उपायं चिन्तयेत् प्राज्ञस् तथापायम् अपि चिन्तयेत् । पश्यतो बक-मूर्खस्य नकुलैर् भक्षिताः सुताः ॥पन्च्_१.४३९॥
अस्ति कस्मिंश्चिद् वनोद्देशे बहु-बक-सनाथो वट-पादपः । तस्य कोटरे कृष्ण-सर्पः प्रतिवसति स्म । स च बक-बालकान् अजात-पक्षान् अपि सदैव भक्षयन् कालं नयति । अथैको बकस् तेन भक्षितान्य् अपत्यानि दृष्ट्वा शिशु-वैराग्यात् सरस्-तीरम् आसाद्य बाष्प-पूरैत-नयनो ऽधो-मुखस् तिष्ठति । तं च तादृक्-चेष्टितम् अवलोक्य कुलीरकः प्रोवाच-माम किम् एवं रुद्यते भवताद्य ?
स आह-भद्र किं करोमि ? मम मन्द-भाग्यस्य बालकाः कोटर-निवासिना सर्पेण भक्षिताः । तद्-दुःख-दुःखितो ऽहं रोदिमि । तत् कथय मे यद्य् अस्ति कश्चिद् उपायस् तद्-विनाशाय ।
तद् आकर्ण्य कुलीरकश् चिन्तयामास-अयं तावद् अस्मत्-सहज-वैरी । तथोपदेशं प्रयच्छामि सत्यानृतं यथान्येऽपि बकाः सर्वे सङ्क्षयम् आयान्ति । उक्तं च-
नवनीत-समां वाणीं कृत्वा चित्तं तु निर्दयम् ।
तथा प्रबोध्यते शत्रुः सान्वयो म्रियते यथा ॥पन्च्_१.४४०॥
आह च-माम, यद्य् एवं तन् मत्स्य-मांस-खण्डानि नकुलस्य बिल-द्वारात् सर्प-कोटरं यावत् प्रक्षिप यथा नकुलस् तन्-मार्गेण गत्वा तं दुष्ट-सर्पं विनाशयति ।
अथ तथानुष्ठिते मत्स्य-मांसानुसारिणा नकुलेन तं कृष्ण-सर्पं निहत्य तेऽपि तद्-वृक्षाश्रयाः सर्वे बकाश् च शनैः शनैर् भक्षिताः ।