कश्चित् क्षुद्र-समाचारः प्राणिनां काल-सन्निभः ।
विचचार महारण्ये घोरः शुनि-लुब्धकः ॥पन्च्_३.१३२॥ +++(सम्पादकटिप्पनी - पुस्तके इदं पद्यं नास्ति ।)+++
- चितिकां दीपितां पश्य फटां भग्नां मैव च ।
भिन्नश्लिष्टा तु या प्रीतिर्न सा स्नेहेन वर्द्धते ॥ +++(सम्पादकटिप्पनी - पुस्तके इदं पद्यमत्र ।)+++
अस्ति कस्मिंश्चिद् अधिष्ठाने हरिदत्तो नाम ब्राह्मणः । तस्य च कृषिं कुर्वतः सदैव निष्फलः कालो ऽतिवर्तते । अथैकस्मिन् दिवसे स ब्राह्मण उष्ण-कालावसाने घर्मार्तः स्व-क्षेत्र-मध्ये वृक्ष-च्छायायां प्रसुप्तो ऽनतिदूरे वल्मीकोपरि प्रसारितं बृहत्-फटा-युक्तं भीषणं भुजङ्गं दृष्ट्वा चिन्तयामास-नूनम् एषा क्षेत्र-देवता मया कदाचिद् अपि न पूजिता । तेनेदं मे कृषि-कर्म विफलीभवति । तद् अस्या अहं पूजाम् अद्य करिष्यामि । इत्य् अवधार्य कुतो ऽपि क्षीरं याचित्वा शरावे निक्षिप्य वल्मीकान्तिकम् उपगत्योवाच-भोः क्षेत्र-पाल ! मयैत्वावन्तं कालं न ज्ञातं यत् त्वम् अत्र वससि । तेन पूजा न कृता । तत् साम्प्रतं क्षमस्वेति ।
एवम् उक्त्वा दुग्धं च निवेद्य गृहाभिमुखं प्रायात् । अथ प्रातर् यावद् आगत्य पश्यति, तावद् दीनारम् एकं शरावे दृष्टवान् । एवं च प्रतिदिनम् एकाकी समागत्य तस्मै क्षीरं ददाति, एकैकं च दीनारं गृह्णाति । अथैकस्मिन् दिवसे क्षीर-नयनाय पुत्रं निरूप्य ब्राह्मणो ग्रामान्तरं जगाम । पुत्रो ऽपि क्षीरं तत्र नीत्वा संस्थाप्य च पुनर् गृहं समायातः । दिनान्तरे तत्र गत्वा दीनारकं दृष्ट्वा गृहीत्वा च चिन्तितवान्-नूनं सौवर्ण-दीनार-पूर्णो वल्मीकः । तद् एनं हत्वा सर्वम् एक-वारं ग्रहीष्यामि इत्य् एवं सम्प्रधार्यान्येद्युः क्षीरं ददता ब्राह्मण-पुत्रेण सर्पो लगुडेन ताडितः । ततः कथम् अपि दैव-वशाद् अमुक्त-जीवित् एव रोषात् तम् एव तीव्र-विषद-शनैस् तथादशत्, यथा सद्यः पञ्चत्वम् उपागतः । स्वजनैश् च नातिदूरे क्षेत्रस्य काष्ठ-सञ्चयैः संस्कृतः ।
अथ द्वितीय-दिने तस्य पिता समायातः । स्वजनेभ्यः सुत-विनाश-कारणं श्रुत्वा तथैव समर्थितवान् । अब्रवीच् च-
भूतान् यो नानुगृह्णाति ह्य् आत्मनः शरणागतान् ।
भूतार्थास् तस्य नश्यन्ति हंसाः पद्म-वने यथा ॥पन्च्_३.१३३॥
पुरुषैर् उक्तं-कथम् एतत् ?
ब्राह्मणः कथयति-
अतो ऽहं ब्रवीमि-भूतान् यो नानुगृह्णाति (१३३) इति ।
इत्य् उक्त्वा पुनर् अपि ब्राह्मणः प्रत्यूषे क्षीरं गृहीत्वा तत्र गत्वा तार-स्वरेण सर्पम् अस्तौत् । तदा सर्पश् चिरं वल्मीक-द्वारान्तर्-लीन एव ब्राह्मणं प्रत्युवाच-त्वं लोभाद् अत्रागतः पुत्र-शोकम् अपि विहाय । अतः परं तव मम च प्रीतिर् नोचिता । तव पुत्रेण यौवनोन्मादेनाहं ताडितो मया स दृष्टः । कथं मया लगुड-प्रहारो विस्मर्तव्यः । त्वया च पुत्र-शोक-दुःखं कथं विस्मर्तव्यम् इति पुनर् उक्त्वा विवरान्तर्-गतः । ब्राह्मणश् च मणिं गृहीत्वा पुत्र-बुद्धिं निन्दन् स्व-गृहम् आगतः ।