०१-०७ बक-कुलीरक-कथा

भक्षयित्वा बहून् मत्स्यान् उत्तमाधम-मध्यमान् ।
अतिलौल्याद् बकः कश्चिन् मृतः कर्कटक-ग्रहात् ॥१.२३२॥

अस्ति कस्मिंश्चिद् वन-प्रदेशे नाना-जल-चर-सनाथं महत् सरः । तत्र च कृताश्रयो बक एको वृद्ध-भावम् उपागतो मत्स्यान् व्यापादयितुम् असमर्थः । ततश् च क्षुत्क्षाम-कण्ठः सरस्-तीरे उपविष्टो मुक्ताफल-प्रकर-सदृशैर् अश्रुप्रवाहैर् धरातलम् अभिषिञ्चन् रुरोद । एकः कुलीरको नाना-जलचर-समेतः समेत्य तस्य दुःखेन दुःखितः सादरम् इदम् ऊचे-माम ! किम् अद्य त्वया नाहार-वृत्तिर् अनुष्ठीयते ? केवलम् अश्रु-पूर्ण-नेत्राभ्यां स-निःश्वासेन स्थीयते ।

स आह– वत्स ! सत्यम् उपलक्षितं भवता । मया हि मत्स्यादनं प्रति परम-वैराग्यतया साम्प्रतं प्रायोपवेशनं कृतम् । तेनाहं समीपागतान् अपि मत्स्यान् न भक्षयामि ।

कुलीरकस् तच् छ्रुत्वा प्राह– माम, किं तद् वैराग्य-कारणम् ?

स प्राह– वत्स, अहम् अस्मिन् सरसि जातो वृद्धिं गतश् च । तन् मयैतच् छ्रुतं यद् द्वादश-वर्षिक्यानावृष्टिः सम्पद्यते लग्ना ।

कुलीरक आह– कस्मात् तच् छ्रुतम् ?

बक आह– दैवज्ञ-मुखाद् एष शनैश्चरो हि रोहिणी-शकटं भित्त्वा भौमं शक्रं च प्रयास्यति । उक्तं च वराहमिहिरेण–

यदि भिन्ते सूर्य-सुतो रोहिण्याः शकटम् इह लोके ।
द्वादश-वर्षाणि तदा न हि वर्षति वासवो भूमौ ॥१.२३३॥

तथा च–
प्राजापत्ये शकटे भिन्ने कृत्वैव पातकं वसुधा ।
भस्मास्थि-शकलाकीर्णा कापालिकम् इव व्रतं धत्ते ॥१.२३४॥

तथा च–
रोहिणी-शकटम् अर्कनन्दनश् चेद्
भिन्नत्ति रुधिरोऽथवा शशी ।
किं वदामि तद् अनिष्ट-सागरे
सर्वलोकम् उपयाति सङ्क्षयः ॥१.२३५॥

रोहिणी-शकट-मध्य-संस्थिते
चन्द्रम् अस्य शरणी-कृता जनाः ।
क्वापि यान्ति शिशुपाचिताशनाः
सूर्य-तप्त-भिदुराम्बु-पायिनः ॥१.२३६॥

तदेतत् सरः स्वल्पतोयं वर्तते । शीघ्रं शोषं यास्यति । अस्मिन् शुष्के यैः सहाहं वृद्धिं गतः, सदैव क्रीडितश् च, ते सर्वे तोयाभावान् नाशं यास्यन्ति । तत् तेषां वियोगं द्रष्टुम् अहम् असमर्थः । तेनैतत् प्रायोपवेशनं कृतम् । साम्प्रतं सर्वेषां स्वल्प-जलाशयानां जलचरा गुरु-जलाशयेषु स्व-स्वजनैर् नीयन्ते । केचिच् च मकर-गोधा-शिशुमार-जलहस्ति-प्रभृतयः स्वयम् एव गच्छन्ति । अत्र पुनः सरसि ये जलचरास् ते निश्चिन्ताः सन्ति, तेनाहं विशेषाद् रोदिमि यद् बीज-शेस-मात्रम् अप्यत्र नोद्धरिष्यति ।

ततः स तद् आकर्ण्यान्येषाम् अपि जलचराणां तत् तस्य वचनं निवेदयामास । अथ ते सर्वे भय-त्रस्त-मनसो मत्स्य-कच्छप-प्रभृतयस् तम् अभ्युपेत्य पप्रच्छुः– माम ! अस्ति कश्चिद् उपायो येनास्माकं रक्षा भवति ?

