वेदाद् देशान्तरं गतः ।
कस्मिंश्चिन् नगरे भिक्षाटनं कृत्वा महति देवालये कालं यापयति । अथ तत्र नगरे बलिर् नाम राजास्ते । तस्य च द्वे दुहितरौ यौवन-स्थे तिष्ठतः । ते च प्रतिदिवसम् आदित्योदये पितुः पादान्तिकम् आगत्य नमस्कारं चक्रतुः । तत्र चैकाब्रवीत्-विजयस्व महाराज ! यस्य प्रसादात् सर्वं सुखं लभ्यते ।
द्वितीया तु-विहितं भुङ्क्ष्व महाराज ! इति ब्रवीति ।
तच् छ्रुत्वा प्रकुपितो राजाब्रवीत्-भो मन्त्रिणः ! एनां दुष्ट-भाषिणीं कुमारिकां कस्यचिद् वैदेशिकस्य प्रयच्छत तेन निज-विहितम् इयम् एव भुङ्क्ते ।
अथ तथेति प्रतिपद्याल्प-परिवारा सा कुमारिका मन्त्रिभिस् तस्य देव-कुलाश्रित-राज-पुत्रस्य प्रतिपादिता । सापि प्रहृष्ट-मनसा तं पतिं देववत् प्रतिपद्यादाय चान्य-विषयं गता ।
ततः कस्मिंश्चिद् दूरतर-नगर-प्रदेशे तडाग-तटे राज-पुत्रम् आवास-रक्षायै निरूप्य स्वयं च घृत-तैल-लवण-तण्डुलादि-क्रय-निमित्तं स-परिवारा गता । कृत्वा च क्रय-विक्रयं यावद् आगच्छति तावत् स राज-पुत्रो वल्मीकोपरि कृत-मूर्धा प्रसुप्तः । तस्य च मुखाद् भुजगः फणां निष्कास्य वायुम् अश्नाति । तत्रैव च वल्मीकेऽपरः सर्पो निष्क्रम्य तथैवासीत् ।
अथ तयोः परस्पर-दर्शनेन क्रोध-संरक्त-लोचनयोर् मध्याद् वल्मीकस्थेन सर्पेणोक्तम्-भो भो दुरात्मन् ! कथं सुन्दर-सर्वाङ्गं राज-पुत्रम् इत्थं कदर्थयसि ?
मुखस्थो ऽरिर् अब्रवीत्-भो भोः ! त्वयापि दुरात्मनास्य वल्मीकस्य मध्ये कथम् इदं दूषितं हाटक-पूर्णं कलश-युगलम् इत्य् एवं परस्परस्य मर्माण्य् उद्घाटितवन्तौ ।
पुनर् वल्मीकस्थो ऽहिर् अब्रवीत्-भो दुरात्मन् ! भेषजम् इदं ते किं को ऽपि न जानाति यज् जीर्णोत्कालित-काञ्जिका-राजिका-पानेन भवान् विनाशम् उपयाति ।
अथोदरस्थो ऽहिर् अब्रवीत्-तवाप्य् एतद् भेषजं किं कश्चिद् अपि न वेत्ति यद् उष्ण-तैलेन महोष्णोदकेन वा तव विनाशः स्याद् इति । एवं च सा राज-कन्या विटपान्तरिता तयोः परस्परालापान् मर्म-मयान् आकर्ण्य तथैवानुष्ठितवती ।
विधाय व्यङ्गं नीरोगं भर्तारं निधिं च परमम् आसाद्य स्वदेशाभिमुखं प्रायात् । पितृ-मातृ-स्वजनैः प्रतिपूजिता विहितोपभोगं प्राप्य सुखेनावस्थिता ।