०१-१० चण्डरवः शृगालः

त्यक्ताश् चाभ्यन्तरा येन बाह्याश् चाभ्यन्तरीकृताः ।
स एव मृत्युम् आप्नोति यथा राजा ककुद्-द्रुमः ॥१.२८२॥

अस्ति कस्मिंश्चिद् वनोद्देशे चण्डरवो नाम शृगालः प्रतिवसति स्म । स कदाचित् क्षुधाविष्टो जिह्वा-लौल्यान् नगर-मध्ये प्रविष्टः । अथ तं नगर-वासिनः सारमेया अवलोक्य सर्वतः शब्दायमानाः परिधाव्य तीक्ष्ण-दंष्टृ-आग्रैर् भक्षितुम् आरब्धाः । सोऽपि तैर् भक्ष्यमाणः प्राण-भयात् प्रत्यासन्न-रजक-गृहं प्रविष्टः । तत्र नीली-रस-परिपूर्णं महा-भाण्डं सज्जीकृतम् आसीत् । तत्र सारमेयैर् आक्रान्तो भाण्ड-मध्ये पतितः । अथ यावन् निष्क्रान्तस् तावन् नीली-वर्णः सञ्जातः । तत्रापरे सारमेयास् तं शृगालम् अजानन्तो यथाभीष्ट-दिशं जग्मुः । चण्डरवो ऽपि दूरतरं प्रदेशम् आसाद्य काननाभिमुखं प्रतस्थे । न च नील-वर्णेन कदाचिन् निज-रङ्गस् त्यज्यते । उक्तं च–

वज्र-लेपस्य मूर्खस्य नारीणां कर्कटस्य च ।
एको ग्रहस् तु मीनानां नीलीमद्यपयोर् यथा ॥१.२८३॥

अथ तं हर-गल-गरल-तमाल-सम-प्रभम् अपूर्वं सत्त्वम् अवलोक्य सर्वे सिंह-व्याघ्र-द्वीपि-वृक-प्रभृतयो ऽरण्य-निवासिनो भय-व्याकुलित-चित्ताः समन्तात् पलायन-क्रियां कुर्वन्ति । कथयन्ति च-न ज्ञायते ऽस्य कीदृग् विचेष्टितं पौरुषं च । तद् दूरतरं गच्छामः । उक्तं च–

न यस्य चेष्टितं विद्यान् न कुलं न पराक्रमम् ।
न तस्य विश्वसेत् प्राज्ञो यदीच्छेच् छ्रियम् आत्मनः ॥१.२८४॥

चण्डरवो ऽपि भय-व्याकुलितान् विज्ञायेदम् आह–भो भोः श्वापदाः ! किं यूयं मां दृष्ट्वैव संत्रस्ता व्रजथ । तन् न भेतव्यम् । अहं ब्रह्मणाद्य स्वयम् एव सृष्ट्वाभिहितः-यच् छ्वापदानां कश्चिद् राजा नास्ति, तत् त्वं मयाद्य सर्व-श्वापद-प्रभुत्वेऽभिषिक्तः ककुद्-द्रुमाभिधः । ततो गत्वा क्षिति-तले तान् सर्वान् परिपालयेति । ततोऽहम् अत्रागतः । तन् मम च्छत्र-च्छायायां सर्वैर् अपि श्वापदैर् वर्तितव्यम् । अहं ककुद्-द्रुमो नाम राजा त्रैलोक्येऽपि सञ्जातः ।

तच् छ्रुत्वा सिंह-व्याघ्र-पुरः-सराः श्वापदाः स्वामिन् प्रभो समादिशेति वदन्तस् तं परिवव्रुः । अथ तेन सिंहस्यामात्य-पदवी प्रदत्ता । व्याघ्रस्य शय्या-पालकत्वम् । द्वीपिनस् ताम्बूलाधिकारः । वृकस्य द्वार-पालकत्वम् । ये चात्मीयाः शृगालास् तैः सहालाप-मात्रम् अपि न करोति । शृगालाः सर्वेऽप्य् अधर्म-चन्द्रं दत्त्वा निःसारिताः । एवं तस्य राज्य-क्रिययां वर्तमानस्य ते सिंहादयो मृगान् व्यापाद्य तत्-पुरतः प्रक्षिपन्ति । सोऽपि प्रभु-धर्मेण सर्वेषां तान् प्रविभज्य प्रयच्छति ।

एवं गच्छति काले कदाचित् तेन समागतेन दूर-देशे शब्दायमानस्य शृगाल-वृन्दस्य कोलाहलो ऽश्रावि । तं शब्दं श्रुत्वा पुलकित-तनुर् आनन्दाश्रु-पूर्ण-नयन उत्थाय तार-स्वरेण विरोतुम् आरब्धवान् । अथ ते सिंहादयस् तं तार-स्वरम् आकर्ण्य शृगालोऽयम् इति मत्वा लज्जायाधो-मुखाः क्षणं स्थित्वा प्रोचुः-भोः ! वाहिता वयम् अनेन क्षुद्र-शृगालेन । तद् वध्यताम् इति ।

सोऽपि तद् आकर्ण्य पलायितुम् इच्छंस् तत्र स्थान एव सिंहादिभिः खण्डशः कृतो मृतश् च ।