क्षुद्रम् अर्थपतिं प्राप्य न्यायान्वेषण-तत्-परौ ।
उभाव् अपि क्षयं प्राप्तौ पुरा शशक-पिञ्जलौ ॥पन्च्_३.९१॥
कस्मिंश्चिद् वृक्षे पुराहम् अवसम् । तत्राधस्तात् कोटरे कपिञ्जलो नाम चटकः प्रतिवसति स्म । अथ सदैवास्तम् अनवेलायाम् आगतयोर् द्वयोर् अनेक-सुभाषित-गोष्ठ्या देवर्षि-ब्रह्मर्षि-राजर्षि-पुराण-चरित-कीर्तनेन च पर्यटन-दृष्टानेक-कौतूहल-प्रकथनेन च परम-सुखम् अनुभवतोः कालो व्रजति । अथ कदाचित् कपिञ्जलः प्राण-यात्रार्थम् अन्यैश् चटकैः सहान्यं पक्व-शालि-प्राञं देशं गतः । ततो यावन् निशा-समयेऽपि नायातस् तावद् अहं सोद्वेग-मनास् तद्-विप्रयोग-दुःखितश् चिन्तितवान्-अहो किम् अद्य कपिञ्जलो नायातः । किं केनापि पाशेन बद्धः ? आहो स्वित् केनापि व्यापादितः ? सर्वथा यदि कुशलो भवति, यन् मां विना न तिष्ठति ।
एवं मे चिन्तयतो बहून्य् अन्यानि व्यतिक्रान्तानि । ततश् च तत्र कोटरे कदाचिच् छीघ्रगो नाम शशको ऽस्तम् अनवेलायाम् आगत्य प्रविष्टः । मयापि कपिञ्जल-निराशत्वेन न निवारितः । अथान्यस्मिन्न् अहनि कपिञ्जलः शालि-भक्षणाद् अतीव पीवर-तनुः स्वाश्रयं स्मृत्वा भूयो ऽप्य् अत्रैव समायातः । अथवा साध्व् इदम् उच्यते-
न तादृग् जायते सौख्यम् अपि स्वर्गे शरीरिणाम् ।
दारिद्र्येऽपि हि यादृक् स्यात् स्व-देशे स्व-पुरे गृहे ॥पन्च्_३.९२॥
अथासौ कोटरान्तर्गतं शशकं दृष्ट्वा साक्षेपम् आह-भोः शशक ! न त्वया सुन्दरं कृतं, यन् ममावसथ-स्थाने प्रविष्टो ऽसि । तच् छीघ्रं निष्क्रम्यताम् ।
शशक आह-न तवेदं गृहम्, किन्तु ममैव । तत् किं मिथ्या परुषाणि जल्पसि ? उक्तं च-
वापी-कूप-तडागानां देवालय-कुजन्मनाम् ।
उत्सर्गात् परतः स्वाम्यम् अपि कर्तुं न शक्यते ॥पन्च्_३.९३॥
तथा च-
प्रत्यक्षं यस्य यद् भुक्तं क्षेत्राद्यं दश वत्सरान् ।
तत्र भुक्तिः प्रमाणं स्याद् न साक्षी नाक्षराणि वा ॥पन्च्_३.९४॥
मानुषाणाम् अयं न्यायो मुनिभिः परिकीर्तितः ।
तिरश्चां च विहङ्गानां यावद् एव समाश्रयः ॥पन्च्_३.९५॥
तन् ममैतद् गृहम्, न तवेति ।
कपिञ्जल आह-भोः ! यदि स्मृतिं प्रमाणीकरोषि, तद् आगच्छ मया सह येन स्मृति-पाठकं पृष्ट्वा स यस्य ददाति स गृह्णातु ।
तथानुष्ठिते मयापि चिन्तितं-किम् अत्र भविष्यति ? मया द्रष्टव्यो ऽयं न्यायः । ततः कौतुकाद् अहम् अपि ताव् अनुप्रस्थितः । अत्रान्तरे तीक्ष्णदंष्ट्रो नामारण्य-मार्जारस् तयोर् विवादं श्रुत्वा मार्गासन्नं नदी-तटम् आसाद्य कृत-कुशोपग्रहो निमीलित-नयन ऊर्ध्व-बाहुर् अर्ध-पाद-स्पृष्ट-भूमिः श्री-सूर्याभिमुख इमां धर्मोपदेशनाम् अकरोत्-अहो ! असारो ऽयं संसारः । क्षण-भङ्गुराः प्राणाः । स्वप्न-सदृशः प्रिय-समागमः । इन्द्र-जालवत् कुटुम्ब-परिग्रहो ऽयम् । तद् धर्मं मुक्त्वा नान्या गतिर् अस्ति । उक्तं च-
अनित्यानि शरीराणि विभवो नैव शाश्वतः ।
नित्यं संनिहितो मृत्युः कर्तव्यो धर्म-संग्रहः ॥पन्च्_३.९६॥
यस्य धर्म-विहीनानि दिनान्य् आयान्ति यान्ति च ।
स लोहकार-भस्त्रेव श्वसन्न् अपि न जीवति ॥पन्च्_३.९७॥
नाच्छादयति कौपीनं न दंश-मशकापहम् ।
