०१-०८ भासुरकाख्य-सिंह-कथा

यस्य बुद्धिर् बलं तस्य निर्बुद्धेस् तु कुतो बलम् ।
वने सिंहो मदोन्मत्तः शशकेन निपातितः ॥१.२३७॥

कस्मिंश्चिद् वने भासुरको नाम सिंहः प्रतिवसति स्म । अथासौ वीर्यातिरेकान् नित्यम् एवानेकान् मृग-शशकादीन् व्यापादयन् नोपरराम । अथान्येद्युस् तद् वनजाः सर्वे सारङ्ग-वराह-महिष-शशकादयो मिलित्वा तम् अभ्युपेत्य प्रोचुःस्वामिन् ! किम् अनेन सकल-मृग-वधेन नित्यम् एव, यतस् तवैकेनापि मृगेण तृप्तिर् भवति तत् क्रियताम् अस्माभिः सह समय-धर्मः । अद्य-प्रभृति तवात्रोपविष्टस्य जाति-क्रमेण प्रतिदिनम् एको मृगो भक्षणार्थं समेष्यति । एवं कृते तव तावत् प्राण-यात्रा क्लेशं विनापि भविष्यति । अस्माकं च पुनः सर्वोच्छेदनं न स्यात् । तद् एष राज-धर्मोऽनुष्ठीयताम् । उक्तं च–

शनैः शनैश् च यो राज्यम् उपभुङ्क्ते यथा-बलम् ।
रसायनम् इव प्राज्ञः स पुष्टिं परमां व्रजेत् ॥१.२३८॥

विधिना मन्त्रयुक्तेन रूक्षापि मथितापि च ।
प्रयच्छति फलं भूमिर् अरणीव हुताशनम् ॥१.२३९॥

प्रजानां पालनं शस्यं स्वर्ग-कोशस्य वर्धनम् ।
पीडनं धर्मनाशाय पापायायशसे स्थितम् ॥१.२४०॥

गोपालेन प्रजा-धेनोर् वित्त-दुग्धं शनैः शनैः ।
पालनात् पोषणाद् ग्राह्यं न्याय्यां वृत्तिं समाचरेत् ॥१.२४१॥

अजाम् इव प्रजां मोहाद् यो हन्यात् पृथिवी-पतिम् ।
तस्यैका जायते तृप्तिर् न द्वितीया कथञ्चन ॥१.२४२॥

फलार्थी नृपतिर् लोकान् पालयेद् यत्नम् आस्थितः ।
दान-मानादि-तोयेन मालाकारो ऽङ्कुरान् इव ॥१.२४३॥

नृप-दीपो धनस्नेहं प्रजाभ्यः संहरन्न् अपि ।
आन्तरस्थैर् गुणैः शुभ्रैर् लक्ष्यते नैव केनचित् ॥१.२४४॥

यथा गौर् दुह्यते काले पाल्यते च तथा प्रजाः ।
सिच्यते चीयते चैव लता पुष्प-फल-प्रदा ॥१.२४५॥

यथा बीजाङ्कुरः सूक्ष्मः प्रयत्नेनाभिरक्षितः ।
फल-प्रदो भवेत् काले तद्वल् लोकः सुरक्षितः ॥१.२४६॥

हिरण्य-धान्य-रत्नानि यानानि विविधानि च ।
तथान्यद् अपि यत् किञ्चित् प्रजाभ्यः स्यान् महीपतेः ॥१.२४७॥

लोकानुग्रह-कर्तारः प्रवर्धन्ते नरेश्वराः ।
लोकानां सङ्क्षयाच् चैव क्षयं यान्ति न संशयः ॥१.२४८॥

अथ तेषां तद्-वचनम् आकर्ण्य भासुरक आह– अहो सत्यम् अभिहितं भवद्भिः । परं यदि ममोपविष्टस्यात्र नित्यम् एव नैकः श्वापदः समागमिष्यति । तन् नूनं सर्वान् अपि भक्षयिष्यामि । अथ ते तथैव प्रतिज्ञाय निर्वृति-भाजस् तत्रैव वने निर्भयाः पर्यटन्ति । एकश् च प्रतिदिनं क्रमेण याति । वृद्धो वा, वैराग्य-युक्तो वा, शोक-ग्रस्तो वा, पुत्र-कलत्र-नाश-भीतो वा, तेषां मध्यात् तस्य भोजनार्थं मध्याह्न-समय उपतिष्ठते ।

