शिथिलौ च सुबद्धौ च पततः पततो न वा ।
निरीक्षितौ मया भद्रे दश वर्षाणि पञ्च च ॥२.१४१॥
कस्मिंश्चिद् अधिष्ठाने तीक्ष्णविषाणो नाम महा-वृषभो वसति । स च मदातिरेकात् परित्यक्त-निज-यूठः शृङ्गाभ्यां नदी-तटानि विदारयन् स्वेच्छया मरकत-सदृशानि शष्पाणि भक्षयन्न् अरण्य-चरो बभूव । अथ तत्रैव वने प्रलोभको नाम शृगालः प्रतिवसति स्म । स कदाचित् स्व-भार्यया सह नदी-तीरे सुखोपविष्टस् तिष्ठति । अत्रान्तरे स तीक्ष्णविषाणो जलार्थं तद् एव पुलिनम् अवतीर्णः । ततश् च तस्य लम्बमानौ वृषणाव् आलोक्य शृगाल्या शृगालो ऽभिहितः-स्वामिन् ! पश्यास्य वृषभस्य मांस-पिण्डौ लम्बमानौ यथा स्थितौ । ततः क्षणेन प्रहरेण वा पतिष्यतः । एवं ज्ञात्वा भवता पृष्ठ-यायिना भाव्यं ।
शृगाल आह-प्रिये ! न ज्ञायते कदाचिद् एतयोः पतनं भविष्यति वा न वा । तत् किं वृथा श्रमाय मां नियोजयसि ? अत्र-स्थस् तावज् जलार्थम् आगतान् मूषकान् भक्षयिष्यामि समं त्वया । मार्गो ऽयं यतस् तेषाम् । अथ यदा त्वां मुक्त्वास्य तीक्ष्णविषाणस्य वृषभस्य पृष्ठे गमिष्यामि तदागत्यान्यः कश्चिद् एतत् स्थानं समाश्रयिष्यति । नैतद् युज्यते कर्तुम् । उक्तं च-
यो ध्रुवाणि परित्यज्याध्रुवाणि निषेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टम् एव च ॥पन्च्_२.१४२॥
शृगाल्य् आह-भोः कापुरुषस् त्वं यत् किंचित् प्राप्तं तेनापि सन्तोषं करोषि । उक्तं च-
सुपूरा स्यात् कुनदिका सुपूरो मूषिकाञ्जलिः ।
सुसन्तुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥पन्च्_२.१४३॥
तस्मात् पुरुषेण सदैवोत्साहवता भाव्यम् । उक्तं च-
यत्रोत्साह-समारम्भो यत्रालस्य-विनिग्रहः ।
नय-विक्रम-संयोगस् तत्र श्रीर् अचला ध्रुवं ॥पन्च्_२.१४४॥
तद् दैवम् इति सञ्चिन्त्य त्यजेन् नोद्योगम् आत्मनः ।
अनुयोगं विना तैलं तिलानां नोपजायते ॥पन्च्_२.१४५॥
अन्यच् च-
यः स्तोकेनापि सन्तोषं कुरुते मन्दधीर् जनः ।
तस्य भाग्य-विहीनस्य दत्ता श्रीर् अपि मार्ज्यते ॥पन्च्_२.१४६॥
यच् च त्वं वदसि । एतौ पतिष्यतो न वेति । तद् अप्य् अयुक्तम् । उक्तं च-
कृत-निश्चयिनो वन्द्यास् तुङ्गिमा नोपभुज्यते ।
चातकः को वराको ऽयं यस्येन्द्रो वारिवाहकः ॥पन्च्_२.१४७॥
अपरं मूषक-मांसस्य निर्विण्णाहम् । एतौ च मांस-पिण्डौ पतन-प्रायौ दृश्येते । तत् सर्वथा नान्यथा कर्तव्यम् इति । अथासौ तद् आकर्ण्य मूषक-प्राप्ति-स्थानं परित्यज्य तीक्ष्णविषाणस्य पृष्ठम् अन्वगच्छत् । अथ वा साध्व् इदम् उच्यते-
तावत् स्यात् सर्व-कृत्येषु पुरुषो ऽत्र स्वयं प्रभुः ।
स्त्री-वाक्याङ्कुश-विक्षुण्णो यावन् नो ध्रियते बलात् ॥पन्च्_२.१४८॥
अकृत्यं मन्यते कृत्यं अगम्यं मन्यते सुगम् ।
अभक्ष्यं मन्यते भक्ष्यं स्त्री-वाक्य-प्रेरितो नरः ॥पन्च्_२.१४९॥
एवं स तस्य पृष्ठतः स-भार्यः परिभ्रमंश् चिर-कालम् अनयत् । न च तयोः पतनम् अभूत् । ततश् च निर्वेदात् पञ्चदशे वर्षे शृगालः स्वभार्याम् आह-शिथिलौ च सुबद्धौ च (१४१) इत्यादि ।
तयोस् तत्-पश्चाद् अपि पातो न भविष्यति । तत् तद् एव स्व-स्थानं गच्छावः ।