०१-१७ वानरयूथ-कथा

नानाम्यं नमते दारु नाश्मनि स्यात् क्षुर-क्रिया ।
सूची-मुखं विजानीहि नाशिष्यायोपश्यते ॥पन्च्_१.४१७॥

अस्ति कस्मिंश्चित् पर्वतैक-देशे वानर-यूथम् । तच् च कदाचिद् धेमन्त-समयेऽतिकठोर-वात-संस्पर्श-वेपमान-कलेवरं तुषार-वर्षोद्धत-प्रवर्ष-घन-धारा-निपात-समाहतं न कथञ्चिच् छान्तिम् अगमत् । अथ केचिद् वानरा वह्नि-कण-सदृशानि गुञ्जा-फलान्य् अवचित्य वह्नि-वाञ्छया फूत्कुर्वन्तः समन्तात् तस्थुः ।

अथ सुचीमुखो नाम पक्षी तेषां तं वृथायासमवलोक्य प्रोवाच-भोः, सर्वे मूर्खा यूयम् । नैते वह्नि-कणाः गुञ्जा-फलानि एतानि । तत् किं वृथा श्रमेण । नैतस्माच् छीत-रक्षा भविष्यति । तद् अन्विष्यतां कश्चिन् निर्वातो वन-प्रदेशो गुहा गिरि-कन्दरं वा । अद्यापि स-टोपा मेधा दृश्यन्ते ।

अथ तेषाम् एकतमो वृद्ध-वानरस् तम् उवाच-भो मूर्ख ! किं तावद् अनेन व्यापारेण । तद् गम्यताम् । उक्तं च-

मुहुर् विघ्नित-कर्माणं द्यूत-कारं पराजितम् ।
नालापयेद् विवेक-ज्ञो यदीच्छेत् सिद्धिम् आत्मनः ॥पन्च्_१.४१८॥

तथा च-
आखेटकं वृथाक्लेशं मूर्खं व्यसनसंस्थितम् ।
समालापेन यो युङ्क्ते स गच्छति पराभवम् ॥पन्च्_१.४१९॥

सो ऽपि तम् अनादृत्य भूयो ऽपि वानरान् अनवरतम् आह-भोः ! किं वृथा क्लेशेन ? अथ यावद् असौ न कथञ्चित् प्रलपन् विरमति तावद् एकेन वानरेण व्यर्थ-श्रमत्वात् कुपितेन पक्षाभ्यां गृहीत्वा शिलायाम् आस्फालित उपरतश् च ।