बहवः पण्डिताः क्षुद्राः सर्वे मायोपजीविनः ।
कुर्युः कृत्यम् अकृत्यं वा उष्ट्रे काकादयो यथा ॥१.३११॥
अस्ति कस्मिंश्चिद् वनोद्देशे मदोत्कटो नाम सिंहः प्रतिवसति स्म । तस्य चानुचरा अन्ये द्वीपि-वायस-गोमायवः सन्ति । अथ कदाचित् तैर् इतस् ततो भ्रमद्भिः सार्थाद् भ्रष्टः क्रथनको नामोष्त्रो दृष्टः । अथ सिंह आह– अहो अपूर्वम् इदं सत्त्वम् । तज् ज्ञायतां किम् एतद् आरण्यकं ग्राम्यं वेति ।
तच् छ्रुत्वा वायस आह– भोः स्वामिन् ! ग्राम्योऽयम् उष्ट्र-नामा जीव-विशेषस् तव भोज्यः । तद् व्यापाद्यताम् ।
सिंह आह– नाहं गृहम् आगतं हन्मि । उक्तं च–
गृहं शत्रुम् अपि प्राप्तं विश्वस्तम् अकुतोभयम् ।
यो हन्यात् तस्य पापं स्याच् छतब्राह्मणघातजम् ॥१.३१२॥
तद् अभय-प्रदानं दत्त्वा मत्-सकाशम् आनीयतां येनास्यागम-कारणं पृच्छामि ।
अथासौ सर्वैर् अपि विश्वास्याभय-प्रदानं दत्त्वा मदोत्कट-सकाशम् आनीतः प्रणम्योपविष्टश् च । ततस् तस्य पृच्छतस् तेनात्म-वृत्तान्तः सार्थ-भ्रंश-समुद्भवो निवेदितः । ततः सिंहेनोक्तम्-भोः क्रथनक ! मा त्वं ग्रामं गत्वा भूयो ऽपि भारोद्वहन-कष्ट-भागी भूयाः । तद् अत्रैवारण्ये निर्विशङ्को मरकत-सदृशानि शष्पाग्राणि भक्षयन् मया सह सदैव वस । सो ऽपि तथेत्य् उक्त्वा तेषां मध्ये विचरन् न कुतोऽपि भयम् इति सुखेनास्ते ।
तथान्येद्युर् मदोत्कटस्य महा-गजेनारण्य-चारिणा सह युद्धम् अभवत् । ततस् तस्य दन्त-मुसल-प्रहारैर् व्यथा सञ्जाता । व्यथितः कथमपि प्राणैर् न वियुक्तः । अथ शरीरासामर्थ्यान् न कुत्रचित् पदम् अपि चलितुं शक्नोति । ते सर्वे काकादयोऽप्य् अप्रभुत्वेन क्षुधाविष्टाः परं दुःखं भेजुः ।
अथ तान् सिंहः प्राह–भोः ! अन्विष्यतां कुत्रचित् किंचित् सत्त्वं येनाहम् एताम् अपि दशां प्राप्तस् तद् धत्वा युष्मद् भोजनं सम्पादयामि ।
अथ ते चत्वारोऽपि भ्रमितुम् आरब्धा यावन् न किंचित् सत्त्वं पश्यन्ति तावद् वायस-शृगालौ परस्परं मन्त्रयतः । शृगाल आह– भो वायस ! किं प्रभूत-भ्रान्तेन । अयम् अस्माकं प्रभोः क्रथनको विश्वस्तस् तिष्ठति । तद् एनं हत्वा प्राण-यात्रां कुर्मः ।
वायस आह– युक्तम् उक्तं भवता । परं स्वामिना तस्याभय-प्रदानं दत्तम् आस्ते न वध्यो ऽयम् इति ।
शृगाल आह– भो वायस ! अहं स्वामिनं विज्ञाप्य तथा करिष्ये यथा स्वामी वधं करिष्यति । तत् तिष्ठन्तु भवन्तो ऽत्रैव, यावद् अहं गृहं गत्वा प्रभोर् आज्ञां गृहीत्वा चागच्छामि ।
