पर्जन्यस्य यथा धारा यथा च दिवि तारकाः ।
सिकता-रेणवो यद्वत् सङ्ख्यया परिवर्जिता ॥पन्च्_२.६४॥
गुणाः सङ्ख्या-परित्यक्तास् तद्वद् अस्य महात्मनः ।
परं निर्वेदम् आपन्नः सम्प्राप्तो ऽयं तवान्तिकम् ॥पन्च्_२.६५॥
अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरे मठायतनं भगवतः श्री-महादेवस्य । तत्र च ताम्रचूडो नाम परिव्राजकः प्रतिवसति स्म । स च नगरे भिक्षाटनं कृत्वा प्राण-यात्रां समाचरति । भिक्षा-शेषं च तत्रैव भिक्षा-पात्रे निधाय तद्-भिक्षा-पात्रं नागदन्तेऽवलम्ब्य पश्चाद् रात्रौ स्वपिति । प्रत्यूषे च तद्-अन्नं कर्मकराणां दत्त्वा सम्यक् तत्रैव देवतायतने संमार्जनोपलेपन-मण्डनादिकं समाज्ञापयति । अन्यस्मिन्न् अहनि मम बान्धवैर् निवेदितम्-स्वामिन्, मठायतने सिद्धम् अन्नं मूषक-भयात् तत्रैव भिक्षा-पात्रे निहितं नागदन्तेऽवलम्बितं तिष्ठति सदैव । तद् वयं भक्षयितुं न शक्नुमः । स्वामिनः पुनर् आगम्य किम् अपि नास्ति । तत् किं वृथाटनेनान्यत्र । अद्य तत्र गत्वा यथेच्छं भुञ्जामहे तव प्रसादात् ।
तद् आकर्ण्याहं सकल-यूथ-परिवृतस् तत्-क्षणाद् एव तत्र गतः । उत्पत्य च तस्मिन् भिक्षा-पात्रे समारूढः । तत्र भक्ष्य-विशेषाणि सेवकेभ्यो दत्त्वा पश्चात् स्वयम् एव भक्षयामि । सर्वेषां तृप्तौ जातायां भूयः स्व-गृहं गच्छामि । एवं नित्यम् एव तद् अन्नं भक्षयामि । परिव्राजको ऽपि यथा-शक्ति रक्षति । परं यदैव निद्रान्तरितो भवति, तदाहं तत्रारुह्यात्म-कृत्यं करोमि । अथ कदाचित् तेन मम रक्षणार्थं महान् यत्नः कृतः । जर्जर-वंशः समानीतः । तेन सुप्तो ऽपि मम भयाद् भिक्षा-पात्रं ताडयति । अहम् अप्य् अभिक्षितेऽप्य् अन्ने प्रहार-भयाद् अपसर्पामि । एवं तेन सह सकलां रात्रिं विग्रह-परस्य कालो व्रजति ।
अथान्यस्मिन्न् अहनि तस्य मठे बृहत्स्फिङ्-नामा परिव्राजकस् तस्य सुहृत् तीर्थ-यात्रा-प्रसङ्गेन पान्थः प्राघुणिकः समायातः । तं दृष्ट्वा प्रत्युत्थान-विधिना सम्भाव्य प्रतिपत्ति-पूर्वकम् अभ्यागत-क्रियया नियोजितः । ततश् च रात्राव् एकत्र कुश-संस्तरे द्वाव् अपि प्रसुप्तौ धर्म-कथां कथयितुम् आरब्धौ ।
