श्रूयते हि कपोतेन शत्रुः शरणम् आगतः ।
पूजितश् च यथा-न्यायं स्वैश् च मांसैर् निमन्त्रितः ॥पन्च्_३.१३४॥
कश्चिद् क्षुद्र-समाचारः प्राणिनां काल-सन्निभः ।
विचचार महारण्ये घोरः शकुनि-लुब्धकः ॥पन्च्_३.१३५॥
नैव कश्चित् सुहृत् तस्य न सम्बन्धी न बान्धवः ।
स तैः सर्वैः परित्यक्तस् तेन रौद्रेण कर्मणा ॥पन्च्_३.१३६॥
अथवा-
ये नृशंसा दुरात्मनः प्राणिनां प्राण-नाशकाः ।
उद्वेजनीया भूतानां व्याला इव भवन्ति ते ॥पन्च्_३.१३७॥
स पञ्जरकम् आदाय पाशं च लगुडं तथा ।
नित्यम् एव वनं याति सर्व-प्राणि-विहिंसकः ॥पन्च्_३.१३८॥
अन्येद्युर् भ्रमतस् तस्य वने कापि कपोतिका ।
जाता हस्त-गता तां स प्राक्षिपत् पञ्ज्चरान्तरे ॥पन्च्_३.१३९॥
अथ कृष्णा दिशः सर्वा वनस्थस्याभवन् घनैः
वात-वृष्टिश् च महतो क्षय-काल इवाभवत् ॥पन्च्_३.१४०॥
ततः स त्रस्त-हृदयः कम्पमानो मुहुर् मुहुः ।
अन्वेषयन् परित्राणम् आससाद वनस्पतिम् ॥पन्च्_३.१४१॥
मुहूर्तं पश्यते यावद् वियद् विमल-तारकम् ।
प्राप्य वृक्षं वदत्य् एवं यो ऽत्र तिष्ठति कश्चन ॥पन्च्_३.१४२॥
तस्याहं शरणं प्राप्तः स परित्रातु माम् इति ।
शीतेन भिद्यमानं च क्षुधया गत-चेतनम् ॥पन्च्_३.१४३॥
अथ तस्य तरोः स्कन्धे कपोतः सुचिरोषितः ।
भार्या-विरहितस् तिष्ठन् विललाप सुदुःखितः ॥पन्च्_३.१४४॥
वात-वर्षो महान् आसीन् न चागच्छति मे प्रिया ।
तया विरहितं ह्य् एतच् छून्यम् अद्य गृहं मम ॥पन्च्_३.१४५॥
पतिव्रता पति-प्राणा पत्युः प्रिय-हिते रता ।
यस्य स्याद् ईदृशी भार्या धन्यः स पुरुषो भुवि ॥पन्च्_३.१४६॥
न गृहं गृहम् इत्य् आहुर् गृहिणी गृहम् उच्यते ।
गृहं तु गृहिणी-हीनम् अरण्य-सदृशं मतम् ॥पन्च्_३.१४७॥
पञ्जर-स्था ततः श्रुत्वा भर्तुर् दुःखान्वितं वचः ।
कपोतिका सुसन्तुष्टा वाक्यं चेदम् अथाह सा ॥पन्च्_३.१४८॥
न सा स्त्रीत्य् अभिमन्तव्या यस्यां भर्ता न तुष्यति ।
तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्व-देवताः ॥पन्च्_३.१४९॥
दावाग्निना विदग्धेव स-पुष्प-स्तवका लता ।
भस्मीभवतु सा नारी यस्यां भर्ता न तुष्यति ॥पन्च्_३.१५०॥
मितं ददाति हि पिता मितं भ्राता मितं सुतः ।
अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥पन्च्_३.१५१॥
पुनश् चाब्रवीत्-
शृणुष्वावहितः कान्त यत् ते वक्ष्याम्य् अहं हितम् ।
प्राणैर् अपि त्वया नित्यं संरक्ष्यः शरणागतः ॥पन्च्_३.१५२॥
एष शाकुनिकः शेते तवावासं समाश्रितः ।
शीतार्तश् च क्षुधार्तश् च पूजाम् अस्मै समाचर ॥पन्च्_३.१५३॥
श्रूयते च-
यः सायम् अतिथिं प्राप्तं यथा-शक्ति न पूजयेत् ।
तस्यासौ दुष्कृतं दत्त्वा सुकृतं चापकर्षति ॥पन्च्_३.१५४॥
मा चास्मै त्वं कृथा द्वैषं बद्धानेनेति मत्-प्रिया ।
स्व-कृतैर् एव बद्धाहं प्राक्तनैः कर्म-बन्धनैः ॥पन्च्_३.१५५॥
दारिद्र्य-रोग-दुःखानि बन्धन-व्यसनानि च ।
आत्मापराध-वृक्षस्य फलान्य् एतानि देहिनाम् ॥पन्च्_३.१५६॥
तस्मात् त्वं द्वेषम् उत्सृज्य मद्-बन्धन-समुद्भवम् ।
धर्मे मनः समाधाय पूजयैनं यथा-विधि ॥पन्च्_३.१५७॥
तस्यास् तद्-वचनं श्रुत्वा धर्म-युक्ति-समन्वितम् ।
उपगम्य ततो ऽधृष्टः कपोतः प्राह लुब्धकम् ॥पन्च्_३.१५८॥
भद्र सुस्वागतं तेऽस्तु ब्रूहि किं करवाणि ते ।
सन्तापश् च न कर्तव्यः स्व-गृहे वर्तते भवान् ॥पन्च्_३.१५९॥