एवम् अभिधाय सत्वरं सिंहम् उद्दिश्य प्रस्थितः । अथ सिंहम् आसाद्येदम् आह– स्वामिन् ! समस्तं वनं भ्रान्त्वा वयम् आगताः । न किंचित् सत्त्वम् आसादितम् । तत् किं कुर्मो वयम् । सम्प्रति वयं बुभुक्षया पदम् एकम् अपि प्रचलितुं न शक्नुमः । देवो ऽपि पथ्याशी वर्तते । तद् यदि देवादेशो भवति तत् क्रथनक-पिशितेनाद्य पथ्य-क्रिया क्रियते ।
अथ सिंहस् तस्य तद् दारुणं वचनम् आकर्ण्य सकोपम् इदम् आह– धिक् पापाधम ! यद्य् एवं भूयो ऽपि वदसि । ततस् त्वां तत्-क्षणम् एव वधिष्यामि । ततो मया तस्याभयं प्रदत्तम् । तत् कथं व्यापादयामि । उक्तं च–
न गो-प्रदानं न मही-प्रदानं
न चान्न-दानं हि तथा प्रधानम् ।
यथा वदन्तीह बुधाः प्रधानं
सर्व-प्रदानेष्व् अभय-प्रदानम् ॥१.३१३॥
तच् छ्रुत्वा शृगाल आह– स्वामिन् यद्य् अभयप्रदानं दत्त्वा वधः क्रियते तद् एष दोषो भवति । पुनर् यदि देवपादानां भक्त्या सात्मनो जीवितव्यं प्रयच्छति तन् न दोषः ।
ततो यदि स स्वयम् एवात्मानं वधाय नियोजयति तद् वध्यो ऽन्यथास्माकं मध्याद् एकतमो वध्य इति यतो देवपादाः पथ्याशिनः क्षुन्निरोधाद् अन्त्यां दशां यास्यन्ति ।
तत् किम् एतैः प्राणैर् अस्माकं ये स्वाम्यर्थे न यास्यन्ति । अपरं पश्चाद् अप्य् अस्माभिर् वह्नि-प्रवेशः कार्यो यदि स्वामि-पादानां किंचिद् अनिष्टं भविष्यति । उक्तं च–
यस्मिन् कुले यः पुरुषः प्रधानः
स सर्व-यत्नैः परिरक्षणीयः ।
तस्मिन् विनष्टे स्व-कुलं विनष्टं
न नाभि-भङ्गे ह्य् अरका वहन्ति ॥१.३१४॥ +++(सम्पादकटिप्पनी- पुस्तके ३,४ पादयोः भेदः ।)+++
- तस्मिन् विनष्टे कुलसारभूते न नाभिषङ्गे ह्यरयो वहन्ति ॥३१४॥
तद् आकर्ण्य मदोत्कट आह– यद्य् एवं तत् कुरुष्व यद् रोचते ।
तच् छ्रुत्वा स सत्वरं गत्वा तान् आह–भोः ! स्वामिनो महत्य् अवस्था वर्तते । तत् किं पर्यटितेन ? तेन विना कोऽत्रास्मान् रक्षयिष्यति ? तद् गत्वा तस्य क्षुद्-रोगात् पर-लोकं प्रस्थितस्यात्म-शरीर-दानं कुर्मो येन स्वामि-प्रसादस्य अनृणतां गच्छामः । उक्तं च–
आपदं प्राप्नुयात् स्वामी यस्य भृत्यस्य पश्यतः ।
प्राणेषु विद्यमानेषु स भृत्यो नरकं व्रजेत् ॥१.३१५॥
तद्-अनन्तरं ते सर्वे बाष्प-पूरित-दृशो मदोत्कटं प्रणम्योपविष्टाः । तान् दृष्ट्वा मदोत्कट आह– भोः ! प्राप्तं दृष्टं वा किंचित् सत्त्वम् ।
अथ तेषां मध्यात् काकः प्रोवाच– स्वामिन् ! वयं तावत् सर्वत्र पर्यटिताः परं न किंचित् सत्त्वम् आसादितं दृष्टं वा । तद् अद्य मां भक्षयित्वा प्राणान् धारयतु स्वामी, येन देवस्याश्वासनं भवति मम पुनः स्वर्ग-प्राप्तिर् इति । उक्तं च–
स्वाम्य्-अर्थे यस् त्यजेत् प्राणान् भृत्यो भक्ति-समन्वितः ।
परं स पदम् आप्नोति जरा-मरण-वर्जितम् ॥१.३१६॥