अथ बृहस्फिक्-कथा-गोष्ठीषु स ताम्रचूडो मूषक-त्रासार्थं व्याक्षिप्त-मना जर्जर-वंशेन भिक्षा-पात्रं ताडयंस् तस्य शून्यं प्रतिवचनं प्रयच्छति । तन्-मयो न किञ्चिद् उदाहरति । अथासाव् अभ्यागतः परं कोपम् उपागतस् तम् उवाच-भोस् ताम्रचूड ! परिज्ञातः न त्वं सम्यक् सुहृत् । तेन मया सह साह्लादं न जल्पसि । तद्-रात्राव् अपि त्वदीयं मठं त्यक्त्वान्यत्र मञ्हे यास्यामि । उक्तं च-
एह्य् आगच्छ समाविशासनम् इदं कस्माच् चिराद् दृश्यसे का वार्तेति सुदुर्बलो ऽसि कुशलं प्रीतो ऽस्मि ते दर्शनात् ।
एवं ये समुपागतान् प्रणयिनः प्रत्यालपन्त्य् आदरात् तेषां युक्तम् अशङ्कितेन मनसा हर्म्याणि गन्तुं सदा ॥पन्च्_२.६६॥
गृही यत्रागतं दृष्ट्वा दिशो वीक्षेत वाप्य् अधः ।
तत्र ये सदने यान्ति ते शृङ्ग-रहिता वृषाः ॥पन्च्_२.६७॥
साभ्युत्थान-क्रिया यत्र नालापा मधुराक्षराः ।
गुण-दोष-कथा नैव तत्र हर्म्यं न गम्यते ॥पन्च्_२.६८॥
तद् एक-मठ-प्राप्त्यापि त्वं गर्वितः । त्यक्तः सुहृत्-स्नेहः । नैतद् वेत्सि यत् त्वया मठाश्रय-व्याजेन नरकोपार्जनं कृतम् । उक्तं च-
नरकाय मतिस् ते चेत् पौरोहित्यं समाचार ।
वर्षं यावत् किम् अन्येन मठ-चिन्तां दिन-त्रयम् ॥पन्च्_२.६९॥
तन्-मुखं, शोचितव्यस् त्वं गर्वं गतः । तद् अहं त्वदीयं मठं परित्यज्य यास्यामि ।
अथ तच् छ्रुत्वा भय-त्रस्त-मनास् ताम्रचूडस् तम् उवाच-भो भगवन् ! मैवं वद । न त्वत्-समो ऽन्यो मम सुहृत् कश्चिद् अस्ति । परं तच् छ्रूयतां गोष्ठी-शैथिल्य-कारणम् । एष दुरात्मा मूषकः प्रोन्नत-स्थाने धृतम् अपि भिक्षा-पात्रम् उत्प्लुत्यारोहति, भिक्षा-शेषंच तत्रस्थं भक्षयति । तद्-अभावाद् एव मठे मार्जन-क्रियापि न भवति । तन् मूषक
मुहुर् मुहुस् ताडयामि । नान्यत् कारणम् इति । अपरम् एतत् कुतूहलं पश्यास्य दुर्तात्मनो यन् मार्जार-मर्कटादयो ऽपि तिरस्कृता अस्योत्पतनेन ।
बृहत्स्फिग् आह-अथ ज्ञायते तस्य बिलं कस्मिंश्चित् प्रदेशे ।
ताम्रचूड आह-भगवन् न वेद्मि सम्यक् ।
स आह-नूनं निधानस्योपरि तस्य बिलम् । निधानोष्मणा प्रकूर्दते । उक्तं च-
ऊष्मापि वित्तजो वृद्धिं तेजो नयति देहिनाम् ।
किं पुनस् तस्य सम्भोगस् त्याग-धर्म-समन्वितः ॥पन्च्_२.७०॥
तथा च-
नाकस्माच् छाण्डिली मातर् विक्रीणाति तिलैस् तिलान् ।
लुञ्चितान् इतरैर् येन हेतुर् अत्र भविष्यति ॥पन्च्_२.७१॥
ताम्रचूड आह-कथम् एतत् ?
