०१-१२ टिट्टिभदम्पती-कथा

शत्रोर् विक्रमम् अज्ञात्वा वैरम् आरभते हि यः ।
स पराभवम् आप्नोति समुद्रष् टिट्टिभाद् यथा ॥१.३३७॥

कस्मिंश्चित् समुद्रैक-देशे टिट्टिभ-दम्पती वसतः । ततो गच्छति काल ऋतु-समयम् आसाद्य टिट्टिभी गर्भम् आधत्त । आसन्न-प्रसवा सती सा टिट्टिभम् ऊचे– भोः कान्त ! मम प्रसव-समयो वर्तते । तद् विचिन्त्यतां किम् अपि निरुपद्रवं स्थानं येन तत्राहम् अण्डक-मोक्षणं करोमि ।

टिट्टिभः प्राह– भद्रे रम्यो ऽयं समुद्र-प्रदेशः । तद् अत्रैव प्रसवः कार्यः ।

सा प्राह– अत्र पूर्णिमा-दिने समुद्र-वेला चरति । सा मत्त-गजेन्द्रान् अपि समाकर्षति । तद् दूरम् अन्यत्र किंचित् स्थानम् अन्विष्यताम् ।

तच् छ्रुत्वा विहस्य टिट्टिभ आह– भद्रे न युक्तम् उक्तं भवत्या । का मात्रा समुद्रस्य या मम दूषयिष्यति प्रसूतिम् । किं न श्रुतं भवत्या–

बद्ध्वाम्बर-चर-मार्गं व्यपगत-धूमं सदा महद् भयदम् ।
मन्द-मतिः कः प्रविशति हुताशनं स्वेच्छया मनुजः ॥१.३३८॥

मत्तेभ-कुम्भ-विदलन-कृत-श्रमं सुप्तम् अन्तक-प्रतिमम् ।
यम-लोक-दर्शनेच्छुः सिंहः बोधयति को नाम ॥१.३३९॥

को गत्वा यम-सदनं स्वयम् अन्तकम् आदिशत्य् अजात-भयः ।
प्राणान् अपहर मत्तो यदि शक्तिः काचिद् अस्ति तव ॥१.३४०॥

प्रालेय-लेश-मिश्रे मरुति प्राभातिके च वाति जडे ।
गुण-दोष-ज्ञः पुरुषो जलेन कः शीतम् अपनयति ॥१.३४१॥

तस्माद् विश्रब्धात्रैव गर्भं मुञ्च । उक्तं च–

यः पराभव-सन्त्रस्तः स्व-स्थानं सन्त्यजेन् नरः ।
तेन चेत् पुत्रिणी माता तद् वन्ध्या केन कथ्यते ॥१.३४२॥

तच् छ्रुत्वा समुद्रश् चिन्तयामास– अहो गर्वः पक्षि-कीटस्यास्य । अथ वा साध्व् इदम् उच्यते–

उत्क्षिप्य टिट्टिभः पादाव् आस्ते भङ्ग-भयाद् दिवः ।
स्व-चित्त-कल्पितो गर्वः कस्य नात्रापि विद्यते ॥१.३४३॥

तन् मयास्य प्रमाणं कुतूहलाद् अपि द्रष्टव्यम् । किं ममैषोऽण्डापहारे कृते करिष्यति । इति चिन्तयित्वा स्थितः । अथ प्रसवानन्तरं प्राणयात्रार्थं गतायाष् टिट्टिभ्याः समुद्रो वेलाव्याजेनाण्डान्य् अपजहार । अथायाता सा टिट्टिभी प्रसव-स्थानं शून्यम् अवलोक्य प्रलपन्ती टिट्टिभम् ऊचे– भो मूर्ख ! कथितम् आसीन् मया ते यत् समुद्र-वेलया अण्डानां विनाशो भविष्यति तद् दूरतरं व्रजावः परं मूढतयाहंकारम् आश्रित्य मम वचनं न करोषि । अथवा साध्व् इदम् उच्यते ।

सुहृदां हित-कामानां न करोतीह यो वचः ।
स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति ॥१.३४४॥

टिट्टिभ आह– कथम् एतत् ?

