अनागत-विधाता च प्रत्युत्पन्न-मतिस् तथा ।
द्वाव् एतौ सुखम् एधेते यद् भविष्यो विनश्यति ॥१.३४७॥
कस्मिंश्चिज् जलाशये ऽनागत-विधाता प्रत्युत्पन्न-मतिर् यद्-भविष्यश् चेति त्रयो मत्स्याः सन्ति । अथ कदाचित् तं जलाशयं दृष्ट्वा गच्छद्भिर् मत्स्यजीविभिर् उक्तम्– यद् अहो बहु-मत्स्यो ऽयं ह्रदः । कदाचिद् अपि नास्माभिर् अन्वेषितः । तद् अद्य तावद् आहार-वृत्तिः सञ्जाता । सन्ध्या-समयश् च संवृत्तः । ततः प्रभातेऽत्रागन्तव्यम् इति निश्चयः ।
अतस् तेषां तत्-कुलिश-पातोपमं वचः समाकर्ण्यानागत-विधाता सर्वान् मत्स्यान् आहूयेदम् ऊचे– अहो, श्रुतं भवद्भिर् यन् मत्स्य-जीविभिर् अभिहितम् । तद् रात्राव् अपि गम्यतां किञ्चिन् निकटं सरः । उक्तं च–
अशक्तैर् बलिनः शत्रोः कर्तव्यं प्रपलायनम् ।
संश्रितव्यो ऽथवा दुर्गो नान्या तेषां गतिर् भवेत् ॥१.३४८॥
तन् नूनं प्रभात-समये मत्स्य-जीविनो ऽत्र समागम्य मत्स्य-सङ्क्षयं करिष्यन्ति । एतन् मम मनसि वर्तते । तन् न युक्तं साम्प्रतं क्षणम् अप्यत्रावस्थातुम् । उक्तं च–
विद्यमाना गतिर् येषाम् अन्यत्रापि सुखावहा ।
ते न पश्यन्ति विद्वांसो देह-भङ्गं कुल-क्षयम् ॥१.३४९॥
तद् आकर्ण्य प्रत्युत्पन्न-मतिः प्राह– अहो सत्यम् अभिहितं भवता । ममाप्य् अभीष्टम् एतत् । तद् अन्यत्र गम्यताम् इति । उक्तं च–
पर-देश-भयात् भीता बहु-माया नपुंसकाः ।
स्वदेशे निधनं यान्ति काकाः कापुरुषा मृगाः ॥१.३५०॥
यस्यास्ति सर्वत्र गतिः स कस्मात्
स्व-देश-रागेण हि याति नाशम् ।
तातस्य कूपो ऽयम् इति ब्रुवाणाः
क्षार-जलं कापुरुषाः पिबन्ति ॥१.३५१॥
अथ तत् समाकर्ण्य प्रोच्चैर् विहस्य यद्-भविष्यः प्रोवाच– अहो, न भवद्भ्यां मन्त्रितं सम्यग् एतद् इति, यतः किं वाङ्-मात्रेणापि तेषां पितृ-पैतामहिकम् एतत् सरस् त्यक्तुं युज्यते । यद्य् आयुः-क्षयो ऽस्ति तद् अन्यत्र गतानाम् अपि मृत्युर् भविष्यत्येव । उक्तं च–
अरक्षितं तिष्ठति दैव-रक्षितं
सुरक्षितं दैव-हतं विनश्यति ।
जीवत्य् अनाथोऽपि वने विसर्जितः
कृत-प्रयत्नो ऽपि गृहे न जीवति ॥१.३५२॥
तद् अहं न यास्यामि भवद्भ्यां च यत् प्रतिभाति तत् कर्तव्यम् ।
अथ तस्य तं निश्चयं ज्ञात्वानागत-विधाता प्रत्युत्पन्न-मतिश् च निष्क्रानौ सह परिजनेन । अथ प्रभाते तैर् मत्स्य-जीविभिर् जालैस् तज् जलाशयम् आलोड्य यद् भविष्येण सह तत्-सरो निर्मत्स्यतां नीतम् ।