न ह्य् अविज्ञात-शीलस्य प्रदातव्यः प्रतिश्रयः ।
मत् कुणस्य च दोषेण हता मन्द-विसर्पिणी ॥१.२७५॥
अस्ति कस्यचिन् महीपतेर् मनोरमं शयन-स्थानम् । तत्र श्वेततर-पट-युगल-मध्य-संस्थिता मन्द-विसर्पिणी यूका प्रतिवसति स्म । सा च तस्य महीपते रक्तम् आस्वादयन्ती सुखेन कालं नयमाना तिष्ठति । अन्येद्युश् च तत्र शयने क्वचिद् भ्राम्यन्न् अग्निमुखो नाम मत्कुणः समायातः । अथ तं दृष्ट्वा सा विषण्ण-वदना प्रोवाच । भो ऽग्निमुख कुतस् त्वम् अत्रानुचित-स्थाने समायातः । तद् यावन् न कश्चिद् वेत्ति तावच् छीघ्रं गम्यताम् इति ।
स आह– भगवति गृहागतस्यासाधोर् अपि नैतद् युज्यते वक्तुम् । उक्तं च–
एह्य् आगच्छ समाविशासनम् इदं कस्माच् चिराद् दृश्यसे
का वार्तेति सुदुर्बलो ऽसि कुशलं प्रीतो ऽस्मि ते दर्शनात् ।
एवं ये समुपागतान् प्रणयिनः प्रत्यालपन्त्य् आदरात् तेषां युक्तम् अशङ्कितेन मनसा हर्म्याणि गन्तुं सदा ॥१.२७६॥
- एह्यागच्छ समाविशासनमिदं कस्माच्चिराद्दृश्यसे
का वार्तान्वतिदुर्बलोऽसि कुशलं प्रीतोऽस्मि ते दर्शनात् ।
एवं नीचजनेऽपि युज्यति गृहं प्राप्ते सतां सर्वदा
धर्मोऽयं गृहमेधिनां निगदितः स्मार्त्तैर्लघुः स्वर्गदः ॥१.२७६॥ +++(सम्पादकटिप्पनी - पुस्तके २७६तमं पद्यम् इत्थं वर्तते ।)+++
अपरं मयानेक-मानुषाणाम् अनेक-विधानि रुधिराण्य् आस्वादितान्य् आहारदोषात् कटु-तिक्त-कषायाम्ल-रसास्वादानि न च कदाचिन् मधुर-रक्तं समास्वादितम् । तद् यदि त्वं प्रसादं करोषि तद् अस्य नृपतेर् विविध-व्यञ्जनान्न-पान-चोष्य-लेह्य-स्वाद्व्-आहार-वशाद् अस्य शरीरे यन् मिष्टं रक्तं संजातं तद्-आस्वादनेन सौख्यं सम्पादयामि जिह्वाया इति ।
उक्तं च–
रङ्कस्य नृपतेर् वापि जिह्वा-सौख्यं समं स्मृतम् ।
तन्-मात्रं च स्मृतं सारं तद्-अर्थं यतते जनः ॥१.२७७॥
यद्य् एवं न भवेल् लोके कर्म जिह्वा-प्रतुष्टिदम् ।
तन् न भृत्यो भवेत् कश्चित् कस्यचिद् वशगो ऽथ वा ॥१.२७८॥
यद् असत्यं वदेन् मर्त्यो यद् वासेव्यं च सेवते ।
यद् गच्छति विदेशं च तत् सर्वम् उदरार्थतः ॥१.२७९॥
तन् मया गृहागतेन बुभुक्षया पीड्यमानेनापि त्वत् सकाशाद् भोजनम् अर्थनीयम् । तन् न त्वयैकाकिन्यास्य भूपतेः रक्त-भोजनं कर्तुं युज्यते ।
तच् छ्रुत्वा मन्दविसर्पिण्य् आह– भो मत्कुण ! अस्य नृपतेर् निद्रा-वशं गतस्य रक्तम् आस्वादयामि ।
पुनस् त्वम् अग्नि-मुखश् चपलश् च-तद् यदि मया सह रक्त-पानं करोषि तत् तिष्ठ । अभीष्टतर-रक्तम् आस्वादय ।
सोऽब्रवीत्– भगवत्य् एवं करिष्यामि । यावत् त्वं नास्वादयसि प्रथमं नृप-रक्तं तावन् मम देव-गुरु-कृतः शपथः स्याद् यदि तद् आस्वादयामि ।
एवं तयोः परस्परं वदतोः स राजा तच्-छयनम् आसाद्य प्रसुप्तः । अथासौ मत्कुणो जिह्वा-लौल्योत्कृष्टौत्सुक्याज् जाग्रतम् अपि तं मही-पतिम् अदशत् । अथ वा साध्व् इदम् उच्यते ।
स्वभावो नोपदेशेन शक्यते कर्तुम् अन्यथा ।
सुतप्तम् अपि पानीयं पुनर् गच्छति शीतताम् ॥१.२८०॥
यदि स्याच् छीतलो वह्निः शीतांशुर् दहनात्मकः ।
न स्वभावोऽत्र मर्त्यानां शक्यते कर्तुम् अन्यथा ॥१.२८१॥
अथासौ महीपतिः सूच्य्-अग्र-विद्ध इव तच्-छयनं त्यक्त्वा तत्-क्षणाद् एवोत्थितः । अहो ज्ञायताम् अत्र प्रच्छादन-पटे मत्कुणो यूका वा नूनं तिष्ठति येनाहं दष्ट इति । अथ ये कञ्चुकिनस् तत्र स्थितास् ते सत्वरं प्रच्छादन-पटं गृहीत्वा सूक्ष्म-दृष्ट्या वीक्षां चक्रुः । अत्रान्तरे स मत्कुणश् चापल्यात् खट्वान्तं प्रविष्टः सा मन्द-विसर्पिण्य् अपि वस्त्र-सन्ध्य्-अन्तर्-गता तैर् दृष्टा व्यापादिता च ।