साब्रवीत्–

अतोऽहं ब्रवीमि- “सुहृदां हितकामानाम्” इति ।

तथा च–

अनागत-विधाता च प्रत्युत्पन्न-मतिस् तथा ।
द्वाव् एतौ सुखम् एधेते यद् भविष्यो विनश्यति ॥१.३४७॥

टिट्टिभ आह– कथम् एतत्?

साब्रवीत्–

अतोऽहं ब्रवीमि– “अनागत-विधाता” चेति ।

तच् छ्रुत्वा टिट्टिभ आह– भद्रे, किं मां यद्भविष्य-सदृशं सम्भावयसि । तत् पश्य मे बुद्धि-प्रभावं यावद् एनं दुष्ट-समुद्रं स्व-चञ्च्वा शोषयामि ।

टिट्टिभ्य् आह– अहो कस् ते समुद्रेण सह विग्रहः । तन् न युक्तम् अस्योपरि कोपं कर्तुम् । उक्तं च–

पुंसाम् असमर्थानाम् उपद्रवायात्मनो भवेत् कोपः ।
पिठरं ज्वलद्-अतिमात्रं निज-पार्श्वान् एव दहतितराम् ॥१.३५३॥

तथा च–

अविदित्वात्मनः शक्तिं परस्य न समुत्सुकः ।
गच्छन्न् अभिमुखो वह्नौ नाशं याति पतङ्गवत् ॥१.३५४॥

टिट्टिभ आह– प्रिये, मा मैवं वद । येषाम् उत्साह-शक्तिर् भवति ते स्वल्पा अपि गुरून् विक्रमन्ते । उक्तं च–

विशेषात् परिपूर्णस्य याति शत्रोर् अमर्षणः ।
आभिमुख्यं शशाङ्कस्य यथाद्यापि विधुन्तुदः ॥१.३५५॥

तथा च–

प्रमाणाद् अधिकस्यापि गण्ड-श्याम-मद-च्युतेः ।
पदं मूर्ध्नि समाधत्ते केसरी मत्त-दन्तिनः ॥१.३५६॥

तथा च–

बालस्यापि रवेः पादाः पतन्त्य् उपरि भूभृताम् ।
तेजसा सह-जातानां वयः कुत्रोपयुज्यते ॥१.३५७॥

हस्तौ स्थूलतरः स चाङ्कुश-वशः किं हस्ति-मात्रो ऽङ्कुशो
दीपे प्रज्वलिते प्रणश्यति तमः किं दीप-मात्रं तमः ।
वज्रेणापि हताः पतन्ति गिरयः किं वज्र-मात्रो गिरिस्
तेजो यस्य विराजते स बलवान् स्थूलेषु कः प्रत्ययः ॥१.३५८॥

तद् अनया चञ्च्वास्य सकलं तोयं शुष्क-स्थलतां नयामि ।

टिट्टिभ्य् आह– भोः कान्त ! यत्र जाह्नवी नव-नदी-शतानि गृहीत्वा नित्यम् एव प्रविशति, तथा सिन्धुश् च । तत् कथं त्वम् अष्टादश-नदी-शतैः पूर्यमाणं तं विप्रुष-वाहिन्या चञ्च्वा शोषयिष्यसि ? तत् किम् अश्रद्धो येनोक्तेन ।

टिट्टिभ आह– प्रिये !

अनिर्वेदः श्रियो मूलं चञ्चुर् मे लोह-सन्निभा ।
अहो-रात्राणि दीर्घाणि समुद्रः किं न शुष्यति ॥१.३५९॥

दुरधिगमः पर-भागो यावत् पुरुषेण पौरुषं न कृतम् ।
जयति तुलाम् अधिरूढो भास्वान् अपि जलद-पटलानि ॥१.३६०॥

टिट्टिभ्य् आह– यदि त्वयावश्यं समुद्रेण सह विग्रहानुष्ठानं कार्यम् । तद् अन्यान् अपि विहङ्गमान् आहूय सुहृज्-जन-सहित एवं समाचर । उक्तं च–

बहूनाम् अप्य् असाराणां सम्वायो हि दुर्जयः ।
तृणैर् आवेष्ट्यते रज्जुर् यथा नागो ऽपि बद्ध्यते ॥१.३६१॥

तथा च–

चटकाकाष्ठ-कूटेन मक्षिका-दर्दुरैस् तथा ।
महाजन-विरोधेन कुञ्जरः प्रलयं गतः ॥१.३६२॥

टिट्टिभ आह कथम् एतत् ?

