बहवो न विरोद्धव्या दुर्जया हि महाजनाः ।
स्फुरन्तम् अपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥पन्च्_३.१२१॥
अस्ति कस्मिंश्चिद् वल्मीके महा-कायः कृष्ण-सर्पो ऽतिदर्पो नाम । स कदाचिद् विलानुसारि-मार्गम् उत्सृज्यान्येन लघु-द्वारेण निष्क्रमितुम् आरब्धः । निष्क्रामतश् च तस्य महा-कायत्वाद् दैव-वशतया लघु-विवरत्वाच् च शरीरे व्रणः समुत्पन्नः । अथ व्रण-शोणित-गन्धानुसारिणीभिः पिपीलिकाभिः सर्वतो व्याप्तो व्याकुलीकृतश् च । कति व्यापादयति कति वा ताडयति ? अथ प्रभूतत्वाद् विस्तारित-बहु-व्रणः क्षत-सर्वाङ्गो ऽतिदर्पः पञ्चत्वम् उपागतः ।