अर्थस्योपार्जनं कृत्वा नैवाभाग्यः समश्नुते ।
अरण्यं महदासाद्य मूढः सोमिलको यथा ॥२.१२७॥
अस्ति कस्मिंश्चिद् अधिष्ठाने सोमिलको नाम कौलिको वसति स्म । सो ऽनेक-विध-पट्ट-रचनारञ्जितानि पार्थिवोचितानि सदैव वस्त्राण्य् उत्पादयति । परं तस्य चानेक-विध-पट्ट-रचन-निपुणस्यापि न भोजनाच्छादनाभ्यधिकं कथम् अप्य् अर्थ-मात्रं सम्पद्यते । अथान्ये तत्र सामान्य-कौलिकाः स्थूल-वस्त्र-सम्पादन-विज्ञानिनो महर्धि-सम्पन्नाः । तान् अवलोक्य स स्व-भार्याम् आह-प्रिये ! पश्यैतान् स्थूल-पट्ट-कारकान् धन-कनक-समृद्धान् । तद् अधारणकं ममैतत् स्थानम् । तद् अन्यत्रोपार्जनाय गच्छामि । सा प्राह-भोः प्रियतम ! मिथ्या प्रलपितम् एतद् यद् अन्यत्र-गतानां धनं भवति, स्व-स्थाने न भवति ।
उक्तं च-
उत्पतन्ति यद् आकाशे निपतन्ति महीतले ।
पक्षिणां तद् अपि प्राप्त्या नादत्तम् उपतिष्ठति ॥पन्च्_२.१२८॥
तथा च- न हि भवति यन् न भाव्यं भवति च भाव्यं विनापि यत्नेन । कर-तल-गतम् अपि नश्यति यस्य तु भवितव्यता नास्ति ॥पन्च्_२.१२९॥
यथा धेनु-सहस्रेषु वत्सो विन्दति मातरं ।
तथा पूर्व-कृतं कर्म कर्तारम् अनुगच्छति ॥पन्च्_२.१३०॥
शेते सह शयानेन गच्छन्तम् अनुगच्छति ।
नराणां प्राक्तनं कर्म तिष्ठति तु सहात्मना ॥पन्च्_२.१३१॥
यथा छायातपौ नित्यं सुसम्बद्धौ परस्परं ।
एवं कर्म च कर्ता च संश्लिष्टाव् इतरेतरम् ॥पन्च्_२.१३२॥
- तस्मादत्र एव व्यवसायपरो भव । +++(सम्पादकटिप्पनी- पुस्तकेऽत्राधिकः पाठः ।)+++ कौलिक आह-प्रिये ! न सम्यग् अभिहितं भवत्या । व्यवसायं विना न कर्म फलति । उक्तं च-
यथैकेन न हस्तेन तालिका संप्रपद्यते ।
तथोद्यम-परित्यक्तं न फलं कर्मणः स्मृतम् ॥पन्च्_२.१३३॥
पश्य कर्म-वशात् प्राप्तं भोज्यकालेऽपि भोजनम् ।
हस्तोद्यमं विना वक्त्रे प्रविशेन् न कथञ्चन ॥पन्च्_२.१३४॥
तथा च-
उद्योगिनं पुरुष-सिंहम् उपैति लक्ष्मीर्
दैवेन देयम् इति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषम् आत्म-शक्त्या
यत्ने कृते यदि न सिध्यति को ऽत्र दोषः ॥पन्च्_२.१३५॥
तथा च-
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य विशन्ति वदने मृगाः ॥पन्च्_२.१३६॥
उद्यमेन विना राजन् न सिध्यन्ति मनोरथाः ।
कातरा इति जल्पन्ति यद् भाव्यं तद् भविष्यति ॥पन्च्_२.१३७॥
स्व-शक्त्या कुर्वतः कर्म न चेत् सिद्धिं प्रयच्छति ।
नोपालभ्यः पुमांस् तत्र दैवान्तरित-पौरुषः ॥पन्च्_२.१३८॥
तन् मयावश्यं देशान्तरं गन्तव्यम् ।
इति निश्चित्य वर्धमान-पुरं गत्वा तत्र वर्ष-त्रयं स्थित्वा सुवर्ण-शत-त्रयोपार्जनं कृत्वा भूयः स्व-गृहं प्रस्थितः । अथार्ध-पथे गच्छतस् तस्य कदाचिद् अटव्यां पर्यटतो भगवान् रविर् अस्तम् उपागतः । तत्र च व्याल-भयात् स्थूलतर-वट-स्कन्ध आरूह्य प्रसुप्तो यावत् तिष्ठति तावन् निशीथे द्वौ पुरुषौ रौद्राकारौ परस्परं जल्पन्ताव् अशृणोत् ।
