०२-०४ सागरदत्त-कथा

प्राप्तव्यम् अर्थं लभते मनुष्यो
देवो ऽपि तं लङ्घयितुं न शक्तः ।
तस्मान् न शोचामि न विस्मयो मे
यद् अस्मदीयं न हि तत् परेषाम् ॥पन्च्_२.१११॥

अस्ति कस्मिंश्चिन् नगरे सागरदत्तो नाम वणिक् । तत्-सूनुना रूपक-शतेन विक्रीयमाणं पुस्तकं गृहीतम् । तस्मिंश् च लिखितम् अस्ति-

प्राप्तव्यम् अर्थं लभते मनुष्यो देवो ऽपि तं लङ्घयितुं न शक्तः । तस्मान् न शोचामि न विस्मयो मे यद् अस्मदीयं न हि तत् परेषाम् ॥पन्च्_२.१११॥

तद् दृष्ट्वा सागरदत्तेन तनुजः पृष्टः-पुत्र, कियता मूल्येनैतत् पुस्तकं गृहीतम् ?

सो ऽब्रवीत्-रूपक-शतेन ।

तच् छ्रुत्वा सागरदत्तो ऽब्रवीत्-धिङ् मूर्ख ! त्वं लिखितैक-श्लोकं रूपक-शतेन यद् गृह्णासि, एतया बुद्ध्या कथं द्रव्योपार्जनं करिष्यसि । तद् अद्य-प्रभृति त्वया मे गृहे न प्रवेष्टव्यम् । एवं निर्भर्त्स्य गृहान् निःसारितः । स च तेन निर्वेदेन विप्रकृष्टं देशान्तरं गत्वा किम् अपि नगरम् आसाद्यावस्थितः । अथ कतिपय-दिवसैस् तन्-नगर-निवासिना केनचिद् असौ पृष्टः-कुतो भवान् आगतः ? किं नाम-धेयो वा ? इति ।

असाव् अब्रवीत्-प्राप्तव्यम् अर्थं लभते मनुष्य इति । अथान्येनापि पृष्टेनानेन तथैवोत्तरं दत्तम् । एवं च तस्य नगरस्य मध्ये प्राप्तव्यमर्थ इति तस्य प्रसिद्ध-नाम जातम् ।

अथ राज-कन्या चन्द्रवती नामाभिनव-रूप-यौवन-सम्पन्ना सखी-द्वितीयैकस्मिन् महोत्सव-दिवसे नगरं निरीक्षमाणास्ति । तत्रैव च कश्चिद् राज-पुत्रो ऽतीव-रूप-सम्पन्नो मनोरमश् च कथम् अपि तस्या दृष्टि-गोचरे गतः । तद्-दर्शन-सम-कालम् एव कुसुम-बाणाहतया तया निज-सख्य्-अभिहिता-सखि ! यथा किलानेन सह समागमो भवति तथाद्य त्वया यतितव्यम् ।

एवं च श्रुत्वा सा सखी तत्-सकाशं गत्वा शीघ्रम् अब्रवीत्-यद् अहं चन्द्रवत्या तवान्तिकं प्रेषिता । भणितं च त्वां प्रति तया यन् मम त्वद्-दर्शनान् मनोभवेन पश्चिमावस्था कृता । तद् यदि शीघ्रम् एव मद्-अन्तिके न समेष्मसि तदा मे मरणं शरणम् ।

इति श्रुत्वा तेनाभिहितं-यद्य् अवश्यं मया तत्रागन्तव्यं, तत् कथय केनोपायेन प्रवेष्टव्यम् ?

