सुहृदां हित-कामानां
न करोतीह यो वचः ।
स कूर्म इव दुर्बुद्धिः
काष्ठाद् भ्रष्टो विनश्यति ॥१.३४४॥
अस्ति कस्मिंश्चिज् जलाशये कम्बुग्रीवो नाम कच्छपः । तस्य च सङ्कट-विकट-नाम्नी मित्रे हंस-जातीये परम-स्नेह-कोटिम् आश्रिते नित्यम् एव सरस्-तीरम् आसाद्य तेन सहानेक-देवर्षि-महर्षीणां कथाः कृत्वास्त-मय-वेलायां स्व-नीडा-संश्रयं कुरुतः । अथ गच्छता कालेनाऽवृष्टि-वशात् सरः शनैः शनैः शोषम् अगमत् । ततस् तद्-दुःख-दुःखितौ ताव् ऊचतुः- “भो मित्र ! जम्बाल+++(=पङ्क)+++-शेषम् एतत् सरः सञ्जातम् । तत् कथं भवान् भविष्यतीति व्याकुलत्वं नो हृदि वर्तते ।”
तच् छ्रुत्वा कम्बुग्रीव आह - “भोः, साम्प्रतं नास्त्य् अस्माकं जीवितव्यं जलाभावात् । तथाप्य् उपायश् चिन्त्यताम्” इति । उक्तं च–
त्याज्यं न धैर्यं विधुरेऽपि काले
धैर्यात् कदाचिद् गतिम् आप्नुयात् सः ।
यथा समुद्रेऽपि च पोत-भङ्गे
सांयात्रिको वाञ्छति तर्तुम् एव ॥१.३४५॥ +++(4)+++
अपरं च–
मित्रार्थे बान्धवार्थे च
बुद्धिमान् यतते सदा ।
जातास्व् आपत्सु यत्नेन
जगादेदं वचो मनुः ॥१.३४६॥
“तद् आनीयतां काचिद् दृढरज्जुर् लघु-काष्ठं वा । अन्विष्यतां च प्रभूत-जल-सनाथं सरः, येन मया मध्य-प्रदेशे दन्तैर् गृहीते सति युवां कोटिभागयोस् तत् काष्ठं मया सहितं सङ्गृह्य तत् सरो नयथः ।”
ताव् ऊचतुः - “भो मित्र ! एवं करिष्यावः । परं भवता मौन-व्रतेन स्थातव्यम् । नो चेत् तव काष्ठात् पातो भविष्यति ।”
तथानुष्ठिते गच्छता कम्बुग्रीवेणाऽधोभाग-व्यवस्थितं किंचित् पुरम् आलोकितम् । तत्र ये पौरास् ते तथा नीयमानं विलोक्य सविस्मयम् इदम् ऊचुः - “अहो चक्राकारं किम् अपि पक्षिभ्यां नीयते । पश्यत पश्यत ।”
अथ तेषां कोलाहलम् आकर्ण्य कम्बुग्रीव आह - “भोः ! किम् एष कोलाहलः ?” इति वक्तु-मना अर्धोक्ते पतितः पौरैः खण्डशः कृतश् च ।