०२-०२ तिलचूर्णविक्रेतृ-कथा

नाकस्माच् छाण्डिली मातर् विक्रीणाति तिलैस् तिलान् ।
लुञ्चितान् इतरैर् येन हेतुर् अत्र भविष्यति ॥पन्च्_२.७१॥

यदाहं कस्मिंश्चित् स्थाने प्रावृट्-काले व्रत-ग्रहण-निमित्तं कञ्चिद् ब्राह्मणं वासार्थं प्रार्थितवान् । ततश् च तद्-वचनात् तेनापि शुश्रूषितः सुखेन देवार्चन-परस् तिष्ठामि । अथान्यस्मिन्न् अहनि प्रत्यूषे प्रबुद्धो ऽहं ब्राह्मण-ब्राह्मणी-संवादे दत्तावधानः शृणोमि । तत्र ब्राह्मण आह-ब्राह्मणि, प्रभाते दक्षिणायन-सङ्क्रान्तिर् अनन्त-दान-फलदा भविष्यति । तद् अहं प्रतिग्रहार्थं ग्रामान्तरं यास्यामि । त्वया ब्राह्मणस्यैकस्य भगवतः सूर्यस्योद्देशेन किञ्चिद् भोजनं दातव्यम् इति ।

अथ तच् छ्रुत्वा ब्राह्मणी परुषतर-वचनैस् तं भर्त्सयमाना प्राह-कुतस् ते दारिद्र्योपहतस्य भोजन-प्राप्तिः । तत् किं लज्जस एवं ब्रुवाणः । अपि च न मया तव हस्त-लग्नया क्वचिद् अपि लब्धं सुखम् । न मिष्ठान्नस्यास्वादनम् । न च हस्त-पाद-कण्ठादि-भूषणम् ।

तच् छ्रुत्वा भय-त्रस्तो ऽपि विप्रो मन्दं मन्दं प्राह-ब्राह्मणि ! नैतद् युज्यते वक्तुम् । उक्तं च-

ग्रासाद् अपि तद् अर्धं च कस्मान् नो दीयतेऽर्थिषु ।
इच्छानुरूपो विभवः कदा कस्य भविष्यति ॥पन्च्_२.७२॥

ईश्वरा भूरि-दानेन यल् लभन्ते फलं किल ।
दरिद्रस् तच् च काकिण्या प्राप्नुयाद् इति न श्रुतिः ॥पन्च्_२.७३॥
दाता लघुर् अपि सेव्यो भवति न कृपणो महान् अपि समृद्ध्या ।
कूपो ऽन्तः-स्वादु-जलः प्रीत्यै लोकस्य न समुद्रः ॥पन्च्_२.७४॥

तथा च-
अकृत-त्याग-महिम्नां मिथ्या किं राज-राज-शब्देन ।
गोप्तारं न निधीनां महयन्ति महेश्वरं विबुधाः ॥पन्च्_२.७५॥

अपि च-

सदा दान-परिक्षीणः शस्त एव करीश्वरः ।
अदानः पीन-गात्रो ऽपि निन्द्य एव हि गर्दभः ॥पन्च्_२.७६॥

सुशीलो ऽपि सुवृत्तो ऽपि यात्य् अदानाद् अधो घटः ।
पुनः कुब्जापि काणापि दानाद् उपरि कर्कटी ॥पन्च्_२.७७॥

यच्छन् जलम् अपि जलदो वल्लभताम् एति सकल-लोकस्य ।
नित्यं प्रसारित-करो मित्रो ऽपि न वीक्षितुं शक्यः ॥पन्च्_२.७८॥

एवं ज्ञात्वा दरिद्र्याभिभूतैर् अपि स्वल्पात् स्वल्पतरं काले पात्रे च देयम् । उक्तं च- सत्-पात्रं महती श्रद्धा देशे काले यथोचिते । यद् दीयते विवेक-ज्ञैस् तद् अनन्ताय कल्पते ॥पन्च्_२.७९॥

तथा च-
अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् ।
अतितृष्णाभिभूतस्य शिखा भवति मस्तके ॥पन्च्_२.८०॥

ब्राह्मण्य् आह-कथम् एतत् ?

स आह-

अतोऽहं ब्रवीमि “अतितृष्णा न कर्तव्या” इति ।

स पुनर् अप्य् आह-ब्राह्मणि, न श्रुतं भवत्या ।

आयुः कर्म च वित्तं च विद्या निधनम् एव च ।
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥पन्च्_२.८४॥

अथैवं सा तेन प्रबोधिता ब्राह्मण्य् आह-यद्य् एवं तद् अस्ति मे गृहे स्तोकस् तिल-राशिः । ततस् तिलान् लुञ्चित्वा तिल-चूर्णेन ब्राह्मणं भोजयिष्यामि इति ।

ततस् तद्-वचनं श्रुत्वा ब्राह्मणो ग्रामं गतः । सापि तिलानुष्णोदकेन सम्मर्द्य कुटित्वा सूर्यातपे दत्तवती । अत्रान्तरे तस्या ग्र्ह-कर्म-व्यग्रायास् तिलानां मध्ये कश्चित् सारमेयो मूत्रोत्सर्गं चकार । तं दृष्ट्वा सा चिन्तितवती-अहो नैपुण्यं पश्य पराङ्मुखीभूतस्य विधेः । यद् एते तिला अभोज्याः कृताः । तद् अहम् एतान् समादाय कस्यचित् गृहं गत्वा लुञ्चितैर् अलुञ्चितान् आनयामि । सर्वो ऽपि जनो ऽनेन विधिना प्रदास्यति इति ।

अथ यस्मिन् गृहेऽहं भिक्षार्थं प्रविष्टस् तत्र गृहे सापि तिलान् आदाय प्रविष्टा विक्रयं कर्तुम् । आह च-गृह्णातु कश्चिद् अलुञ्चितैर् लुञ्चितांस् तिलान् ।

अथ तद्-गृह-गृहिणी-गृहं प्रविष्टा यावद् अलुञ्चितैर् लुञ्चितान् गृह्णाति तावद् अस्याः पुत्रेण कामन्दकी-शास्त्रं दृष्ट्वा व्याहृतम्-मातः ! अग्राह्याः खल्व् इमे तिलाः । नास्या अलुञ्चितैर् लुञ्चिता ग्राह्याः । कारणं किञ्चिद् भविष्यति । तेनैषालुञ्चितैर् लुञ्चितान् प्रयच्छति ।

तच् छ्रुत्वा अया परित्यक्तास् ते तिलाः ।