अथ सख्याभिहितम्-रात्रौ सौधावलम्बितया दृढ-वरत्रया त्वया तत्रारोढव्यम् ।

सो ऽब्रवीत्-यद्य् एवं निश्चयो भवत्यास् तद् अहम् एवं करिष्यामि ।

इति निश्चित्य सखी चन्द्रवती-सकाशं गता । अथागतायां रजन्यां स राज-पुत्रः स्व-चेतसा व्यचिन्तयत्-अहो महद् अकृत्यम् एतत् । उक्तं च-

गुरोः सुतां मित्र-भार्यां स्वामि-सेवक-गेहिनीम् । यो गच्छति पुमांल् लोके तम् आहुर् ब्रह्म-घातिनम् ॥पन्च्_२.११२॥

अपरं च-

अयशः प्राप्यते येन येन चाधो-गतिर् भवेत् । स्वार्थाच् च भ्रश्यते येन तत् कर्म न समाचरेत् ॥पन्च्_२.११३॥

इति सम्यग् विचार्य तत्-सकाशं न जगाम । अथ प्राप्तव्यमर्थः पर्यटन् धवल-गृह-पार्श्वे रात्राव् अवलम्बित-वरत्रां दृष्ट्वा कौतुकाविष्ट-हृदयस् ताम् आलम्ब्याधिरूढः । तया च राज-पुत्र्या स एवायम् इत्य् आश्वस्त-चित्तया स्नान-खादन-पानाच्छादनादिना सम्मान्य तेन सह शयन-तलम् आश्रितया तद्-अङ्ग-संस्पर्श-सञ्जात-हर्ष-रोमाञ्चित-गात्रयोक्तं-युष्मद्-दर्शन-मात्रानुरक्तया मयात्मा प्रदत्तो ऽयम् । त्वद्-वर्जम् अन्यो भर्ता मनस्य् अपि मे न भविष्यति इति । तत् कस्मान् अम्या सह न ब्रवीषि ?

सो ऽब्रवीत्- प्राप्तव्यम् अर्थं लभते मनुष्यः ।

इत्य् उक्ते तयान्यो ऽयम् इति मत्वा धवल-गृहाद् उत्तार्य मुक्तः । स तु खण्ड-पाशकः प्राप्तः । तावद् असौ खण्ड-देव-कुले गत्वा सुप्तः । अथ तत्र कयाचित् स्वैरिण्या दत्त-सङ्केतको यावद् दण्ड-पाशकः प्राप्तः, तावद् असौ पूर्व-सुप्तस् तेन दृष्टो रहस्य-संरक्षणार्थम् अभिहितश् च-को भवान् ?

सो ऽब्रवीत्-प्राप्तव्यम् अर्थं लभते मनुष्यः ।

इति श्रुत्वा दण्ड-पाशकेनाभिहितम्-यच् छून्यं देव-गृहम् इदम् । तद् अत्र मदीय-स्थाने गत्वा स्वपिहि ।

तथा प्रतिपद्य स मतिर् विपर्यासाद् अन्य-शयने सुप्तः । अथ तस्य रक्षकस्य कन्या विनयवती नाम रूप-यौवन-सम्पन्ना कस्यापि पुरुषस्यानुरक्ता सङ्केतं दत्त्वा तत्र शयने सुप्तासीत् । अथ सा तम् आयातं दृष्ट्वा स एवायम् अस्मद्-वल्लभ इति रात्रौ घनतरान्धकार-व्यामोहितोत्थाय भोजनाच्छादनादि-क्रियां कारयित्वा गान्धर्व-विवाहेनात्मानं विवाहयित्वा तेन समं शयने स्थिता विकसित-वदन-कमला तम् आह-किम् अद्यापि मया सह विश्रब्धं भवान् न ब्रवीति ।

सो ऽब्रवीत्-प्राप्तव्यम् अर्थं लभते मनुष्यः ।

इति श्रुत्वा तया चिन्तितम्-यत् कार्यम् असमीक्षितं क्रियते तस्येदृक्-फल-विपाको भवति इति । एवं विमृश्य स-विषादया तया निःसारितो ऽसौ । स च यावद्-वीथी-मार्गेण गच्छति तावद् अन्य-विषय-वासी वर-कीर्तिर् नाम वरो महता वाद्य-शब्देनागच्छति । प्राप्तव्यमर्थो ऽपि तैः समं गन्तुम् आरब्धः । अथ यावत् प्रत्यासन्ने लग्न-समये राज-मार्गासन्न-श्रेष्ठि-गृह-द्वारे रचित-मण्डप-वेदिकायां कृत-कौतुक-मङ्गल-वेशा वणिक्-सुतास्ति, तावन् मद-मत्तो हस्त्य्-आरोहकं हत्वा प्रणश्यज्-जन-कोलाहलेन लोकम् आकुलयंस् तम् एवोद्देशं प्राप्तः । तं च दृष्ट्वा सर्वे वरानुयायिनो वरेण सह प्रणश्य दिशो जग्मुः ।

