धर्म-बुद्धिः कुबुद्धिश् च द्वाव् एतौ विदितौ मम ।
पुत्रेण व्यर्थ-पाण्डित्यात् पिता धूमेन घातितः ॥पन्च्_१.४२९॥
कस्मिंश्चिद् देशे धर्मबुद्धिः पापबुद्धिश् च द्वे मित्रे प्रतिवसतः । अथ कदाचित् पापबुद्धिना चिन्तितं यद्-अहं तावन् मूर्खो दारिद्र्योपेतश् च । तद् एनं धर्मबुद्धिम् आदाय देशान्तरं गत्वा अस्याश्रयेणार्थोपार्जनां कृत्वैनम् अपि वञ्चयित्वा सुखीभवामि ।
अथान्यस्मिन्न् अहनि पापबुद्धिर् धर्मबुद्धिं प्राह-भो मित्र ! वार्धक-भावे किं त्व् आत्म-विचेष्टितं स्मरसि । देशान्तरम् अदृष्ट्वा कां शिष्ट-जनस्य वार्त्तां कथयिष्यसि ? उक्तं च-
देशान्तरेषु बहु-विध-भाषा-वेषादि येन न ज्ञातम् । भ्रमता धरणी-पीठे तस्य फलं जन्मनो व्यर्थम् ॥पन्च्_१.४३०॥
तथा च-
विद्यां वित्तं शिल्पं तावन् नाप्नोति मानवः सम्यक् । यावद् व्रजति न भूमौ देशाद् देशान्तरं हृष्टः ॥पन्च्_१.४३१॥
अथ तस्य तद्-वचनम् आकर्ण्य प्रहृष्ट-मनास् तेनैव सह गुरु-जनानुज्ञातः शुभेऽहनि देशान्तरं प्रस्थितः । तत्र च धर्मबुद्धि-प्रभावेण भ्रमता पापबुद्धिना प्रभूततरं वित्तम् आसादितम् । ततश् च तौ द्वाव् अपि प्रभूतोपार्जित-द्रव्यौ प्रहृष्टौ स्व-गृहं प्रत्य् औत्सुक्येन प्रस्थितौ । उक्तं च-
प्राप्त-विद्यार्थ-शिल्पानां देशान्तर-निवासिनाम् । क्रोश-मात्रो ऽपि भू-भागः शत-योजनवद् भवेत् ॥पन्च्_१.४३२॥
अथ स्व-स्थान-समीप-वर्तिना पापबुद्धिना धर्मबुद्धिर् अभिहितः-भद्र ! न सर्वम् एतद् धनं गृहं प्रति नेतुं युज्यते । यतः कुटुम्बिनो बान्धवाश् च प्रार्थयिष्यन्ते । तद् अत्रैव वन-गहने क्वापि भूमौ निक्षिप्य किञ्चिन् मात्रम् आदाय गृहं प्रविशावः । भूयो ऽपि प्रयोजने सञ्जाते तन्-मात्रं समेत्यास्मात् स्थानान् नेष्यावः । उक्तं च-
न वित्तं दर्शयेत् प्राज्ञः कस्यचित् स्वल्पम् अप्य् अहो । मुनेर् अपि यतस् तस्य दर्शनाच् चलते मनः ॥पन्च्_१.४३३॥
तथा च- यथामिषं जले मत्स्यैर् भक्ष्यते श्वापदैर् भुवि । आकाशे पक्षिभिश् चैव तथा सर्वत्र वित्तवान् ॥पन्च्_१.४३४॥
तद् आकर्ण्य धर्मबुद्धिर् आह-भद्र एवं क्रियताम् । तथानुष्ठिते द्वाव् अपि तौ स्व-गृहं गत्वा सुखेन संस्थितवन्तौ । अथान्यस्मिन्न् अहनि पापबुद्धिर् निशीथेऽटव्यां गत्वा तत् सर्वं वित्तं समादाय गर्तं पूरयित्वा स्व-भवनं जगाम ।
अथान्येद्युर् धर्मबुद्धिं समेत्य प्रोवाच-सखे बहु-कुटुम्बा वयं वित्ताभावात् सीदामः । तद् गत्वा तत्र स्थाने किंचिन् मात्रं धनम् आनयावः ।
सो ऽब्रवीत्-भद्र, एवं क्रियताम् ।
अथ द्वाव् अपि गत्वा तत् स्थानं यावत् खनतस् तावद् रिक्तं भाण्डं दृष्टवन्तौ । अत्रान्तरे पापबुद्धिः शिरस् ताडयन् प्रोवाच-भो धर्मबुद्धे ! त्वया हृतम् एतद् धनं, नान्येन । यतो भूयो ऽपि गर्तापूरणं कृतम् । तत् प्रयच्छ मे तस्यार्धम् । अन्यथाहं राज-कुले निवेदयिष्यामि ।
