०३-०६ हैमहंस-कथा

भूतान् यो नानुगृह्णाति ह्य् आत्मनः शरणागतान् ।
भूतार्थास् तस्य नश्यन्ति हंसाः पद्म-वने यथा ॥पन्च्_३.१३३॥

अस्ति कस्मिंश्चिद् अधिष्ठाने चित्ररथो नाम राजा । तस्य योधैः सुरक्ष्यमाणं पद्मसरो नाम सरस् तिष्ठति तत्र च प्रभूता जाम्बूनद-मया हंसास् तिष्ठन्ति । षण्मासे षण्मासे पिच्छम् एकैकं परित्यजन्ति । अथ तत्र सरसि सौवर्णो बृहत्-पक्षी समायातः । तैश् चोक्तः-अस्माकं मध्ये त्वया न वस्तव्यम् । येन कारणेनास्माभिः षण्मासान्ते पिच्छैकैक-दानं कृत्वा गृहीतम् एतत् सरः । एवं च किं बहुना, परस्परं द्वैधम् उत्पन्नम् । स च राज्ञः शरणं गतो ऽब्रवीत्-देव ! एते पक्षिण एवं वदन्ति, यद् अस्माकं राजा किं करिष्यति ? न कस्याप्य् आवासं दद्मः ।

मया चोक्तं-न शोभनं युष्माभिर् अभिहितम् । अहं गत्वा राज्ञे निवेदयिष्यामि । एवं स्थिते देवः प्रमाणम् ।

ततो राजा भृत्यान् अब्रवीत्-भो भोः गच्छत । सर्वान् पक्षिणो गतासून् कृत्वा शीघ्रम् आनयत । राजादेशानन्तरम् एव प्रचेलुस् ते ।

अथ लगुड-हस्तान् राज-पुरुषान् दृष्ट्वा तत्रैकेन पक्षिणा वृद्धेनोक्तम्-भोः स्वजनाः ! न शोभनम् आपतितम् । ततः सर्वैर् एक-मती-भूयोत्पतितव्यम् । तैश् च तथानुष्ठितम् ।