सा प्राह–

अतो ऽहं ब्रवीमि-चटका काष्ठ-कूटेन इति ।

टिट्टिभ आह-भद्रे, एवं भवतु । सुहृद्-वर्ग-समुदायेन सह समुद्रं शोषयिष्यामि । इति निश्चित्य बक-सारस-मयूरादीन् समाहूय प्रोवाच-भोः पराभूतो ऽहं समुद्रेणाण्डकापहरेण । तच् चिन्त्यताम् अस्य शोषणोपायः ।

ते सम्मन्त्र्य प्रोचुः-अशक्ता वयं समुद्र-शोषणे । तत् किं वृथा प्रयासेन । उक्तं च-

अबलः प्रोन्नतं शत्रुं यो याति मद-मोहितः । युद्धार्थं स निवर्तेत शीर्ण-दन्तो यथा गजः ॥पन्च्_१.३७१॥

तद् अस्माकं स्वामी वैनतेयो ऽस्ति । तस्मै सर्वम् एतत्-परिभव-स्थानं निवेद्यताम्, येन स्वजाति-परिभव-कुपितो वैरानृण्यं गच्छति । अथवात्रावलेपं करिष्यति तथापि नास्ति वो दुःखम् । उक्तं च-

सुहृदि निरन्तर-रचिते गुणवति भृत्येऽनुवर्तिनि कलत्रे । स्वामिनि शक्ति-समेते निवेद्य दुःखं सुखी भवति ॥पन्च्_१.३७२॥

तद् यामो विनतेय-सकाशं यतो ऽसाव् अस्माकं स्वामी ।

तथानुष्ठिते सर्वे ते पक्षिणो विषण्ण-वदना बाष्प-पूरित-दृशो वैनतेय-सकाशम् आसाद्य करुण-स्वरेण फूत्कर्तुम् आरब्धाः-अहो ! अब्रह्मण्यम् अब्रह्मण्यम् ! अधुना सदाचारस्य टिट्टिभस्य भवति नाथे सति समुद्रेणाण्डान्य् अपहृतानि तत्-प्रनष्टम् अधुना पक्षि-कुलम् । अन्येऽपि स्वेच्छया समुद्रेण व्यापादिष्यन्ते । उक्तं च-

क्व कस्य कर्म संवीक्ष्य करोत्य् अन्यो ऽपि गर्हितम् । गतानुगतिको लोको न लोकः पारमार्थिकः ॥पन्च्_१.३७३॥ चाटु-तस्कर-दुर्वृत्तैस् तथा साहसिकादिभिः । पीड्यमानाः प्रजा रक्ष्याः कटूच्छद्मादिभिस् तथा ॥पन्च्_१.३७४॥ प्रजानां धर्म-षड्-भागो राज्ञो भवति रक्षितुः । अधर्माद् अपि षड्-भागो जायते यो न रक्षति ॥पन्च्_१.३७५॥ प्रजा-पीडन-सन्तापात् समुद्भूतो हुताशनः । राज्ञः श्रियं कुलं प्राणान् नादग्ध्वा विनिवर्तते ॥पन्च्_१.३७६॥ राजा बन्धुर् अबन्धूनां राजा चक्षुर् अचक्षुषाम् । राजा पिता च माता च सर्वेषां न्याय-वर्तिनाम् ॥पन्च्_१.३७७॥ फलार्थी पार्थिवो लोकान् पालयेद् यत्नम् आस्थितः । दान-मानादि-तोयेन मालाकारो ऽङ्कुरान् इव ॥पन्च्_१.३७८॥ यथा बीजाङ्कुरः सूक्ष्मः प्रत्नेनाभिरक्षितः । फल-प्रदो भवेत् काले तद्वल् लोकः सुरक्षितः ॥पन्च्_१.३७९॥ हिरण्य-धान्य-रत्नानि यानानि विविधानि च । तथान्यद् अपि यत् किञ्चित् प्रजाभ्यः स्यान् नृपस्य तत् ॥पन्च्_१.३८०॥

