या ममोद्विजते नित्यं सा ममाद्यावगूहते ।
प्रिय-कारक भद्रं ते यन् ममास्ति हरस्व तत् ॥पन्च्_३.१८६॥
चोरेण चाप्य् उक्तम्-
हर्तव्यं ते न पश्यामि हर्तव्यं चेद् भविष्यति ।
पुनर् अप्य् आगमिष्यामि यदीयं नावगूहते ॥पन्च्_३.१८७॥
अस्ति कस्मिंश्चिद् अधिष्ठाने कामातुरो नाम वृद्ध-वणिक् । तेन च कामोपहृत-चेतसा, मृत-भार्येण काचिन् निर्धन-वणिक्-सुता, प्रभूतं धनं दत्त्वोद्वाहिता । अथ सा दुःखाभिभूता तं वृद्ध-वणिजं द्रष्टुम् अपि न शशाक । युक्तं चैतत्-
श्वेतं पदं शिरसि यत् तु शिरोरुहाणां
स्थानं परं परिभवस्य तद् एव पुंसाम् ।
आरोपितास्थि-शकलं परिहृत्य यान्ति
चाण्डाल-कूपम् इव दूरतरं तरुण्यः ॥पन्च्_३.१८८॥
तथा च-
गात्रं सङ्कुचितं गतिर् विगलिता दन्ताश् च नाशङ्गता
दृष्टिर् भ्राम्यति रूपम् अप्य् उपहतं वक्त्रं च लालायते ।
वाक्यं नैव करोति बान्धव-जनः पत्नी न शुश्रूषते
धिक् कष्टं जरयाभिभूत-पूरुषं पुत्रो ऽप्य् अवज्ञायते ॥पन्च्_३.१८९॥
अथ कदाचित् सा तेन सहैकशयने पराङ्मुखी यावत् तिष्ठति तावद् गृहे चौरः प्रविष्टः । सापि तं चौरं दृष्ट्वा भय-व्याकुलिता वृद्धम् अपि तं पतिं गाढं समालिलिङ्ग । सो ऽपि विस्मयात् पुलकाञ्चित-सर्व-गात्रश् चिन्तयामास-अहो किम् एषा माम् अद्यावगूहते ? यावन् निपुणतया पश्यति तावत् गृह-कोणैक-देशे चौरं दृष्ट्वा व्यचिन्तयत्-नूनम् एषास्य भयान् माम् आलिङ्गति इति ज्ञात्वा तं चौरम् आह-या ममोद्विजते (१८६) इत्य् आदि ।