०१-२२ धूर्तमर्कटः प्राणत्यागी विप्रश्च

पण्डितो ऽपि वरं शत्रुर् न मूर्खो हित-कारकः ।
वानरेण हतो राजा विप्राश् चीरेण रक्षिताः ॥पन्च्_१.४५०॥

कस्यचिद् राज्ञो नित्यं वानरो ऽतिभक्ति-परो ऽङ्ग-सेवको ऽन्तः-पुरे अप्य् अप्रतिषिद्ध-प्रसरो ऽतिविश्वास-स्थानम् अभूत् । एकदा राज्ञो निद्रां गतस्य वानरे व्यजनं नीत्वा वायुं विदधति राज्ञो वक्षः-स्थलोपरि मक्षिकोपविष्टा । व्यजनेन मुहुर् मुहुर् निषिध्यमानापि पुनः पुनस् तत्र एवोपविशति । ततस् तेन स्वभाव-चपलेन मूर्खेण वानरेण क्रुद्धेन सता तीक्ष्णं खड्गम् आदाय तस्या उपरि प्रहारो विहितः । ततो मक्षिकोड्डीय गता, परं तेन शित-धारेणासिना राज्ञो वक्षो द्विधा जातं राजा मृतश् च । तस्माच् चिरायुर् इच्छता नृपेण मूर्खो ऽनुचरो न रक्षणीयः ।

अपरम् एकस्मिन् नगरे को ऽपि विप्रो महा-विद्वान् परं पूर्व-जन्म-योगेन चौरो वर्तते । तस्मिन् पुरेऽन्य-देशाद् आगतांश् चतुरो विप्रान् बहूनि वस्तूनि विक्रीणतो दृष्ट्वा चिन्तितवान्-अहो केनोपायेनैषां धनं लभे । इति विचिन्त्य तेषां पुरो ऽनेकानि शास्त्रोक्तानि सुभाषितानि चातिप्रियाणि मधुराणि वचनानि जल्पता तेषां मनसि विश्वासम् उत्पाद्य सेवा कर्तुम् आरब्धा । अथवा साध्व् इदम् उच्यते-

असती भवति सलज्जा क्षारं नीरं च शीतलं भवति ।
दम्भी भवति विवेकी प्रियवक्ता भवति धूर्तजनः ॥पन्च्_१.४५१॥

अथ तस्मिन् सेवां कुर्वति तैर् विप्रैः सर्व-वस्तूनि विक्रीय बहु-मूल्यानि रत्नानि क्रीतानि । ततस् तानि जङ्घा-मध्ये तत्-समक्षं प्रक्षिप्य स्व-देशं प्रति गन्तुम् उद्यमो विहितः । ततः स धूर्त-विप्रस् तान् विप्रान् गन्तुम् उद्यतान् प्रेक्ष्य चिन्ता-व्याकुलित-मनाः संजातः- अहो धनम् एतन् न किंचिन् मम चटितम् । अथैभिः सह यामि । पथि क्वापि विषं दत्त्वैतान् निहत्य सर्व-रत्नानि गृह्णामि । इति विचिन्त्य तेषाम् अग्रे स-करुणं विलप्येदम् आह-भो मित्राणि ! यूयं माम् एकाकिनं मुक्त्वा गन्तुम् उद्यताः । तन् मे मनो भवद्भिः सह स्नेह-पाशेन बद्धं भवद्-विरह-नाम्नैवाकुलं सञ्जातं यथा धृतिं क्वापि न धत्ते । यूयम् अनुग्रहं विधाय सहाय-भूतं माम् अपि सहैव नयत ।

तद्-वचः श्रुत्वा ते करुणार्द्र-चित्तास् तेन समम् एव स्व-देशं प्रति प्रस्थिताः । अथाध्वनि तेषां पञ्चानाम् अपि पल्ली-पुर-मध्ये व्रजतां ध्वाङ्क्षाः कथयितुम् आरब्धाः-रे रे किराताः ! धावत धावत । स-पाद-लक्ष-धनिनो यान्ति । एतान् निहत्य धनं नयत ।

ततः किरातैर् ध्वाङ्क्ष-वचनम् आकर्ण्य सत्वरं गत्वा ते विप्रा लगुड-प्रहारैर् जर्जरी-कृत्य वस्त्राणि मोचयित्वा विलोकिताः, परं धनं किंचिन् न लब्धम् । तदा तैः किरातैर् अभिहितम्-भोः पान्थाः ! पुरा कदापि ध्वाङ्क्ष-वचनम् अनृतं नासीत् । ततो भवतां संनिधौ क्वापि धनं विद्यते तद् अर्पयत । अन्यथा सर्वेषाम् अपि वधं विधाय चर्म विदार्य प्रत्यङ्गं प्रेक्ष्य धनं नेष्यामः ।

तदा तेषाम् ईदृशं वचनम् आकर्ण्य चौर-विप्रेण मनसि चिन्तितम्-यदैषां विप्राणां वधं विधायाङ्गं विलोक्य रत्नानि नेष्यन्ति, तदापि मां वधिष्यन्ति ततो ऽहं पूर्वम् एवात्मानम् अरत्नं समर्प्यैतान् मुञ्चामि । उक्तं च-

मृत्योर् बिभेषि किं बाल न स भीतं विमुञ्चति ।
अद्य वाब्द-शतान्ते वा मृत्युर् वै प्राणिनां ध्रुवः ॥पन्च्_१.४५२॥

तथा च-
गवार्थे ब्राह्मणार्थे च प्राण-त्यागं करोति यः ।
सूर्यस्य मण्डलं भित्त्वा स याति परमां गतिम् ॥पन्च्_१.४५३॥

इति निश्चित्याभिहितं-भोः किराताः ! यद्य् एवं ततो मां पूर्वं निहत्य विलोकयत । ततस् तैस् तथानुष्ठिते तं धन-रहितम् अवलोक्यापरे चत्वारो ऽपि मुक्ताः ।