परस्य पीडनं कुर्वन् स्वार्थ-सिद्धिं च पण्डितः । मूढ-बुद्धिर् न भक्षेत वने चतुरको यथा ॥पन्च्_१.३९९॥
अस्ति कस्मिंश्चिद् वनोद्देशे वज्र-दंष्ट्रो नाम सिंहः । तस्य चतुरक-क्रव्यमुख-नामानौ शृगाल-वृकौ भृत्य-भूतौ सदैवानुगतौ तत्रैव वने प्रतिवसतः । अथान्य-दिने सिंहेन कदाचिद् आसन्न-प्रसवा प्रसव-वेदनया स्व-यूथाद् भ्रष्टोष्ट्र्य् उपविष्टा कस्मिंश्चिद् वन-गहने समासादिता । अथ तां व्यापाद्य यावद् उदरं स्फोटयति, तावज् जीवन् लघु-दासेरक-शिशुर् निष्क्रान्तः । सिंहो ऽपि दासेरक्याः पिशितेन सपरिवारः परां तृप्तिम् उपागतः । परं स्नेहाद् बाल-दासेकं त्यक्तं गृहम् आनीयेदम् उवाच-भद्र, न तेऽस्ति मृत्योर् भयं मत्तो नान्यस्माद् अपि । ततः स्वेच्छयात्र वने भ्राम्यताम् इति । यतस् ते शङ्कु-सदृशौ कर्णौ । ततः शङ्कुकर्णो नाम भविष्यति ।
एवम् अनुष्ठिते चत्वारो ऽपि न एक-स्थाने विहारिणः परस्परम् अनेक-प्रकार-गोष्ठी-सुखम् अनुभवन्तस् तिष्ठन्ति । शङ्कुकर्णो ऽपि यौवन-पदवीम् आरूढः क्षणम् अपि न तं सिंहं मुञ्चति ।
अथ कदाचिद् वज्र-दंष्ट्रस्य केनचिद् वन्येन मत्त-गजेन सह युद्धम् अभवत् । तेन मद-वीर्यात् स दन्त-प्रहारैस् तथा क्षत-शरीरो विहितो यथा प्रचलितुं न शक्नोति । तदा क्षुत्-क्षाम-कण्ठस् तान् प्रोवाच-भोः ! अन्विष्यतां किञ्चित् सत्त्वं येनाहम् एवं स्थितो ऽपि तं व्यापाद्यात्मनो युष्माकं च क्षुत्-प्रणाशं करोमि ।
तच् छ्रुत्वा ते त्रयो ऽपि वने सन्ध्या-कालं यावद् भ्रान्ताः, परं न किञ्चित् सत्त्वम् आसादितम् । अथ चतुरकश् चिन्तयामास-यदि शङ्कुकर्णो ऽयं व्यापाद्येत ततः सर्वेषां कतिचिद् दिनानि तृप्तिर् भवति । परं नैनं स्वामी मित्रत्वाद् आश्रय-समाश्रितत्वाच् च विनाशयिष्यति । अथवा बुद्धि-प्रभावेण स्वामिनं प्रतिबोध्य तथा करिष्ये यथा व्यापादयिष्यति । उक्तं च-
अवध्यं वाथवागम्यम् अकृत्यं नास्ति किंचन । लोके बुद्धिमताम् अत्र तस्मात् तां योजयाम्य् अहम् ॥पन्च्_१.४००॥
- अवध्यं चाथवागम्यमकृत्यं नास्ति किञ्चन ।
लोके बुद्धिमतां बुद्धेस्तस्मात्तां विनियोजयेत् ॥४००॥ +++(सम्पादकटिप्पनी- पुस्तके ४००तमं पद्यम् इत्थम् ।)+++
एवं विचिन्त्य शङ्कुकर्णम् इदम् आह-भोः शङ्कुकर्ण ! स्वामी तावत् पथ्यं विना क्षुधया परिपीड्यते । स्वाम्य-भावाद् अस्माकम् अपि ध्रुवं विनाश एव । ततो वाक्यं किञ्चित् स्वाम्य्-अर्थे वदिष्यामि । तच् छ्रूयताम् ।
शङ्कुकर्ण आह-भोः शीघ्रं निवेद्यतां, येन ते वचनं शीघ्रं निर्विकल्पं करोमि । अपरं स्वामिनोहिते कृते मया सुकृत-शतं कृतं भविष्यति ।
अथ चतुरक आह-भो भद्र ! आत्म-शरीरं द्विगुण-लाभेन स्वामिने प्रयच्छ, येन ते द्विगुणं शरीरं भवति । स्वामिनः पुनः प्राण-यात्रा भवति ।
तद् आकर्ण्य शङ्कुकर्णः प्राह-भद्र ! यद्य् एवं तन् मदीय-प्रयोजनम् एतद् उच्यताम् । स्वाम्य्-अर्थः क्रियताम् इति । परम् अत्र धर्मः प्रतिभूः इति ।
