चटका-काष्ठ-कूटेन मक्षिका-दर्दुरैस् तथा ।
महाजन-विरोधेन कुञ्जरः प्रलयं गतः ॥१.३६२॥
कस्मिंश्चिद् वनोद्देशे चटक-दम्पती तमाल-तरु-कृत-निलयौ प्रतिवसतः स्म । अथ तयोर् गच्छता कालेन सन्ततिर् अभवत् । अन्यस्मिन्न् अहनि प्रमत्तो वन-गजः कश्चित् तं तमाल-वृक्षं घर्मार्तश् छायार्थी समाश्रितः । ततो मदोत्कऋषात् तां तस्य शाखां चटकाश्रितां पुष्कराग्रेणाकृष्य बभञ्ज । तस्या भङ्गेन चटकाण्डानि सर्वाणि विशीर्णानि । आयुः-शेषतया च चटकौ कथम् अपि प्राणैर् न वियुक्तौ ।
अथ चटका साण्ड-भङ्गाभिभूता प्रलापान् कुर्वाणा न किञ्चित् सुखम् आससाद । अत्रान्तरे तस्यास् तान् प्रलापान् श्रुत्वा काष्ठ-कूटो नाम पक्षी तस्याः परम-सुहृत्-तद्-दुःख-दुःखितो ऽभ्येत्य ताम् उवाच-भगवति ! किं वृथा प्रलापेन । उक्तं च-
नष्टं मृतम् अतिक्रान्तं नानुशोचन्ति पण्डिताः । पण्डितानां च मूर्खाणां विशेषो ऽयं यतः स्मृतः ॥पन्च्_१.३६३॥
तथा च- अशोच्यानीह भूतानि यो मूढस् तानि शोचति । तद्-दुःखाल् लभते दुःखं द्वाव् अनर्थौ निषेवते ॥पन्च्_१.३६४॥
अन्यच् च- श्लेष्माश्रु बान्धवैर् मुक्तं प्रेतो भुङ्क्ते यतो ऽवशः । तस्मान् न रोदितव्यं हि क्रियाः कार्याश् च शक्तितः ॥पन्च्_१.३६५॥
चटका प्राह-अस्त्व् एतत् । परं दुष्ट-गजेन मदान् मम सन्तान-क्षयः कृतः । तद् यदि मम त्वं सुहृत्-सत्यस् तद् अस्य गजापसदस्य को ऽपि वधोपायश् चिन्त्यताम् । यस्यानुष्ठानेन मे सन्तति-नाश-दुःखम् अपसरति । उक्तं च-
आपदि येनोपकृतं येन च हसितं दशासु विषमासु । उपकृत्य तयोर् उभयोः पुनर् अपि जातं नरं मन्ये ॥पन्च्_१.३६६॥
काष्ठ-कूट आह-भगवति, सत्यम् अभिहितं भवत्या । उक्तं च-
स सुहृद्-व्यसने यः स्याद् अन्य-जात्य्-उद्भवो ऽपि सन् । वृद्धौ सर्वो ऽपि मित्रं स्यात् सर्वेषाम् एव देहिनाम् ॥पन्च्_१.३६७॥ स सुहृद्-व्यसने यः स्यात् स पुत्रो यस् तु भक्तिमान् । स भृत्यो यो विधेयज्ञः सा भार्या यत्र निर्वृतिः ॥पन्च्_१.३६८॥
तत् पश्य मे बुद्धि-प्रभावम् । परं ममापि सुहृद्-भूता वीणारवा नाम मक्षिकास्ति । तत् ताम् आहूयागच्छामि, येन स दुरात्मा दुष्ट-गजो बध्यते ।
अथासौ चटकया सह मक्षिकाम् आसाद्य प्रोवाच-भद्रे, ममेष्टेयं चटका केनचिद् दुष्ट-गजेन पराभूताण्ड-स्फोटनेन । तत् तस्य वधोपायम् अनुतिष्ठतो मे साहाय्यं कर्तुम् अर्हसि ।
मक्षिकाप्य् आह-भद्र ! किम् उच्यतेऽत्र विषये । उक्तं च-
पुनः प्रत्युपकाराय मित्राणां क्रियते प्रियम् । यत् पुनर् मित्र-मित्रस्य कार्यं मित्रैर् न किं कृतम् ॥पन्च्_१.३६९॥
सत्यम् एतत् । परं ममापि भेको मेघनादो नाम मित्रं तिष्ठति । तम् अप्य् आहूय यथोचितं कुर्मः । उक्तं च-
हितैः साधु-समाचारैः शास्त्रज्ञैर् मति-शालिभिः । कथञ्चिन् न विकल्पन्ते विद्वद्भिश् चिन्तिता नयाः ॥पन्च्_१.३७०॥
अथ ते त्रयो ऽपि गत्वा मेघनादस्याग्रे समस्तं वृत्तान्तं निवेद्य तस्थुः । अथ स प्रोवाच-कियन् मात्रो ऽसौ वराको गजो महाजनस्य कुपितस्याग्रे । तन् मदीयो मन्त्रः कर्तव्यः । मक्षिके, त्वं गत्वा मध्याह्न-समये तस्य मदोद्धतस्य गजस्य कर्णे वीणा-रव-सदृशं शब्दं कुरु । येन श्रवण-सुख-लालसो निमीलित-नयनो भवति । ततश् च काष्ठ-कूट-चञ्च्वा स्फोटित-नयनो ऽन्धीभूतस् तृषार्तो मम गर्त-तटाश्रितस्य सपरिकरस्य शब्दं श्रुत्वा जलाशयं मत्वा समभ्येति । ततो गर्तम् आसाद्य पतिष्यति पञ्चत्वं यास्यति चेति । एवं समवायः कर्तव्यो यथा वैर-साधनं भवति ।
अथ तथानुष्ठिते स मत्त-गजो मक्षिका-गेय-सुखान् निमीलित-नेत्रः काष्ठ-कूट-हृत-चक्षुर् मध्याह्न-समये भ्राम्यन् मण्डूक-शब्दानुसारी गच्छन् महतीं गर्तम् आसाद्य पतितो मृतश् च ।