अथास्मिन्न् अवसरे भय-तरल-लोचनाम् एकाकिनीं कन्याम् अवलोक्य-मा भैषीः । अहं परित्रातेति सुधीरं स्थिरीकृत्य दक्षिण-पाणौ सङ्गृह्य महा-साहसिकतया प्राप्तव्यमर्थः पुरुष-वाक्यैर् हस्तिनं निर्भर्त्सितवान् । ततः कथम् अपि दैव-योगाद् अपाये हस्तिनि स-सुहृद्-बान्धवेनातिक्रान्त-लग्न-समये वर-कीर्तिर् नागत्य तावत् तां कन्याम् अन्य-हस्त-गतां दृष्ट्वाभिहितम्-भोः श्वशुर, विरुद्धम् इदं त्वयानुष्ठितं यन् मह्यं प्रदाय कन्यान्यस्मै प्रदत्ता इति ।

सो ऽब्रवीत्-भोः ! अहम् अपि हस्ति-भय-पलायितोभवद्भिः सहायातो न जाने किम् इदं वृतम् इत्य् अभिधाय दुहितरं प्रष्टुम् आरब्धः-वत्से, न त्वया सुन्दरं कृतम् । तत् कथ्यतां को ऽयं वृत्तान्तः ।

सो ऽब्रवीत्-यद् अहम् अनेन प्राण-संशयाद् रक्षिता, तद् एनं मुक्त्वा मम जीवन्त्या नान्यः पाणिं ग्रहीष्यति इति ।

अनेन वार्ता-व्यतिकरेण रजनी व्युष्टा । अथ प्रातस् तत्र सञ्जाते महा-जन-समवाये वार्ता-व्यतिकरं श्रुत्वा राज-दुहिता तम् उद्देशम् आगता । कर्ण-परम्परया श्रुत्वा दण्डपाशक-सुतापि तत्रैवागता । अथ तं महाजन-अमवायं श्रुत्वा राजापि तत्र एवाजगाम । प्राप्तव्यमर्थं प्राह-भोः विश्रब्धं कथय । कीदृशो ऽसौ वृत्तान्तः ?

अथ सो ऽब्रवीत्-प्राप्तव्यमर्थं लभते मनुष्यः इति । राज-कन्या स्मृत्वा प्राह-देवो ऽपि तं लङ्घयितुं न शक्त इति ।

ततो दण्डपाशक-सुताब्रवीत्-तस्मान् न शोचामि न विस्मयो मे इति ।

तम् अखिललोक-वृत्तान्तम् आकर्ण्य वणिक्-सुताब्रवीत्-यद् अस्मदीयं न हि तत् परेषाम् इति ।

ततो ऽभय-दानं दत्त्वा राजा पृथक् पृथग् वृत्तान्तान् ज्ञात्वावगत-तत्त्वस् तस्मै प्राप्तव्यम् अर्थाय स्व-दुहितरं स-बहु-मानं ग्राम-सहस्रेण समं सर्वालङ्कार-परिवार-युतां दत्त्वा त्वं मे पुत्रो ऽसीति नगर-विदितं तं यौवराज्येऽभिषिक्तवान् । दण्ड-पासकेनापि स्व-दुहिता स्व-शक्त्या वस्त्र-दानादिना सम्भाव्य प्राप्तव्यमर्थाय प्रदत्ता ।

अथ प्राप्तव्यमर्थेनापि स्वीय-पितृ-मातरौ समस्त-कुटुम्बावृतौ तस्मिन् नगरे सम्मान-पुरःसरं समानीतौ । अथ सो ऽपि स्व-गोत्रेण सह विविध-भोगानुपभुञ्जानः सुखेनावस्थितः ।