तस्य तद्-वचनं श्रुत्वा प्रत्युवाच विहङ्गमम् ।
कपोत खलु शीतं मे हिम-त्राणं विधीयताम् ॥पन्च्_३.१६०॥
स गत्वाङ्गारकं नीत्वा पातयामास पावकम् ।
ततः शुष्केषु पर्णेषु तम् आशु समदीपयत् ॥पन्च्_३.१६१॥
सुसन्दीप्तं ततः कृत्वा तम् आह शरणागतम् ।
प्रतापयस्व विश्रब्धं स्व-गात्राण्य् अत्र निर्भयः ॥पन्च्_३.१६२॥
उद्गतेन च जीवामो वयं सर्वे वनौकसः ।
+++(सम्पादकटिप्पनी- पुस्तके १,२ पादौ न विद्येते ।)+++
न चास्ति विभवः कश्चिन् नाशये येन ते क्षुधम् ॥पन्च्_३.१६३॥
सहस्रं भरते कश्चिच् छतमन्यो दशापरः ।
मम त्व् अकृत-पुण्यस्य क्षुद्रस्यात्मापि दुर्भरः ॥पन्च्_३.१६४॥
एकस्याप्य् अतिथेर् अन्नं यः प्रदातुं न शक्तिमान् ।
तस्यानेक-परिक्लेशे गृहे किं वसतः फलम् ॥पन्च्_३.१६५॥
तत् तथा साधयाम्य् एतच् छरीरं दुःख-जीवितम् ।
यथा भूयो न वक्ष्यामि नास्तीत्य् अर्थि-समागमे ॥पन्च्_३.१६६॥
स निनिन्दि किलात्मानं न तु तं लुब्धकं पुनः ।
उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय ॥पन्च्_३.१६७॥
एवम् उक्त्वा स धर्मात्मा प्रहृष्टेनान्तरात्मना ।
तम् अग्निं सम्परिक्रम्य प्रविवेश स्व-वेश्मवत् ॥पन्च्_३.१६८॥
ततस् तं लुब्धको दृष्ट्वा कृपया पीडितो भृशम् ।
कपोतम् अग्नौ पतितं वाक्यम् एतद् अभाषत ॥पन्च्_३.१६९॥
यः करोति नरः पापं न तस्यात्मा ध्रुवं प्रियः ।
आत्मना हि कृतं पापम् आत्मनैव हि भुज्यते ॥पन्च्_३.१७०॥
सो ऽहं पाप-मतिश् चैव पाप-कर्म-रतः सदा ।
पतिष्यामि महा-घोरे नरके नात्र संशयः ॥पन्च्_३.१७१॥
नूनं मम नृशंसस्य प्रत्यादर्शः सुदर्शितः ।
प्रयच्छता स्व-मांसानि कपोतेन महात्मना ॥पन्च्_३.१७२॥
अद्य-प्रभृति देहं स्वं सर्व-भोग-विवर्जितम् ।
तोयं स्वल्पं यथा ग्रीष्मः शोषयिष्याम्य् अहं पुनः ॥पन्च्_३.१७३॥
शीत-वातातप-सहः कृशाङ्गो मलिनस् तथा ।
उपवासैर् बहुविधैश् चरिष्ये धर्मम् उत्तमम् ॥पन्च्_३.१७४॥
ततो यष्टिं शलाकां च जालकं पञ्जरं तथा ।
बभञ्ज लुब्धको दीनां कापोतीं च मुमोच ताम् ॥पन्च्_३.१७५॥
लुब्धकेन ततो मुक्ता दृष्ट्वाग्नौ पतितं पतिम् ।
कपोती विललापार्ता शोक-सन्तप्त-मानसा ॥पन्च्_३.१७६॥
न कार्यम् अद्य मे नाथ जीवितेन त्वया विना ।
दीनायाः पति-हीनायाः किं नार्या जीविते फलम् ॥पन्च्_३.१७७॥
मानो दर्पस् त्व् अहङ्कारः कुलं पूजा च बन्धुषु ।
दास-भृत्य-जनेष्व् आज्ञा वैधव्येन प्रणश्यति ॥पन्च्_३.१७८॥
एवं विलप्य बहुशः कृपणं भृश-दुःखिता ।
पतिव्रता सुसन्दीप्तं तम् एवाग्निं विवेश सा ॥पन्च्_३.१७९॥
ततो दिव्याम्बर-धरा दिव्याभरण-भूषिता ।
भर्तारं सा विमानस्थं ददर्श स्वं कपोतिका ॥पन्च्_३.१८०॥
सो ऽपि दिव्य-तनुर् भूत्वा यथार्थम् इदम् अब्रवीत् ।
अहो माम् अनुगच्छन्त्या कृतं साधु शुभे त्वया ॥पन्च्_३.१८१॥
तिस्रः कोट्यो ऽर्ध-कोटी च यानि रोमाणि मानुषे ।
तावत् कालं वसेत् स्वर्गे भर्तारं यानुगच्छति ॥पन्च्_३.१८२॥
कपोत-देहः सूर्यास्ते प्रत्यहं सुखम् अन्वभूत् ।
कपोत-देहवत्सासीत् प्राक् पुण्य-प्रभवं हितम् ॥पन्च्_३.१८३॥
हर्षाविष्टस् ततो व्याधो विवेश च वनं धनम् ।
प्राणि-हिंसां परित्यज्य बहु-निर्वेदवान् भृशम् ॥पन्च्_३.१८४॥
तत्र दावानलं दृष्ट्वा विवेश विरताशयः ।
निर्दग्ध-कल्मषो भूत्वा स्वर्ग-सौख्यम् अवाप्तवान् ॥पन्च्_३.१८५॥