तत्रैक आह-भोः कर्तः त्वं किं सम्यङ् न वेत्सि यद् अस्य सोमिलकस्य भोजनाच्छादनाद् ऋतेऽधिका समृद्धिर् नास्ति । तत् किं त्वयास्य सुवर्ण-शत-त्रयं दत्तम् ।
स आह-भोः कर्मन् मयावश्यं दातव्यं व्यवसायिनां तत्र च तस्य परिणतिस् त्वद् आयत्तेति । अथ यावद् असौ कौलिकः प्रबुद्धः सुवर्ण-ग्रन्थिम् अवलोकयति तावद् रिक्तं पश्यति ।
ततः साक्षेपं चिन्तयामास । अहो किम् एतत् ? महता कष्टेनोपार्जितं वित्तं हेलया क्वापि गतम् । यद् व्यर्थ-श्रमो ऽकिञ्चनः कथं स्व-पत्न्या मित्राणां च मुखं दर्शयिष्यामि । इति निश्चित्य तद् एव पत्तनं गतः । तत्र च वर्ष-मात्रेणापि सुवर्ण-शत-पञ्चकम् उपार्ज्य भूयो ऽपि स्व-स्थानं प्रति प्रस्थितः । यावद् अर्ध-पथे भूयो ऽटवी-गतस्य भगवान् भानुर् अस्तंजगामाथ सुवर्ण-नाश-भयात् सुश्रान्तो ऽपि न विश्राम्यति केवलं कृत-गृहोत्कण्ठः सत्वरं व्रजति ।
अत्रान्तरे द्वौ पुरुषौ तादृषौ दृष्टि-देशे समागच्छन्तौ जल्पन्तौ च शृणोति । तत्रैकः प्राह-भोः कर्तः ! किं त्वयैतस्य सुवर्ण-शत-पञ्चकं दत्तम् ? तत् किं न वेत्सि यद् भोजनाच्छादनाभ्यधिकम् अस्य किंचिन् नास्ति ।
स आह-भोः कर्मन् ! मयावश्यं देयं व्यवसायिनाम् । तस्य परिणामस् त्वद्-आयत्तः । तत् किं माम् उपालम्भयसि ?
तच् छ्रुत्वा सोमिलको यावद् ग्रन्थिम् अवलोकयति तावत् सुवर्णं नास्ति । ततः परं दुःखम् आपन्नो व्यचिन्तयत्-अहो किं मम धन-रहितस्य जीवितेन ? तद् अत्र वट-वृक्ष आत्मानम् उद्बध्य प्राणांस् त्यजामि ।
एवं निश्चित्य दर्भ-मयीं रज्जुं विधाय स्व-कण्ठे पाशं नियोज्य शाखायाम् आत्मानं निबध्य यावत् प्रक्षिपति तावद् एकः पुमान् आकाश-स्थ एवेदम् आह-भो भोः सोमिलक ! मैवं साहसं कुरु । अहं ते वित्तापहारको न ते भोजनाच्छादनाभ्यधिकं वराटिकाम् अपि सहामि । तद् गच्छ स्व-गृहं प्रति । अन्यच् च भवदीय-साहसेनाहं तुष्टः । तथा मे न स्याद् व्यर्थं दर्शनम् । तत् प्रार्थ्यताम् अभीष्टो वरः कश्चित् ।
सोमिलक आह-यद्य् एवं तद् देहि मे प्रभूतं धनम् ।
स आह-भोः ! किं करिष्यसि भोग-रहितेन धनेन यतस् तव भोजनाच्छादनाभ्यधिका प्राप्तिर् अपि नास्ति ?
उक्तं च-
किं तया क्रियते लक्ष्म्या या वधूर् इव केवला ।
या न वेश्येव सामान्या पथिकैर् उपभुज्यते ॥पन्च्_२.१३९॥
सोमिलक आह-यद्य् अपि भोगो नास्ति तथापि भवतु मे धनम् । उक्तं च-
कृपणो ऽप्य् अकुलीनो ऽपि सदा संश्रित-मानुषैः ।
सेव्यते स नरो लोके यस्य स्याद् वित्त-सञ्चयः ॥पन्च्_२.१४०॥
तथा च-
शिथिलौ च सुबद्धौ च पततः पततो न वा । निरीक्षितौ मया भद्रे दश वर्षाणि पञ्च च ॥पन्च्_२.१४१॥
पुरुष आह-किम् एतत् ?