अथैवं गरुडः समाकर्ण्य तद्-दुःख-दुःखितः कोपाविष्टश् च व्यचिन्तयत्-अहो ! सत्यम् उक्तम् एतैः पक्षिभिः । तद् अद्य गत्वा तं समुद्रं शोषयामः ।

एवं चिन्तयतस् तस्य विष्णु-दूतः समागत्याह-भो गरुत्मन् ! भगवता नारायणेनाहं तव पार्श्वे प्रेषितः । देव-कार्याय भगवान् अमरावत्यां यास्यतीति । तत् सत्वरम् आगम्यताम् ।

तच् छ्रुत्वा गरुडः साभिमानं प्राह-भो दूत ! किं मया कुभृत्येन भगवान् करिष्यति । तद् गत्वा तं वद यद् अन्यो भृत्यो वाहनाय्समत्-स्थाने क्रियताम् । मदीयो नमस्कारो वाच्यो भगवतः । उक्तं च-

यो न वेत्ति गुणान् यस्य न तं सेवेत पण्डितः । न हि तस्मात् फलं किञ्चित् सुकृष्टाद् ऊषराद् इव ॥पन्च्_१.३८१॥

दूत आह-भो वैनतेय ! कदाचिद् अपि भगवन्तं प्रति त्वया नैतद् अभिहितम् ईदृक् । तत् कथय, किं ते भगवतापमान-स्थानं कृतम् ?

गरुड आह-भगवद्-आश्रय-भूतेन समुद्रेणास्मट् टिट्टिभाण्डान्य् अपहृतानि । तद् यदि निग्रहं न करोति तद् अहं भगवतो न भृत्य इत्य् एष निश्चयस् त्वया वाच्यः । तद् द्रुततरं गत्वा भवता भगवतः समीपे वक्तव्यम् ।

अथ दूत-मुखेन प्रणय-कुपितं वैनतेयं विज्ञाय सम्मान-पुरःसरं तम् आनयामि । उक्तं च-

भक्तं शक्तं कुलीनं च न भृत्यम् अवमानयेत् । पुत्रवल् लालयेन् नित्यं य इच्छेच् छ्रियम् आत्मनः ॥पन्च्_१.३८२॥

अन्यच् च- राजा तुष्टो ऽपि भृत्यानाम् अर्थ-मात्रं प्रयच्छति । ते तु सम्मानितास् तस्य प्राणैर् अप्य् उपकुर्वते ॥पन्च्_१.३८३॥

इत्य् एवं सम्प्रधार्य रुक्म-पुरे वैनतेय-सकाशं सत्वरम् अगमत् । वैनतेयो ऽपि गृहागतं भगवन्तम् अवलोक्य त्रपाधोमुखः प्रणम्योवाच-भगवन् ! त्वद्-आश्रयोन्मत्तेन समुद्रेण मम भृत्यास्याण्डान्य् अपहृत्य ममापमानो विहितः । परं भगवल्-लज्जया मया विलम्बितम् । नो चेद् एनम् अहं स्थलान्तरम् अद्यैव नयामि । यतः स्वामि-भयाच् छ्रवणो ऽपि प्रहारो न दीयते । उक्तं च-

येन स्याल् लघुता वाथ पीडा चित्ते प्रभोः क्वचित् । प्राण-त्यागेऽपि तत् कर्म न कुर्यात् कुल-सेवकः ॥पन्च्_१.३८४॥

तच् छ्रुत्वा भगवान् आह-भो वैनतेय ! सत्यम् अभिहितं भवता । उक्तं च-

भृत्यापराधजो दण्डः स्वामिनो जायते यतः । तेन लज्जापि तस्योत्था न भृत्यस्य तथा पुनः ॥पन्च्_१.३८५॥

तद् आगच्छ येनाण्डानि समुद्राद् आदाय टिट्टिभं सम्भावयावः । अमरावतीं च गच्छावः ।

तथानुष्ठिते समुद्रो भगवता निर्भर्स्याग्नेयं शरं सन्ध्यायाभिहितः-भो दुरात्मन् ! दीयन्तां टिट्टिभाण्डानि । नो चेत् स्थलतां त्वां नयामि ।

ततः समुद्रेण स-भयेन टिट्टिभाण्डानि तानि प्रदत्तानि । टिट्टिभेनापि भार्यायै समर्पितानि ।