स आह-
अतोऽहं ब्रवीमि “नाकस्माच्छाण्डिलीमातः” इति ।
एतद् उक्त्वा स भूयो ऽपि प्राह-अथ ज्ञायते तस्य क्रमण-मार्गः ।
ताम्रचूड आह-भगवन्, ज्ञायते । यत एकाकी न समागच्छति, किन्त्व् असङ्ख्य-यूथ-परिवृतः पश्यतो मे परिभ्रमन्न् इतस् ततः सर्व-जनेन सहागच्छति याति च ।
अभ्यागत आह-अस्ति किञ्चित् खनित्रकम् ।
स आह-बाढम् अस्ति । एषा सर्व-लोह-मयी स्व-हस्तिका ।
अभ्यागत आह-तर्हि प्रत्यूषे त्वया मया सह स्थातव्यम् । येन द्वाव् अपि जन-चरण-मलिनायां भूमौ तत्-पदानुसारेण गच्छावः । मयापि तद्-वचनम् आकर्ण्य चिन्तितम्-अहो विनष्टो ऽस्मि, यतो ऽस्य साभिप्राय-वचांसि श्रूयन्ते । नूनं, यथा निधानं ज्ञातं तथा दुर्गम् अप्य् अस्माकं ज्ञास्यति । एतद् अभिप्रायाद् एव ज्ञायते । उक्तं च-
सकृद् अपि दृष्ट्वा पुरुषं विबुधा जानन्ति सारतां तस्य ।
हस्त-तुलयापि निपुणाः पल-प्रमाणा विजानन्ति ॥पन्च्_२.८५॥
वाञ्छैव सूचयति पूर्वतरं भविष्यं
पुंसां यद् अन्य-तनुजं त्व् अशुभं शुभं वा ।
विज्ञायते शिशुर् अजात-कलाप-चिह्नः
प्रत्युद्गतैर् अपसरन् सरलः कलापी ॥पन्च्_२.८६॥
ततो ऽहं भय-त्रस्त-मनाः सपरिवारो दुर्ग-मार्गं परित्यज्यान्य-मार्गेण गन्तुं प्रवृत्तः । सपरिजनो यावद् अग्रतो गच्छामि तावत् सम्मुखो बृहत्कायो मार्जारः समायाति । स च मूषक-वृन्दम् अवलोक्य तन्-मध्ये सहसोत्पपात । अथ ते मूषका मां कुमार्ग-गामिनम् अवलोक्य गर्हयन्तो हत-शेषा रुधिर-प्लावित-वसुन्धरास् तम् एव दुर्गं प्रविष्टाः । अथवा साध्व् इदम् उच्यते-
छित्त्वा पाशम् अपास्य कूट-रचनां भङ्क्त्वा बलाद् वागुरां
पर्यन्ताग्नि-शिखा-कलाप-जटिलान् निर्गत्य दूरं वनात् ।
व्याधानां शर-गोचराद् अपि जवेनोत्पत्य धावन् मृगः
कूपान्तः-पतितः करोतु विधुरे किं वा विधौ पौरुषम् ॥पन्च्_२.८७॥
अथाहम् एको ऽन्यत्र गतः । शेषा मूढतया तत्रैव दुर्गे प्रविष्टाः । अत्रान्तरे स दुष्ट-परिव्राजको रुधिर-बिन्दु-चर्चितां भूमिम् अवलोक्य तेनैव दुर्ग-मार्गेणागत्योपस्थितः ।
यद् उत्साही सदा मर्त्यः पराभवति यज् जनान् ।
यद् उद्धतं वदेद् वाक्यं तत् सर्वं वित्तजं बलम् ॥पन्च्_२.८८॥
अथाहं तच् छ्रुत्वा कोपाविष्टो भिक्षा-पात्रम् उद्दिश्य विशेषाद् उत्कूर्दितो ऽप्राप्त एव भूमौ निपतितः । तच् छ्रूत्वासौ मे शत्रुर् विहस्य ताम्रचूडम् उवाच-भोः ! पश्य पश्य कौतूहलम् । आह च-