सो ऽब्रवीत्-
अतोऽहं ब्रवीमि– “शिथिलौ च सुबद्धौ च” (१४१) इति ।
पुरुष आह-यद्य् एवं तद् गच्छ भूयो ऽपि वर्धमान-पुरम् । तत्र द्वौ वणिक्-पुत्रौ वसतः । एको गुप्त-धनः । द्वितीय उपभुक्त-धनः । ततस् तयोः स्वरूपं बुद्ध्वैकस्य वरः प्रार्थनीयः । यदि ते धनेन प्रयोजनम् अभक्षितेन ततस् त्वाम् अपि गुप्त-धनं करोमि । अथवा दत्त-भोग्येन धनेन ते प्रयोजनं तद् उपभुक्त-धनं करोमीति । एवम् उक्त्वादर्शनं गतः ।
सोमिलको ऽपि विस्मित-मना भूयो ऽपि वर्धमान-पुरं गतः । अथ सन्ध्या-समये श्रान्तः कथम् अपि तत्-पुरं प्राप्तो गुप्तधन-गृहं पृच्छन् कृच्छ्राल् लब्ध्वास्तमित-सूर्ये प्रविष्टः । अथासौ भार्या-पुत्र-समेतेन गुप्तधनेन निर्भर्त्स्यमानो हठाद् गृहं प्रविश्योपविष्टः । ततश् च भोजन-वेलायां तस्यापि भक्ति-वर्जितं किंचिद् अशनं दत्तम् । ततश् च भुक्त्वा तत्रैव यावत् सुप्तो निशीथे पश्यति तावत् ताव् अपि द्वौ पुरुषौ परस्परं मन्त्रयतः । तत्रैक आह-भोः कर्तः ! किं त्वयास्य गुप्तधनस्यान्यो ऽधिको व्ययो निर्मितो यत् सोमिलकस्यानेन भोजनं दत्तम् । तद् अयुक्तं त्वया कृतम् ।
स आह-भोः कर्मन् ! न ममात्र दोषः । मया पुरुषस्य लाभ-प्राप्तिर् दातव्या । तत्-परिणतिः पुनस् त्वद्-आयत्तेति । अथासौ यावद् उत्तिष्ठति तावद् गुप्तधनो विसूचिकया खिद्यमानो रुजाभिभूतः क्षणं तिष्ठति । ततो द्वितीयेऽह्नि तद्-दोषेण कृतोपवासः सञ्जातः ।
सोमिलको ऽपि प्रभाते तद्-गृहान् निष्क्रम्य उपभुक्तधन-गृहं गतः । तेनापि चाभ्युत्थादिना सत्-कृतो विहित-भोजनाच्छादन-संमानस् तस्यैव गृहे भव्य-शय्याम् आरुह्य सुष्वाप । ततश् च निशीथे यावत् पश्यति तावत् ताव् एव द्वौ पुरुषौ मिथो मन्त्रयतः । अत्र तयोर् एक आह-भोः कर्तः ! अनेन सोमिलकस्योपकारं कुर्वता प्रभूतो व्ययः कृतः । तत् कथय कथम् अस्योद्धारक-विधिर् भविष्यति । अनेन सर्वम् एतद् व्यवहारक-गृहात् समानीतम् ।
स आह-भोः कर्मन् ! मम कृत्यम् एतत् । परिणतिस् त्वद्-आयत्तेति । अथ प्रभात-समये राज-पुरुषो राज-प्रसादजं वित्तम् आदाय समायात उपभुक्त-धनाय समर्पयाम् आस ।
तद् दृष्ट्वा सोमिलकश् चिन्तयामास । सञ्चय-रहितो ऽपि वरम् एष उपभुक्तधनो नासौ कदर्यो गुप्तधनः । उक्तं च-
अग्निहोत्र-फला वेदाः शील-वृत्त-फलं श्रुतम् ।
रति-पुत्र-फला दारा दत्त-भुक्त-फलं धनम् ॥पन्च्_२.१५०॥
तद् विधाता मां दत्त-भुक्त-धनं करोतु । न कार्यं मे गुप्तधनेन । ततः सोमिलको दत्तभुक्तधनः संजातः ।