बक आह– अस्त्य् अस्य जलाशयस्य नातिदूरे प्रभूत-जल-सनाथं सरः पद्मिनी-खण्ड-मण्डितं यच् चतुर्विंशत्य् अपि वर्षाणाम् अवृष्ट्या न शोषम् एष्यति । तद् यदि मम पृष्ठं कश्चिद् आरोहति, तद् अहं तं तत्र नयामि ।

अथ ते तत्र विश्वासम् आपन्नाः, तात मातुल भ्रातः इति ब्रुवाणाः अहं पूर्वम् अहं पूर्वम् इति समन्तात् परितस्थुः । सोऽपि दुष्टाशयः क्रमेण तान् पृष्ठ आरोप्य जलाशयस्य नातिदूरे शिलां समासाद्य तस्याम् आक्षिप्य स्वेच्छया भक्षयित्वा भूयो ऽपि जलाशयं समासाद्य जलचर्णाणां मिथ्या-वार्ता-सन्देशकैर् मनांसि रञ्जयन् नित्यम् एवाहार-वृत्तिम् अकरोत् ।

अन्यस्मिन् दिने च कुलीरकेणोक्तः– माम ! मया सह ते प्रथमः स्नेह-सम्भाषः सञ्जातः । तत् किं मां परित्यज्यान्यान् नयसि ? तस्माद् अद्य मे प्राण-त्राणं कुरु ।

तद् आकर्ण्य सोऽपि दुष्टाशयश् चिन्तितवान् निर्विण्णोऽहं मत्स्य-मांसादनेन तद् अद्यैनं कुलीरकं व्यञ्जन-स्थाने करोमि । इति विचिन्त्य तं पृष्टे समारोप्य तां वध्य-शिलाम् उद्दिश्य प्रस्थितः । कुलीरकोऽपि दूराद् एवास्थि-पर्वतं शिलाश्रयम् अवलोक्य मस्त्यास्थीनि परिज्ञाय तम् अपृच्छत्– माम, कियद् दूरे स जलाशयः ? मदीय-भारेणातिश्रान्तस् त्वम् । तत् कथय ।

सोऽपि मन्द-धीर् जलचरो ऽयम् इति मत्वा स्थले न प्रभवतीति स-स्मितम् इदम् आह– कुलीरक, कुतोऽन्यो जलाशयः ? मम प्राण-यात्रेयम् । तस्मात् स्मर्यताम् आत्मनो ऽभीष्ट-देवता । त्वाम् अप्य् अन्यां शिलायां निक्षिप्य भक्षयिष्यामि । इत्य् उक्तवति तस्मिन् स्व-वदन-दंश-द्वयेन मृणाल-नाल-धवलायां मृदु-ग्रीवायां गृहीतो मृतश् च ।

अथ स तां बकग्रीवां समादाय शनैः शनैस् तज् जलाशयम् आससाद । ततः सर्वैर् एव जलचरैः पृष्टः–भोः कुलीरक ! किं निवृत्तस् त्वम् ? स मातुलोऽपि नायातः । तत् किं चिरयति ? वयं सर्वे सोत्सुकाः कृत-क्षणास् तिष्ठामः ।

एवं तैर् अभिहिते कुलीरकोऽपि विहस्योवाच– मूर्खाः ! सर्वे जलचरास् तेन मिथ्या-वादिना वञ्चयित्वा नातिदूरे शिलातले प्रक्षिप्य भक्षिताः । तन् ममायुः शेषतया तस्य विश्वास-घातकस्याभिप्रायं ज्ञात्वा ग्रीवेयम् आनीता । तद् अलं सम्भ्रमेण । अधुना सर्व-जल-चराणां क्षेमं भविष्यति ।