उपदेशो न दातव्यो यादृशे तादृशे नरे ।
पश्य वानरमूर्खेण सुगृही निर्गृहीकृता ॥१.४२१॥
कस्मिंश्चिद् वने शमी-वृक्ष-शाखालम्बित-वसथं कृत्वारण्य-चटक-दम्पती प्रतिवसतः स्म । अथ कदाचित् तयोः सुख-संस्थयोर् हेमन्त-मेघो मन्दं मन्दं वर्षितुम् आरब्धः । अत्रान्तरे कश्चिच् छाखा-मृगो वातासार-समाहतः प्रोद्धूषित-शरीरो दन्तवीणां वादयन् वेपमानस् तस्याः शम्या मूलम् आसाद्योपविष्टः । अथ तं तादृषम् अवलोक्य चटका प्राह-भो भद्र !
हस्त-पाद-समोपेतो दृश्यसे पुरुषाकृतिः ।
शीतेन भिद्यसे मूढ कथं न कुरुषे गृहम् ॥पन्च्_१.४२२॥
एतच् छ्रुत्वा तां वानरः सकोपम् आह-अधमे कस्मान् न त्वं मौन-व्रता भवसि ? अहो धार्ष्ट्यम् अस्याः । अद्य माम् उपहसति-
सूची-मुखि दुराचारा रण्डा पण्डित-वादिनी ।
नाशङ्कते प्रजल्पन्ती तत् किम् एनां न हन्म्य् अहम् ॥पन्च्_१.४२३॥
एवं प्रलप्य ताम् आह-मुग्धे ! किं मम चिन्तया तव प्रयोजनम् ? उक्तं च-
वाच्यं श्रद्धा-समेतस्य पृच्छतेश् च विशेषतः ।
प्रोक्तं श्रद्धा-विहीनस्य अरण्य-रुदितोपमम् ॥पन्च्_१.४२४॥
तत् किं बहुना तावत् । कुलाय-स्थितया तया पुनर् अप्य् अभिहितः । स तावत् तां शमीम् आरुह्य तस्याः कुलायं शतधा खण्डशो ऽकरोत् ।