अर्थेन बलवान् सर्वो ऽप्य् अर्थ-युक्तः स पण्डितः । पश्यैनं मूषकं व्यर्थं सजातेः समतां मतम् ॥पन्च्_२.८९॥
तत् स्वपिहि त्वं गत-शङ्कः । यद् अस्योत्पतन-कारणं तद् आवयोर् हस्त-गतं जातम् । अथवा साध्व् इदम् उच्यते-
दंष्ट्रा-विरहितः सर्पो मद-हीनो यथा गजः ।
तथार्थेन विहीनो ऽत्र पुरुषो नाम-धारकः ॥पन्च्_२.९०॥
तच् छ्रुत्वाहं मनसा विचिन्तितवान्-यतो ऽङ्गुलि-मात्रम् अपि कूर्दन-शक्तिर् नास्ति, तद् धिग् अर्थ-हीनस्य पुरुषस्य जीवितम् । उक्तं च-
अर्थेन च विहीनस्य पुरुषस्याल्प-मेधसः ।
व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥पन्च्_२.९१॥
यथा काक-यवाः प्रोक्ता यथारण्य-भवास् तिलाः ।
नाम-मात्रा न सिद्धौ हि धन-हीनास् तथा नराः ॥पन्च्_२.९२॥
सन्तो ऽपि न हि राजन्ते दरिद्रस्येतरे गुणाः ।
आदित्य इव भूतानां श्रीर् गुणानां प्रकाशिनी ॥पन्च्_२.९३॥
न तथा बाध्यते लोके प्रकृत्या निर्धनो जनः ।
यथा द्रव्याणि सम्प्राप्य तैर् विहीनो ऽसुखे स्थितः ॥पन्च्_२.९४॥
शुष्कस्य कीट-खातस्य वह्नि-दग्धस्य सर्वतः ।
तरोर् अप्य् ऊषरस्थस्य वरं जन्म न चार्थिनः ॥पन्च्_२.९५॥
शङ्कनीया हि सर्वत्र निष्प्रतापा दरिद्रता ।
उपकर्तुम् अपि हि प्राप्तं निःस्वं सन्त्यज्य गच्छति ॥पन्च्_२.९६॥
उन्नम्योन्नम्य तत्रैव दरिद्राणां मनोरथाः ।
पतन्ति हृदये व्यर्था विधवास्त्रीस्तना इव ॥पन्च्_२.९७॥
व्यक्तेऽपि वासरे नित्यं दौर्गत्य-तमसावृतः ।
अग्रतो ऽपि स्थितो यत्नान् न केनापीह दृश्यते ॥पन्च्_२.९८॥
एवं विलप्याहं भग्नोत्साहस् तन्-निधानं गण्डोपधानीकृतं दृष्ट्वा स्वं दुर्गं प्रभाते गतः । ततश् च मद्-भृत्याः प्रभाते गच्छन्तो मिथो जल्पन्ति-अहो, असमर्थो ऽयम् उदर-पूरणेऽस्माकम् । केवलम् अस्य पृष्ठ-लग्नानां विडालादि-विपत्तयः तत् किम् अनेनाराधितेन ? उक्तं च-
यत्-सकाशान् न लाभाः स्यात् केवलाः स्युर् विपत्तयः ।
स स्वामी दूरतस् त्याज्यो विशेषाद् अनुजीविभिः ॥पन्च्_२.९९॥
एवं तेषां वचांसि श्रुत्वा स्व-दुर्गं प्रविष्टो ऽहम् । यावन् न कश्चिन् मम संमुखेऽभ्येति तावन् मया चिन्तितम्-धिग् इयं दरिद्रता । अथवा साध्व् इदम् उच्यते-