ते विचिन्त्य सर्वे सिंह-सकाशम् आजग्मुः । ततश् चतुरक आह-देव ! न किञ्चित् सत्त्वं प्राप्तम् । भगवान् आदित्यो ऽप्य् अस्तं गतः । तद् यदि स्वामी द्विगुणं शरीरं प्रयच्छति । ततः शङ्कुकर्णो ऽयं द्विगुण-वृद्ध्या स्व-शरीरं प्रयच्छति धर्म-प्रतिभुवा ।
सिंह आह-भोः, यद्य् एवं तत् सुन्दरतरम् । व्यवहारस्यास्य धर्मः प्रतिभूः क्रियताम् इति ।
अथ सिंह-वचनानन्तरं वृक-शृगालाभ्यां विदारितोभय-कुक्षिः शङ्कुकर्णः पञ्चत्वम् उपागतः ।
अथ वज्र-दंष्ट्रश् चतुरकम् आह-भोश् चतुरक ! यावद् अहं नदीं गत्वा स्नानं देवतार्चन-विधिं कृत्वागच्छामि, तावत् त्वयात्रापमत्तेन भाव्यम् इत्य् उक्त्वा नद्यां गतः ।
अथ तस्मिन् गते चतुरकश् चिन्तयामास-कथं ममैकाकिनो भोज्यो ऽयम् उष्ट्रो भविष्यति इति विचिन्त्य क्रव्यमुखम् आह-भोः क्रव्यमुख ! क्षुधालुर् भवान् । तद् यावद् असौ स्वामी नागच्छति, तावत् त्वम् अस्योष्ट्रस्य मांसं भक्षय । अहं त्वां स्वामिनो निर्दोषं प्रतिपादयिष्यामि ।
सो ऽपि तच् छ्रुत्वा यावत् किञ्चिन् मांसम् आस्वादयति तावच् चतुरकेणोक्तम्-भोः क्रव्यमुख ! समागच्छति स्वामी । तत् त्यक्त्वैनं दूरे तिष्ठ, येनास्य भक्षणं न विकल्पयति ।
तथानुष्ठिते सिंहः समायातो यावद् उष्ट्रं पश्यति तावद् रिक्तीकृत-हृदयो दासेरकः । ततो भृकुटिं कृत्वा परुषतरम् आह-अहो केनैष उष्ट्र उच्छिष्टतां नीतो, येन तम् अपि व्यापादयामि ।
एवम् अभिहिते क्रव्यमुखश् चतुरक-मुखम् अवलोकयति । अथ चतुरको विहस्योवाच-भोः ! माम् अनादृत्य पिशितं भक्षयित्वाधुना मन्-मुखम् अवलोकयसि । तद्-आस्वादयास्य दुर्णय-तरोः फलम् इति ।
तद् आकर्ण्य क्रव्यमुखो जीव-नाश-भयाद् दूर-देशं गतः । एतस्मिन्न् अन्तरे तेन मार्गेण दासेरक-सार्थो भाराक्रान्तः समायातः ।
तस्याग्रेसरोष्ट्रस्य कण्ठे महती घण्टा बद्धा । तस्याः शब्दं दुरतो ऽप्य् आकर्ण्य सिंहो जम्बुकम् आह-भद्र, ज्ञायतां किम् एष रौद्रः शब्दः श्रूयतेऽश्रुत-पूर्वः ?
तच् छ्रुत्वा, चतुरकः किञ्चिद् वनान्तरं गत्वा सत्वरम् अभ्युपेत्य प्रोवाच-स्वामिन् ! गम्यतां गम्यतां यदि शक्नोषि गन्तुम् ।
सो ऽब्रवीत्-भद्र, किम् एवं मां व्याकुलयसि । तत् कथय किम् एतत् ?
इति चतुरक आह-स्वामिन्, एष धर्मराजस् तवोपरि कुपितः । यद् अनेनाकाले दासेरको ऽयं मदीयो व्यापादितः । तत् सहस्र-गुणम् उष्ट्रम् अस्य सकाशाद् ग्रहीष्यामि । इति निश्चित्य बृहन्-मानम् आदायाग्रेसरस्योष्ट्रस्य ग्रीवायां घण्टां बद्ध्वा बध्य-दासेरक-सक्तान् अपि पितृ-पितामहान् आदाय वैर-निर्यातनार्थम् आयात एव ।
सिंहो ऽपि तच् छ्रुत्वा सर्वतो दूराद् एवावलोक्य मृतम् उष्ट्रं परित्यज्य प्राण-भयात् प्रणष्टः । चतुरको ऽपि शनैः शनैस् तस्योष्ट्रस्य मांसं भक्षयामास ।