०३-०३ मित्रशर्मब्राह्मण-कथा

बहु-बुद्धि-समायुक्ताः सुविज्ञाना बलोत्कटान् ।
शक्ता वञ्चयितुं धूर्ता ब्राह्मणं छागलद् इव ॥पन्च्_३.११६॥

कस्मिंश्चिद् अधिष्ठाने मित्रशर्मा नाम ब्राह्मणः कृताग्निहोत्र-परिग्रहः प्रतिवसति स्म । तेन कदाचिन् माघ-मासे सौम्यानिले प्रवाति, मेघाच्छादिते गगने मन्दं मन्दं प्रवर्षति पर्जन्ये, पशु-प्रार्थनार्थं किञ्चिद् ग्रामान्तरं गत्वा, कश्चिद् यजमानो याचितः-भो यजमान ! आगामिन्याम् अमावास्यायाम् अहं यक्ष्यामि यज्ञम् । तद् देहि मे पशुम् एकम् ।

अथ तेन यस्य शास्त्रोक्तः पीवर-तनुः पशुः प्रदत्तः । सो ऽपि तं समर्थम् इतश् चेतश् च गच्छन्तं विज्ञाय स्कन्धे कृत्वा सत्वरं स्व-पुराभिमुखः प्रतस्थे ।

अथ तस्य गच्छतो मार्गे त्रयो धूर्ताः क्षुत्-क्षाम-कण्ठाः संमुखा बभूवुः । तैश् च तादृशं पीवर-तनुं स्कन्ध आरूढम् आलोक्य, मिथो ऽभिहितं-अहो ! अस्य पशोर् भक्षणाद् अद्यतनीयो हिम-पातो व्यर्थतां नीयते । तद् एनं वञ्चयित्वा पशुम् आदाय शीत-त्राणं कुर्मः ।

अथ तेषाम् एकतमो वेश-परिवर्तनं विधाय संमुखो भूत्वापमार्गेण तम् आहिताग्निम् ऊचे-भो भोः ! बालाग्निहोत्रिन् ! किम् एवं जन-विरुद्धं हास्य-कार्यम् अनुष्ठीयते ? यद् एष सारमेयो ऽपवित्रः स्कन्धाधिरूढो नीयते । उक्तं च यतः ।

श्वान-कुक्कुट-चाण्डालाः सम-स्पर्शाः प्रकीर्तिताः ।
रासभोष्ट्रौ विशेषेण तस्मात् तान् नैव संस्पृशेत् ॥पन्च्_३.११७॥

ततश् च तेन कोपाभिभूतेनाभिहितम्-अहो ! किम् अन्धो भवान् ? यत् पशुं सारमेयत्वेन प्रतिपादयसि ?

सो ऽब्रवीत्-ब्रह्मन् ! कोपस् त्वया न कार्यः । यथेच्छं गम्यताम् ।

अथ यावत् किञ्चिद् अध्वनो ऽन्तरं गच्छति, तावद् द्वितीयो धूर्तः सम्मुखम् अभ्युपेत्य तम् उवाच-भोः ब्रह्मन् ! कष्टं कष्टम् ! यद्यपि वल्लभो ऽयं ते मृत-वत्सस् तथापि स्कन्धम् आरोपयितुम् अयुक्तम् । उक्तं च यतः-

तिर्यञ्चं मानुषं वापि यो मृतं संस्पृशेत् कुधीः ।
पञ्च-गव्येन शुद्धिः स्यात् तस्य चान्द्रायणेन वा ॥पन्च्_३.११८॥

अथासौ स-कोपम् इदम् आह-भोः ! किम् अन्धो भवान् ? यत् पशुं मृत-वत्सं वदति ।

सो ऽब्रवीत्-भगवन् ! मा कोपं कुरु । अज्ञानान् मयाभिहितम् । तत् त्वम् आत्म-रुचिं समाचर इति ।

अथ यावत् स्तोकं वनान्तरं गच्छति तावत् तृतीयो ऽन्य-वेश-धारी धूर्तः सम्मुखः समुपेत्य तम् उवाच-भोः ! अयुक्तम् एतत्, यद् रासभं स्कन्धाधिरूढं नयसि । तत् त्यज्यताम् एषः । उक्तं च-

यः स्पृशेद् रासभं मर्त्यो ज्ञानाद् अज्ञानतो ऽपि वा ।
स-चैलं स्नानम् उद्दिष्टं तस्य पाप-प्रशान्तये ॥पन्च्_३.११९॥

तत् त्यजैनं यावद् अन्यः कश्चिन् न पश्यति ।

अथासौ तं पशुं रासभं मन्यमानो भयाद् भूमौ प्रक्षिप्य स्व-गृहम् उद्दिश्य पलायितुं प्रारब्धः । ततस् तेऽपि त्रयो मिलित्वा पशुम् आदाय यथेच्छं भक्षितुम् आरब्धाः ।