शुनः-पुच्छम् इव व्यर्थं पाण्डित्यं धर्म-वर्जितम् ॥पन्च्_३.९८॥
अन्यच् च-
पुलाका इव धान्येषु पूतिका इव् पक्षिषु ।
मशका इव मर्त्येषु येषां धर्मो न कारणम् ॥पन्च्_३.९९॥
श्रेयः पुष्प-फलं वृक्षाद् दध्नः श्रेयो घृतं स्मृतम् ।
श्रेयस् तैलं च पुण्याकाच् छ्रेयान् धर्मस् तु मानुषात् ॥पन्च्_३.१००॥
सृष्टा मूत्र-पुरीषार्थम् आहाराय च केवलम् ।
धर्म-हीनाः परार्थाय पुरुषाः पशवो यथा ॥पन्च्_३.१०१॥
स्थैर्यं सर्वेषु कृत्येषु शंसन्ति नय-पण्डिताः ।
बह्व्-अन्तराय-युक्तस्य धर्मस्य त्वरिता गतिः ॥पन्च्_३.१०२॥
सङ्क्षेपात् कथ्यते धर्मो जनाः किं विस्तरेण वः ।
परोपकारः पुण्याय पापाय पर-पीडनम् ॥पन्च्_३.१०३॥
श्रूयतां धर्म-सर्वस्वं श्रुत्वा चैवावधार्यताम् ।
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥पन्च्_३.१०४॥
अथ तस्य तां धर्मोपदेशनां श्रुत्वा शशक आह-भोः भोः कपिञ्जल ! एष नदी-तीरे तपस्वी धर्म-वादी तिष्ठति । तद् एनं पृच्छावः ।
कपिञ्जल आह-ननु स्वभावतो ऽयम् अस्माकं शत्रु-भूतः । तद् दूरे स्थित्वा पृच्छावः । कदाचिद् अस्य व्रत-वैकल्यं सम्पद्येत । ततो दूरस्थो ताव् ऊचतुः-भोस् तपस्विन् ! धर्मोपदेशक ! आवयोर् विवादो वर्तते । तद् धर्म-शास्त्र-द्वारेणास्माकं निर्णयं कुरु । यो हीनवादी स ते भक्ष्य इति ।
स आह-भद्रौ ! मा मैवं वदतम् । निवृत्तो ऽहं नरक-मार्गाद् धिंसा-कर्मणः । अहिंसैव धर्म-मार्गः । उक्तं च-
अहिंसा-पूर्वको धर्मो यस्मात् सर्व-हिते रतः ।
यूका-मत्-कुण-दंशादींस् तस्मात् तान् अपि रक्षयेत् ॥पन्च्_३.१०५॥
हिंसकान्य् अपि भूतानि यो हिंसति स निर्घृणः ।
स याति नरकं घोरं किं पुनर् यः शुभानि च ॥पन्च्_३.१०६॥
एतेऽपि ये याज्ञिका यज्ञ-कर्मणि पशून् व्यापादयन्ति, ते मूर्खाः । परमार्थं श्रुतेर् न जानन्ति । तत्र किलैतद् उक्तम्-अजयैष्टव्यम् । अजा व्रीहयस् तावत् सप्त-वार्षिकाः कथ्यन्ते न पुनः पशु-विशेषः । उक्तं च-
वृक्षांश् छित्त्वा पशून् हत्वा कृत्वा रुधिर-कर्दमम् ।
यद्य् एवं गम्यते स्वर्गं नरकं केन गम्यते ॥पन्च्_३.१०७॥
तन् नाहं भक्षयामि । परं जय-पराजय-निर्णयं करिष्यामि । किन्त्व् अहं वृद्धो दूरान् न यथावच् छृणोमि । एवं ज्ञात्वा मम समीप-वर्तिनो भूत्वा ममाग्रे न्यायं वदतं, येन विज्ञाय, विवाद-परमार्थं वचो वदतो मे पर-लोक-बाधा न भवति । उक्तं च-
मानाद् वा यदि वा लोभात् क्रोधाद् वा यदि वा भयात् ।
यो न्यायम् अन्यथा ब्रूते स याति नरकं नरः ॥पन्च्_३.१०८॥
पञ्च पश्व्-अनृते हन्ति दश हन्ति गवानृते ।
शतं कन्यानृते हन्ति सहस्रं पुरुषानृते ॥पन्च्_३.१०९॥
उपविष्टः सभा-मध्ये यो न वक्ति स्फुटं वचः ।
तस्माद् दूरेण स त्याज्यो न यो वा कीर्तयेद् ऋतम् ॥पन्च्_३.११०॥
तस्माद् विश्रब्धौ मम कर्णोपान्तिके स्फुटं निवेदयतम् । किं बहुना, तेन क्षुद्रेण तथा तौ पूर्णं विश्वासितौ यथा तस्योत्सङ्ग-वर्तिनौ जातौ । ततश् च तेनापि सम-कालम् एवैकः पादान्तेनाक्रान्तो ऽन्यो दंष्ट्राक्रकचेन च ततो गत-प्राणौ भक्षिताव् इति ।