०३-०१ चतुर्दन्तनाम-महागज-कथा

व्यपदेशेन महतां सिद्दिः सञ्जायते परा ।
शशिनो व्यपदेशेन वसन्ति शशकाः सुखम् ॥३.८१॥

कस्मिंश्चिद् वने चतुर्दन्तो नाम महा-गजो यूथाधिपः प्रतिवसति स्म । तत्र कदाचिन् महत्य् अनावृष्टिः सञ्जाता प्रभूत-वर्षाणि यावत् । तया तडाग-ह्रद-पल्वल-सरांसि शोषम् उपगतानि । अथ तैः समस्त-गजैः स गजराजः प्रोक्तः-देव ! पिपासाकुला गज-कलभा मृत-प्राया अपरे मृताश् च । तद् अन्विष्यतां कश्चिज् जलाशयो यत्र जल-पानेन स्वस्थतां व्रजन्ति ।

ततश् चिरं ध्यात्वा तेनाभिहितम्-अस्ति महा-ह्रदो विविक्ते प्रदेशे स्थल-मध्य-गतः पाताल-गङ्गा-जलेन सदैव पूर्णः । तत् तत्र गम्यतां इति ।

तथानुष्ट्ःइते पञ्चरात्रम् उपसर्पद्भिः समासादितस् तैः स ह्रदः । तत्र स्वेच्छया जलम् अवगाह्यास् तम् अनवेलायां निष्क्रान्ताः । तस्य च ह्रदस्य समन्ताच् छशक-बिलानि असङ्ख्यानि सुकोमल-भूमौ तिष्ठन्ति । तान्य् अपि समस्तैर् अपि तैर् गजैर् इतस् ततो भ्रमद्भिः परिभग्नानि । बहवः शशकाः भग्न-पाद-शिरो-ग्रीवा विहिताः । केचिन् मृताः केचिज् जीव-शेषा जाताः ।

अथ गते तस्मिन् गज-यूथे शशकाः सोद्वेगा गजपाद-क्षुण्ण-समावासाः केचिद् भग्न-पादाः । अन्ये जर्जरित-कलेवरा रुधिर-प्लुताः । अन्ये हत-शिशवो बाष्प-पिहित-लोचनाः समेत्य मिथो मन्त्रं चक्रुः-अहो विनष्टा वयम् । नित्यम् एवैतद् गज-यूथम् आगमिष्यति यतो नान्यत्र जलम् अस्ति । तत् सर्वेषां नाशो भविष्यति । उक्तं च-

स्पृशन्न् अपि गजो हन्ति जिघ्रन्न् अपि भुजङ्गमः ।
हसन्न् अपि नृपो हन्ति मानयन्न् अपि दुर्जनः ॥पन्च्_३.८२॥

तच् चिन्त्यतां कश्चिद् उपायः । तत्रैकः प्रोवाच-गम्यतां देश-त्यागेन । किम् अन्यत् ? उक्तं च मनुना व्यासेन च-

त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥पन्च्_३.८३॥

क्षेम्यां शस्य-प्रदां नित्यं पशु-वृद्धि-करीम् अपि ।
परित्यजेन् नृपो भूमिम् आत्मार्थम् अविचारयन् ॥पन्च्_३.८४॥

आपद्-अर्थे धनं रक्षेद् दारान् रक्षेद् धनैर् अपि ।
आत्मानं सततं रक्षेद् दारैर् अपि धनैर् अपि ॥पन्च्_३.८५॥

ततश् चान्ये प्रोचुः-भोः ! पितृ-पैतामहं स्थानं न शक्यते सहसा त्यक्तुम् । तत् क्रियतां तेषां कृते काचिद् विभीषिका । यत् कथम् अपि दैवान् न समायान्ति । उक्तं च-

निर्विषेणापि सर्पेण कर्तव्या महती फटा ।
विषं भवतु मा वास्तु फटाटोपो भयङ्करः ॥पन्च्_३.८६॥