अथ कदाचिज् जाति-क्रमाच् छशकस्यावसरः समायातः । स समस्तमृगैः प्रेरितो ऽनिच्छन्न् अपि मन्दं मन्दं गत्वा तस्य वधोपायं चिन्तयन् वेलातिक्रमं कृत्वाव्याकुलित-हृदयो यावद् गच्छति तावन्-मार्गे गच्छता कूपः सन्दृष्टः । यावत् कूपोपरि पाति तावत् कूप-मध्य आत्मनः प्रतिबिम्बं ददर्श । दृष्ट्वा च तेन हृदये चिन्तितम्– यद् भाव्य उपायो ऽस्ति । अहं भासुरकं प्रकोप्य स्व-बुद्ध्यास्मिन् कूपे पातयिष्यामि ।

अथासौ दिन-शेषे भासुरक-समीपं प्राप्तः । सिंहोऽपि वेलातिक्रमेण क्षुत्क्षाम-कण्ठः कोपाविष्टः सृक्कणी परिलेलिहद् व्यचिन्तयत्– अहो ! प्रतार्-आहाराय निःसत्त्वं वनं मया कर्तव्यम् । एवं चिन्तयतस् तस्य शशको मन्दं मन्दं गत्वा प्रणम्य तस्याग्रे स्थितः । अथ तं प्रज्वलितात्मा भासुरको भर्त्सयन्न आह– रे शशकाधम एकस् तावत् त्वं लघुः प्राप्तो ऽपरतो वेलातिक्रमेण । तद् अस्माद् अपराधात् त्वां निपात्य प्रातः सकलान्य् अपि मृग-कुलान्य् उच्छेदयिष्यामि ।

अथ शशकः स-विनयं प्रोवाच– स्वामिन् ! नापराधो मम । न च सत्त्वानाम् । तच् छ्य्रूतां कारणम् ।

सिंह आह– सत्वरं निवेदय यावन् मम दंष्ट्रान्तर्गतो न भवान् भविष्यति इति ।

शशक आह– स्वामिन्, समस्त-मृगैर् अद्य जाति-क्रमेण मम लघुतरस्य प्रस्तावं विज्ञाय ततोऽहं पञ्च-शशकैः समं प्रेषितः । ततश् चाहम् आगच्छेन्न् अन्तराले महता केनचिद् अपरेण सिंहेन विवरान् निर्गत्याभिहितः-अभीष्ट-देवतां स्मरत ।

ततो मयाभिहितम्-वयं स्वामिनोन् भासुरक-सिंहस्य सकाशम् आहारार्थं समय-धर्मेण गच्छामः ।

ततस् तेनाभिहितम्-यद्य् एवं तर्हि मदीयम् एतद्-वनम् । मया सह समय-धर्मेण समस्तैर् अपि श्वापदैर् वर्तितव्यम् । चोर-रूपी स भासुरकः । अथ यदि सोऽत्र राजा । विश्वा-सस्थाने चतुरः शशकान् अत्र धृत्वा तम् आहूय द्रुततरम् आगच्छ । येन यः कश्चिद् आवयोर् मध्यात् पराक्रमेण राजा भविष्यति स सर्वान् एतान् भक्षयिष्यति इति ।

ततोऽहं तेनादिष्टः स्वामि-सकाशमभ्यागतः । एतद् वेला व्यतिक्रम-कारणम् । तद् अत्र स्वामी प्रमाणम् ।

तच् छ्रुत्वा भासुरक आह– भद्र, यद्येवं तत्सत्वरं दर्शय मे तं चौर-सिंहः येनाहं मृग-कोपं तस्योपरि क्षिप्त्वा स्वस्थो भवामि । उक्तं च–

भूमिर् मित्रं हिरण्यं च विग्रहस्य फल-त्रयम् ।
नास्त्य् एकमपि यद्य् एषां न तं कुर्यात् कथञ्चन ॥१.२४९॥

यत्र न स्यात् फलं भूरि यत्र च स्यात् पराभवः ।
न तत्र मतिमान् युद्धं समुत्पाद्य समाचरेत् ॥१.२५०॥

शशक आह– स्वामिन् ! सत्यम् इदम् । स्व-भूमि-हेतोः परिभवाच् च युध्यन्ते क्षत्रियाः । परं स दुर्गाश्रयः दुर्गान् निष्क्रम्य वयं तेन विष्कम्भिताः । ततो दुर्गस्थो दुःसध्यो भवति रिपुः । उक्तं च–