तच् छ्रुत्वा शृगाल आह– भोः ! स्वल्प-कायो भवान् । तव भक्षणात् स्वामिनस् तावत् प्राण-यात्रा न भवति । अपरो दोषश् च तावत् समुत्पद्यते । उक्तं च–
काक-मांसं तथोच्छिष्टं स्तोकं तद् अपि दुर्बलम् ।
भक्षितेनापि किं तेन येन तृप्तिर् न जायते ॥१.३१७॥
तद् दर्षिता स्वामि-भक्तिर् भवता गतं च आनृण्यं भर्तृ-पिण्डस्य प्राप्तश् चोभय-लोके साधु-वादः । तद् अपसराग्रतः । अहं स्वामिनं विज्ञापयामि । तथानुष्ठिते शृगालः सादरं प्रणम्योपविष्टः प्राह– स्वामिन् ! मां भक्षयित्वाद्य प्राण-यात्रां विधाय ममोभय-लोक-प्राप्तिं कुरु । उक्तं च–
स्वाम्य् आयत्ताः सदा प्राणा भृत्यानाम् अर्जिता धनैः ।
यतस् ततो न दोषोऽस्ति तेषां ग्रहण-सम्भवः ॥१.३१८॥
अथ तच् छ्रुत्वा द्वीप्य् आह–भोः साधूक्तं भवता पुनर् भवान् अपि स्वल्प-कायः स्व-जातिश् च नखायुधत्वाद् अभक्ष्य एव । उक्तं च–
नाभक्ष्यं भक्षयेत् प्राज्ञः प्राणैः कण्ठ-गतैर् अपि ।
विशेषात् तद् अपि स्तोकं लोक-द्वय-विनाशकम् ॥१.३१९॥
तद् दर्शितं त्वयात्मनः कौलीन्यम् । अथ वा साधु चेदम् उच्यते–
एतद्-अर्थं कुलीनानां नृपाः कुर्वन्ति सङ्ग्रहम् ।
आदि-मध्यावसानेषु न ते गच्छन्ति विक्रियाम् ॥१.३२०॥
तद् अपसराग्रतः, येनाहं स्वामिनं विज्ञापयामि । तथानुष्ठिते द्वीपी प्रणम्य मदोत्कटम् आह– स्वामिन् ! क्रियताम् अद्य मम प्राणैः प्राण-यात्रा । दीयताम् अक्षयो वासः स्वर्गे । मम विस्तार्यतां क्षिति-तले प्रभूतं यशः । तन् नात्र विस्मयः कार्यः । उक्तं च–
मृतानां स्वामिनः कार्ये भृत्यानाम् अनुवर्तिनाम् ।
भवेत् स्वर्गे अक्षयो वासः कीर्तिश् च धरणी-तले ॥१.३२१॥
तच् छ्रुत्वा क्रथनकश् चिन्तयामास-एतैस् तावत् सर्वैर् अपि शोभा-वाक्यान्य् उक्तानि न चैको ऽपि स्वामिना विनाशितः । तद् अहम् अपि प्राप्त-कालं वक्ष्यामि चित्रकं येन मद्-वचनम् एते त्रयो ऽपि समर्थयन्ति । इति निश्चित्य प्रोवाच– भोः सत्यम् उक्तं भवता परं भवान् अपि नखायुधः । तत् कथं भवन्तं स्वामी भक्षयति । उक्तं च–
मनसापि स्वजात्यानां योऽनिष्टानि प्रचिन्तयेत् ।
भवन्ति तस्य तान्य् एव इह लोके परत्र च ॥१.३२२॥
तद् अपसराग्रतः, येनाहं स्वामिनं विज्ञापयामि । तथानुष्ठिते क्रथनको ऽग्रे स्थित्वा प्रणम्योवाच–स्वामिन् ! एतेऽभक्ष्यास् तव तन् मम प्राणैः प्राण-यात्रा विधीयतां येन ममोभय-लोक-प्राप्तिर् भवति । उक्तं च–
न यज्वानोऽपि गच्छन्ति तां गतिं नैव योगिनः ।
यां यान्ति प्रोज्झित-प्राणाः स्वाम्य्-अर्थे सेवकोत्तमाः ॥१.३२३॥
एवम् अभिहिते ताभ्यां शृगाल-चित्रकाभ्यां विदारितोभय-कुक्षिः क्रथनकः प्राणान् अत्याक्षीत् । ततश् च तैः क्षुद्र-पण्डितैः सर्वैर् भक्षितः ।