मृतो दरिद्रः पुरुषो मृतं मैथुनम् अप्रजम् ।
मृतम् अश्रोत्रियं श्राद्धं मृतो यज्ञस् त्व् अदक्षिणम् ॥पन्च्_२.१००॥
- एवं मे चिन्तयन्तः ते भृत्या मम शत्रूणां सेवका जाताः ते च मामेकाकिनं दृष्ट्वा विडम्बनां कुर्वन्ति । अथ मया एकाकिना योगनिद्रां गतेन भूयो विचिन्तितम् । “यत् तस्य कुतपस्विनः समाश्रयं गत्वा तद्गण्डोपधानवर्तिकृतां वित्तपेटां शनैः शनैः विदार्य्य तस्य निद्रावशं गतस्य स्वदूर्गे तद्वित्तं आनयामि येन भूयोऽपि मे वित्तप्रभावेण आधिपत्यं पूर्ववद्भविष्यति । उक्तञ्च +++(सम्पादकटिप्पनी - पुस्तकेऽत्राधिकः पाठः ।)+++
व्यथयन्ति परं चेतो मनोरथ-शतैर् जनाः ।
नानुष्ठानैर् धनैर् हीनाः कुलजाः विधवा इव ॥पन्च्_२.१०१॥
दौर्गत्यं देहिनां दुःखम् अपमान-करं परम् ।
येन स्वैर् अपि मन्यन्ते जीवन्तो ऽपि मृता इव ॥पन्च्_२.१०२॥
दैन्यस्य पात्रताम् एति पराभृतेः परं पदम् ।
विपदाम् आश्रयः शश्वद् दौर्गत्य-कलुषी-कृतः ॥पन्च्_२.१०३॥
लज्जन्ते बान्धवास् तेन सम्बन्धं गोपयन्ति च ।
मित्राण्य् अमित्रतां यान्ति यस्य न स्युः कपर्दकाः ॥पन्च्_२.१०४॥
मूर्तं लाघवम् एवैतद् अपायानाम् इदं गृहम् ।
पर्यायो मरणस्यायं निर्धनत्वं शरीरिणाम् ॥पन्च्_२.१०५॥
अजा-धूलिर् इव त्रस्तैर् मार्जनी-रेणुवज् जनैः ।
दीप-खट्वोत्थ-च्छायेव त्यज्यते निर्धनो जनः ॥पन्च्_२.१०६॥
शौचावशिष्टयाप्य् अस्ति किञ्चित् कार्यं क्वचिन् मृदा ।
निर्धनेन जनेनैव न तु किञ्चित् प्रयोजनम् ॥पन्च्_२.१०७॥
अधनो दातु-कामो ऽपि सम्प्राप्तो धनिनां गृहम् ।
मन्यते याचको ऽयं धिग् दारिद्र्यं खलु देहिनाम् ॥पन्च्_२.१०८॥
- अतो वित्तापहारं विदधतो यदि मे मृत्युः स्यात् तथापि शोभनम् । उक्तञ्च - +++(सम्पादकटिप्पनी- पुस्तकेऽयमत्राधिकः पाठः ।)+++
स्व-वित्त-हरणं दृष्ट्वा यो हि रक्षत्य् असून् नरः ।
पितरो ऽपि न गृह्णन्ति तद्-दत्तं सलिआञ्जलिम् ॥पन्च्_२.१०९॥
तथा च-
गवार्थे ब्राह्मणार्थे च स्त्री-वित्त-हरणे तथा ।
प्राणांस् त्यजति यो युद्धे तस्य लोकाः सनातनाः ॥पन्च्_२.११०॥
एवं निश्चित्य रात्रौ तत्र गत्वा निद्रावशम् उपागतस्य पेटायां मया छिद्रं कृतं यावत्, तावत् प्रबुद्धो दुष्ट-तापसः । ततश् च जर्जर-वंश-प्रहारेण शिरसि ताडितः कथञ्चिद् आयुः-शेषतया निर्गतो ऽहम्, न मृतश् च ।