स आह-भो दुरात्मन् ! मा मैवं वद । धर्मबुद्धिः खल्व् अहम् । नैतच् चौर-कर्म करोमि । उक्तं च-
मातृवत् पर-दाराणि पर-द्रव्याणि लोष्टवत् । आत्मवत् सर्व-भूतानि वीक्षन्ते धर्म-बुद्धयः ॥पन्च्_१.४३५॥
एवं द्वाव् अपि विवदमानौ धर्माधिकारिणं गतौ ? प्रोचतुश् च परस्परं दूषयन्तौ । अथ धर्माधिकरणाधिष्ठित-पुरुषैर् दिव्यार्थं यावन् नियोजितौ तावत् पापबुद्धिर् आह-
अहो न सम्यग्-दृष्टो न्यायः । उक्तं च-
विवादे अन्विष्यते पत्रं तद्-अभावेऽपि साक्षिणः ।
साक्ष्य् अभावात् ततो दिव्यं प्रवदन्ति मनीषिणः ॥पन्च्_१.४३६॥
तद् अत्र विषये मम वृक्ष-देवताः साक्षि-भूतास् तिष्ठन्ति । ता अप्य् आवयोर् एकतरं चौरं साधुं वा करिष्यन्ति । अथ तैः सर्वैर् अभिहितम्-भो युक्तम् उक्तं भवता । उक्तं च-
अन्त्यजो ऽपि यदा साक्षी विवादे सम्प्रजायते ।
न तत्र युज्यते दिव्यं किं पुनर् वन-देवताः ॥पन्च्_१.४३७॥
तद् अस्माकम् अप्य् अत्र विषये महत् कौतूहलम् वर्तते । प्रत्यूष-समये युवाभ्याम् अप्य् अस्माभिः सह तत्र वनोद्देशे गन्तव्यम् इति । एतस्मिन्न् अन्तरे पापबुद्धिः स्व-गृहं गत्वा स्व-जनकम् उवाच-तात, प्रभूतो ऽयं मयार्थो धर्मबुद्धेश् चोरितः । स च तव वचनेन परिणतिं गच्छति । अन्यथास्माकं प्राणैः सह यास्यति ।
स आह-वत्स, द्रुतं वद येन प्रोच्य तद् द्रव्यं स्थिरतां नयामि ।
पापबुद्धिर् आह-तात, अस्ति तत्-प्रदेशे महा-शमी । तस्यां महत् कोटरम् अस्ति । तत्र त्वं सांप्रतम् एव प्रविश । ततः प्रभाते यदाहं सत्य-श्रावणं करोमि, तदा त्वया वाच्यं यद् धर्मबुद्धिश् चौर इति ।
तथानुष्ठिते प्रत्यूषे स्नात्वा पापबुद्धिः धर्मबुद्धि-पुरः-सरो धर्माधिकरणकैः सह तां शमीम् अभ्येत्य तार-स्वरेण प्रोवाच ।
आदित्यचन्द्राव् अनिलो ऽनलश् च
द्यौर् भूमिर् आपो हृदयं यमश् च ।
अहश् च रात्रिश् च उभे च सन्ध्ये
धर्मो हि जानाति नरस्य वृत्तम् ॥पन्च्_१.४३८॥
भगवति वन-देवते ! आवयोर् मध्ये यश् चौर तत् कथयत । अथ पापबुद्धि-पिता शमी-कोटर-स्थः प्रोवाच-भो, धर्मबुद्धिना हृतम् एतद् धनम् ।
तद् आकर्ण्य सर्वे ते राज-पुरुषा विस्मयोत्फुल्ल-लोचना यावद् धर्मबुद्धेर् वित्त-हरणोचितं निग्रहं शास्त्र-दृष्ट्यावलोकयन्ति तावद् धर्मबुद्धिना तच् छमी-कोटरं वह्नि-भोज्य-द्रव्यैः परिवेष्ट्य वह्निना सन्दीपितम् । अथ ज्वलति तस्मिन् शमी-कोटरेऽर्ध-दग्ध-शरीरः स्फुटितेक्षणः करुणं परिदेवयन् पापबुद्धि-पिता निश्चक्राम । ततश् च तैः सर्वैः पृष्टः-भो किम् इदम् ?
इत्य् उक्ते इदं सर्वं कुकृत्यं पापबुद्धेः कारणाज् जातम् इत्य् उक्त्वा मृतः । ततस् ते राज-पुरुषाः पापबुद्धिं शमी-शाखायां प्रतिलम्ब्य धर्मबुद्धिं प्रशंस्येदम् ऊचुः-
अहो साध्व् इदम् उच्यते-
उपायं चिन्तयेत् प्राज्ञस् तथापायम् अपि चिन्तयेत् । पश्यतो बक-मूर्खस्य नकुलैर् भक्षिताः सुताः ॥पन्च्_१.४३९॥
धर्म-बुद्धिः प्राह-कथम् एतत् ?
ते प्रोचुः-
अतो वयं ब्रूमः– “उपायं चिन्तयेद्” इति ।