न गजानां सहस्रेण न च लक्षेण वाजिनाम् ।
यत् कृत्यं सिध्यति राज्ञां दुर्गेणैकेन विग्रहे ॥१.२५१॥

शतम् एकोऽपि संधत्ते प्राकारस्थो धनुर्धरः ।
तस्माद् दुर्गं प्रशंसन्ति नीतिशास्त्रविचक्षणाः ॥१.२५२॥

पुरा गुरोः समादेशाद्द् हिरण्यकशिपोर् भयात् ।
शक्रेण विहितं दुर्गं प्रभावाद् विश्वकर्मणः ॥१.२५३॥

तेनापि च वरो दत्तो यस्य दुर्गं स भूपतिः ।
विजयी स्यात् ततो भूमौ दुर्गाणि स्युः सहस्रशः ॥१.२५४॥

दंष्ट्राविरहितो नागो मदहीनो यथा गजः ।
सर्वेषां जायते वश्यो दुर्गहीनस् तथा नृपः ॥१.२५५॥

तच् छ्रुत्वा भासुरक आह । भद्र दुर्गस्थम् अपि दर्शय तं चौर-सिंहं येन व्यापादयामि । उक्तं च–

जात-मात्रं न यः शत्रुं रोगं च प्रशमं नयेत् ।
महाबलोऽपि तेनैव वृद्धिं प्राप्य स हन्यते ॥१.२५६॥

तथा च–

उत्तिष्ठमानस् तु परो नोपेक्ष्यः पथ्यमि इच्छता ।
समौ हि शिष्टैर् आम्नातौ वर्त्स्यन्ताव् आमयः स च ॥१.२५७॥

अपि च–

उपेक्षितः क्षीण-बलोऽपि शत्रुः
प्रमाद-दोषात् पुरुषैर् मदान्धैः ।
साध्यो ऽपि भूत्वा प्रथमं ततो ऽसाव्
असाध्यतां व्याधिर् इव प्रयाति ॥१.२५८॥

तथा च–

आत्मनः शक्तिम् उद्वीक्ष्य मनोत्साहं च यो व्रजेत् ।
बहून् हन्ति स एकोऽपि क्षत्रियान् भार्गवो यथा ॥१.२५९॥

शशक आह– अस्त्य् एतत् । तथापि बलवान् स मया दृष्टः । तन् न युज्यते स्वामिनस् तस्य तस्य सामर्थ्यम् अविदित्वा गन्तुम् । उक्तं च–

अविदित्वात्मनः शक्तिं परस्य च समुत्सुकः ।
गच्छन्न् अभिमुखो वह्नौ नाशं याति पतङ्गवत् ॥१.२६०॥

यो बलात् प्रोन्नतं याति निहन्तुं सबलोऽप्य् अरिम् ।
विमदः स निवर्तेत शीर्ण-दन्तो गजो यथा ॥१.२६१॥

भासुरक आह– भोः किं तवानेन व्यापारेण । दर्शय मे तं दुर्गस्थम् अपि ।

अथ शशक आह– यद्य् एवं तर्ह्य् आगच्छतु स्वामी । एवम् उक्त्वाग्रे व्यवस्थितः ।

ततश् च तेनागच्छता यः कूपो दृष्टोऽभूत् तम् एव कूपम् आसाद्य भासुरकम् आह– स्वामिन् कस् ते प्रतापं सोढुं समर्थः ? त्वां दृष्ट्वा दूरतोऽपि चौर-सिंहः प्रविष्टः स्वं दुर्गम् । तद् आगच्छ यथा दर्शयामीति । भासुरक आह– दर्शय मे दुर्गम् । तद् अनु दर्शितस् तेन कूपः । ततः सोऽपि मूर्खः सिंहः कूप-मध्य आत्म-प्रतिबिम्बं जल-मध्य-गतं दृष्ट्वा सिंह-नादं मुमोच । ततः प्रतिशब्देन कूप-मध्याद् द्वि-गुणतरो नादः समुत्थितः ।

अथ तेन तं शत्रुं मत्वात्मानं तस्योपरि प्रक्षिप्य प्राणाः परित्यक्ताः । शशको ऽपि हृष्ट-मनाः सर्व-मृगान् आनन्द्य तैः सह प्रशस्यमानो यथा-सुखं तत्र वने निवसति स्म ।