अथान्ये प्रोचुः-यद्य् एवं ततस् तेषां महद्-विभीषिका-स्थानम् अस्ति येन नागमिष्यन्ति । सा च चतुर-दूतायत्ता विभीषिका । यतो विजयदत्तो नामास्मत्-स्वामी शशकश् चन्द्र-मण्डले निवसति । तत् प्रेष्यतां कश्चिन् मिथ्या-दूतो यूथाधिप-सकाशं यच् चन्द्रस् त्वाम् अत्र ह्रद आगच्छन्तं निषेधयति, यतो ऽस्मत्-परिग्रहो ऽस्य समन्ताद् वसति । एवम् अभिहिते श्रद्धेय-वचनात् कदापि निवर्तते । अथान्ये प्रोचुः-यद्य् एवं तद् अस्ति लम्बकर्णो नाम शशकः । स च वचन-रचना-चतुरो दूत-कर्मज्ञः । स तत्र प्रेष्यताम् इति । उक्तं च-

साकारो निःस्पृहो वाग्मी नाना-शास्त्र-विचक्षणः ।
पर-चित्तावगन्ता च राज्ञो दूतः स इष्यते ॥पन्च्_३.८७॥

अन्यच् च-

यो मूर्खं लौल्य-सम्पन्नं राज-द्वारिकम् आचरेत् ।
मिथ्या-वादं विशेषेण तस्य कार्यं न सिध्यति ॥पन्च्_३.८८॥

तद् अन्विष्यतां यद्य् अस्माद् व्यसनाद् आत्मनां सुनिर्मुक्तिः ।

अथान्ये प्रोचुः-अहो युक्तम् एतत् । नान्यः कश्चिद् उपायो ऽस्माकं जीवितस्य । तथैव क्रियताम् ।

अथ लम्बकर्णो गज-यूथाधिप-समीपे निरूपितो गतश् च । तथानुष्ठिते लम्बकर्णो ऽपि गज-मार्गम् आसाद्यागम्यं स्थलम् आरुह्य तं गजम् उवाच-भोः भोः दुष्ट-गज ! किम् एवं लीलया निःशङ्कयात्र चन्द्र-ह्रद आगच्छसि ? तन् नागन्तव्यं निवर्त्यताम् इति ।

तद् आकर्ण्य विस्मित-मना गज आह-भोः ! कस् त्वम् ?

स आह-अहं लम्बकर्णो नाम शशकश् चन्द्र-मण्डले वसामि । साम्प्रतं भगवता चन्द्रमसा तव पार्श्वे प्रहितो दूतः । जानात्य् एव भवान् । यथार्थ-वादिनो दूतस्य न दोषः करणीयः । दूत-मुखा हि राजानः सर्व एव । उक्तं च-

उद्यतेष्व् अपि शस्त्रेषु बन्धु-वर्ग-वधेष्व् अपि ।
पुरुषाण्य् अपि जल्पन्तो वध्या दूता न भूभुजा ॥पन्च्_३.८९॥

तच् छ्रुत्वा स आह-भोः शशक ! तत् कथय भगवतश् चन्द्रमसः सन्देशम् । येन सत्वरं क्रियते ।

स आह-भवतातीत-दिवसे यूथेन सहागच्छता प्रभूताः शशका निपातिताः । तत् किं न वेत्ति भवान् । यन् मम परिग्रहो ऽयम् । तद् यदि जीवितेन ते प्रयोजनं तदा केनापि प्रयोजनेनाप्य् अत्र ह्रदे नागन्तव्यम् इति सन्देशः ।

गज आह-अथ क्व वर्तते भगवान् स्वामी चन्द्रः ।

स आह-अत्र ह्रदे साम्प्रतं शशकानां भवद्-यूथ-मथितानां हत-शेषाणां समाश्वासनाय समायातस् तिष्ठति । अहं पुनस् तवान्तिकं प्रेषितः ।

गज आह-यद्य् एवं तद् दर्शय मे तं स्वामिनं येन प्रणम्यान्यत्र गच्छामि ।

शशक आह-आगच्छ मया सहैककी येन दर्शयामि ।

तथानुष्ठिते शशको निशा-समये तं ह्रद-तीरे नीत्वा जल-मध्ये स्थितं चन्द्र-बिम्बम् अदर्शयत् । आह च-भोः एष नः स्वामी जल-मध्ये समाधिस्थस् तिष्ठति तन्-निभृतं प्रणम्य व्रजेति । नो चेत्, समाधि-भङ्ग-भयाद् भूयो ऽपि प्रभूतं कोपं करिष्यति ।

अथ गजो ऽपि त्रस्त-मनास् तं प्रणम्य पुनर् गमनाय प्रस्थितः । शशकश् च तद्-दिनाद् आरभ्य स-परिवाराः सुखेन स्वेषु स्थानेषु तिष्ठन्ति स्म ।