०३-०९ द्रोणाख्यब्राह्मण-कथा

शत्रवो ऽपि हितार्थैव विवदन्तः परस्परम् ।
चौरेण जीवितं दत्तं राक्षसेन तु गो-युगम् ॥पन्च्_३.१९०॥

अस्ति कस्मिंश्चिद् अधिष्ठाने दरिद्रो द्रोण-नामा ब्राह्मणः, प्रतिग्रह-धनः सततं विशिष्ट-वस्त्रानुलेपन-गन्ध-माल्यालङ्कार-ताम्बूलादि-भोग-परिवर्जितः, प्ररूढ-केश-श्मश्रु-नख-रोमोपचितः, शीतोष्ण-वात-वर्षादिभिः परिशोषित-शरीरः, तस्य च केनापि यजमानेनानुकम्पया शिशु-गो-युगं दत्तम् । ब्राह्मणेन च बाल-भावाद् आरभ्य याचित-घृत-तैल-यवसादिभिः संवर्ध्य सुपुष्टं कृतम् । तच् च दृष्ट्वा सहसैव कश्चिच् चौरश् चिन्तितवान्-अहम् अस्य ब्राह्मणस्य गो-युगम् इदम् अपहरिष्यामि । इति निश्चित्य निशायां बन्धन-पाशं गृहीत्वा, यावत् प्रस्थितस् तावद् अर्ध-मार्गे प्रविरल-तीक्ष्ण-दन्त-पङ्क्तिर् उन्नत-नासा-वंशः, प्रकट-रक्तान्त-नयनः उपचित-स्नायु-सन्ततनत-गात्रः शुष्क-कपोलः सुहुत-हुतवह-पिङ्गल-श्मश्रु-केश-शरीरः कश्चिद् दृष्टः । दृष्ट्वा च तं तीव्र-भय-त्रस्तो चौरो ऽब्रवीत्-को भवान् ? इति ।

सो ऽब्रवीत्-अहं क्रूर-कर्मा चौरो दरिद्र-ब्राह्मणस्य गो-युगं हर्तुं प्रस्थितो ऽस्मि ।

अथ जात-प्रत्ययो राक्षसो ऽब्रवीत्-भद्र ! षष्ठाह्न-कालिको ऽहम् । अतस् तम् एव ब्राह्मणम् अद्य भक्षयिष्यामि ।

अथ तौ तत्र गत्वैकान्ते कान्लम् अन्वेषयन्तौ स्थितौ । प्रसुप्ते च ब्राह्मणे तद्-भक्षणार्थं प्रस्थितं राक्षसं दृष्ट्वा चौरो ऽब्रवीत्-भद्र ! नैषन्यायो यतो गो-युगे मयापहृते पश्चात् त्वम् एनं ब्राह्मणं भक्षय ।

सो ऽब्रवीत्-कदाचिद् अयं ब्राह्मणो गो-शब्देन बुध्येत तदानर्थको ऽयं ममारम्भः स्यात् ।

चौरो ऽप्य् अब्रवीत्-तवापि यदि भक्षणायोपस्थितस्य एको ऽप्य् अन्तरायः स्यात् । तदाहम् अपि न शक्नोमि गो-युगम् अपहर्तुम् । अतः प्रथमं मयापहृते गो-युगे पश्चात् त्वया ब्राह्मणो भक्षितव्यः । इत्थं चाहम् अहमिकया तयोर् विवदतोः समुत्पन्ने द्वैधे प्रतिरव-वशाद् ब्राह्मणो जजागार ।

अथ तं चौरो ऽब्रवीत्-ब्राह्मण ! त्वाम् एवायं राक्षसो भक्षयितुम् इच्छति इति ।

राक्षसो ऽप्य् आह-ब्राह्मण ! चौरो ऽयं गो-युगं तेऽपहर्तुम् इच्छति ।

एवं श्रुत्वोत्थाय ब्राह्मणः सावधानो भूत्वेष्ट-देवता-मन्त्र-ध्यानेनात्मानं राक्षसाद् उद्गूर्ण-लगुडेन चौराद् गो-युगं ररक्ष ॥