अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् ।
अतितृष्णाभिभूतस्य शिखा भवति मस्तके ॥२.८०॥
अस्ति कस्मिंश्चिद् वनोद्देशे कश्चित् पुलिन्दः । स च पापर्द्धिं कर्तुं वनं प्रति प्रस्थितः । अथ तेन प्रसर्पता महान् अञ्जन-पर्वत-शिखराकारः क्रोडः समासादितः । तं दृष्ट्वा कर्णान्ताकृष्ट-निशित-सायकेन समाहतः । तेनापि कोपाविष्टेन चेतसा बालेन्दु-द्युतिना दंष्ट्राग्रेण पाटितोदरः पुलिन्दो गतासुर् भूतलेऽपतत् ।
अथ लुब्धकं व्यापाद्य शूकरो ऽपि शर-प्रहार-वेदनया पञ्चत्वं गतः । एतस्मिन्न् अन्तरे कश्चिद् आसन्न-मृत्युः शृगाल इतस् ततो निराहारतया पीडितः परिभ्रमंस् तं प्रदेशम् आजगाम । यावद् वराह-पुलिन्दौ द्वाव् अपि पश्यति तावत् प्रहृष्टो व्यचिन्तयत्-भोः ! सानुकूलो मे विधिः । तेनैतद् अप्य् अचिन्तितं भोजनम् उपस्थितम् । अथवा साध्व् इदम् उक्तम्-
अकृतेऽप्य् उद्यमे पुंसाम् अन्य-जन्म-कृतं फलम् ।
शुभाशुभं समभ्येति विधिना संनियोजितम् ॥पन्च्_२.८१॥
तथा च-
यस्मिन् देशे च काले च वयसा यादृशेन च ।
कृतं शुभाशुभं कर्म तत् तथा तेन भुज्यते ॥पन्च्_२.८२॥
तद् अहं तथा भक्षयामि यथा बहून्य् अहानि मे प्राण-यात्रा भवति । तत् तावद् एनं स्नायु-पाशं धनुष्कोटि-गतं भक्षयामि । उक्तं च-
शनैः शनैश् च भोक्तव्यं स्वयं वित्तम् उपार्जितम् ।
रसायनम् इव प्राज्ञैर् हेलया न कदाचन ॥पन्च्_२.८३॥
इत्य् एवं मनसा निश्चित्य चाप-घटित-कोटिं मुख-मध्ये प्रक्षिप्य स्नायुं भक्षितुं प्रवृत्तः । ततश् च त्रुटिते पाशे तालु-देशं विदार्य चाप-कोटिर्मस्तक-मध्येन निष्क्रान्ता । सो ऽपि तद्वद् एनया तत्-क्षणान्तन् मृतः ।