तुलां लोह-सहस्रस्य यत्र खादन्ति मूषकाः ।
राजंस् तत्र हरेच् छ्येनो बालकं नात्र संशयः ॥पन्च्_१.४४२॥
अस्ति कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्-पुत्रः । स च द्रव्य-क्षयाद् देशान्तर-गमन-मना व्यचिन्तयत्-
यत्र देशे अथ वा स्थाने भोगान् भुक्त्वा स्ववीर्यतः । तस्मिन् विभवहीनो यो वसेत् स पुरुषाधमः ॥पन्च्_१.४४३॥
तथा च- येनाहंकारयुक्तेन चिरं विलसितं पुरा । दीनं वदति तत्रैव यः परेषां स निन्दितः ॥पन्च्_१.४४४॥
तस्य च गृहे सहस्र-लोह-भार-घटिता पूर्व-पुरुषोपार्जिता तुलासीत् । तां च कस्यचिद् छ्रेष्टिनो गृहे निक्षेप-भूतां कृत्वा देशान्तरं प्रस्थितः । ततः सुचिरं कालं देशान्तरं यथेच्छया भ्रान्त्वा पुनः स्व-पुरम् आगत्य तं श्रेष्ठिनम् उवाच-भोः श्रेष्ठिन् ! दीयतां मे सा निक्षेप-तुला ।
स आह-भो ! नास्ति सा त्वदीया तुला । मूषिकैर् भक्षिता ।
जीर्णधन आह-भोः श्रेष्ठिन् ! नास्ति दोषस् ते यदि मूषिकैर् भक्षितेति । ईदृग् एवायं संसारः । न किंचिद् अत्र शाश्वतम् अस्ति । परम् अहं नद्यां स्नानार्थं गमिष्यामि । तत् त्वम् आत्मीयं शिशुम् एनं धनदेव-नामानं मया सह स्नानोपकरण-हस्तं प्रेषयेति ।
सो ऽपि चौर्य-भयात् तस्य शङ्कितः स्व-पुत्रम् उवाच-वत्स, पितृव्यो ऽयं तव स्नानार्थं नद्यां यास्यति । तद् गम्यताम् अनेन सार्धं स्नानोपकरणम् आदायेति । अहो साध्व् इदम् उच्यते-
न भक्त्या कस्यचित् को ऽपि प्रियं प्रकुरुते नरः । मुक्त्वा भयं प्रलोभं वा कार्य-कारणम् एव वा ॥पन्च्_१.४४५॥
तथा च- अत्यादरो भवेद् यत्र कार्य-कारण-वर्जितः । तत्र शङ्का प्रकर्तव्या परिणामेऽसुखावहा ॥पन्च्_१.४४६॥
अथासौ वणिक्-शिशुः स्नानोपकरणम् आदाय प्रहृष्ट-मनास् तेनाभ्यागतेन सह प्रस्थितः । तथानुष्ठिते वणिक् स्नात्वा तं शिशुं नदी-गुहायां प्रक्षिप्य तद्-द्वारं बृहच्-छिलयाच्छाद्य सत्वरं गृहम् आगतः । पृष्टश् च तेन वणिजा-भो ऽभ्यागत तत् कथ्यतां कुत्र मे शिशुर् यस् त्वया सह नदीं गतः इति ।
स आह-नदी-तटात् स श्येनेन हृत इति ।
श्रेष्ठ्य् आह-मिथ्या-वादिन् ! किं क्वचिच् छ्येनो बालं हर्तुं शक्नोति ? तत् समर्पय मे सुतम्, अन्यथा राज-कुले निवेदयिष्यामीति ।
स आह-भोः सत्यवादिन् ! यथा श्येनो बालं न नयति तथा मूषिका अपि लोह-भार-घटितां तुलां न भक्षयन्ति । तद् अर्पय मे तुलां यदि दारकेण प्रयोजनम् । एवं विवदमानौ द्वाव् अपि राज-कुलं गतौ ।
तत्र श्रेष्ठी तार-स्वरेण प्रोवाच-भो ऽब्रह्मण्यम् अब्रह्मण्यम् । मम शिशुर् अनेन चौरेणापहृतः ।
अथ धर्माधिकारिणस् तम् ऊचुः-भोः समर्प्यतां श्रेष्ठि-सुतः ।
स आह-किं करोमि ? पश्यतो मे नदी-तटाच् छ्येनेनापहृतः शिशुः ।
तच् छ्रुत्वा ते प्रोचुः-भो न सत्यम् अभिहितं भवता । किं श्येनः शिशुं हर्तुं समर्थो भवति ?
स आह-भो भोः श्रूयतां मद्-वचः ।
तुलां लोह-सहस्रस्य यत्र खादन्ति मूषिकाः ।
राजंस् तत्र हरेच् छ्येनो बालकं नात्र संशयः ॥पन्च्_१.४४७॥
ते प्रोचुः-कथम् एतत् ?
ततः श्रेष्ठी सभ्यानाम् अग्रे सर्वं वृत्तान्तं निवेदयामास । ततस् तैर् विहस्य द्वाव् अपि तौ परस्परं सम्बोध्य तुला-शिशु-प्रदानेन सन्तोषितौ ।