०१-०६ वायसदम्पती-कथा

उपायेन हि यच् छक्यं न तच् छक्यं पराक्रमैः ।
काकी कनक-सूत्रेण कृष्ण-सर्पम् अघातयत् ॥१.२२८॥

  • उपायेन हि यत्कुर्यात्तन्न शक्यं पराक्रमैः ।
    काक्या कनकसूत्रेण कृष्णसर्पो निपातितः ॥+++(सम्पादकटिप्पनी - पुस्तके २२८ तमं पद्यम् । )+++

अस्ति कस्मिंश्चित् प्रदेशे महान् न्यग्रोध-पादपः । तत्र वायस-दम्पती प्रतिवसतः स्म । अथ तयोः प्रसवकाले वृक्ष-विवरान् निष्क्रम्य कृष्ण-सर्पः सदैव तद् अपत्यानि भक्षयति । ततस् तौ निर्वेदाद् अन्य-वृक्ष-मूल-निवासिनं प्रिय-सुहृदं शृगालं गत्वोचतुः–भद्र ! किम् एवंविधे सञ्जात आवयोः कर्तव्यं भवति । एवं तावद् दुष्टात्मा कृष्ण-सर्पो वृक्ष-विवरान् निर्गत्यावयोर् बालकान् भक्षयति । तत् कथ्यतां तद् रक्षार्थं कश्चिद् उपायः ।

यस्य क्षेत्रं नदी-तीरे भार्या च पर-सङ्गता ।
स-सर्पे च गृहे वासः कथं स्यात् तस्य निर्वृतिः ॥१.२२९॥

अन्यच् च
सर्पयुक्ते गृहे वासो मृत्युरेव न संशयः ।
यद् ग्रामान्ते वसेत् सर्पस् तस्य स्यात् प्राणसंशयः ॥१.२३०॥

अस्माकम् अपि तत्र स्थितानां प्रतिदिनं प्राण-संशयः ।

स आह– नात्र विषये स्वल्पोऽपि विषादः कार्यः । नूनं स लुब्धो नोपायम् अन्तरेण वध्यः स्यात् ।

उपायेन जयो यादृग् रिपोस् तादृङ् न हेतिभिः ।
उपाय-ज्ञो ऽल्प-कायोऽपि न शूरैः परिभूयते ॥१.२३१॥

तथा च–

भक्षयित्वा बहून् मत्स्यान् उत्तमाधम-मध्यमान् ।
अतिलौल्याद् बकः कश्चिन् मृतः कर्कटक-ग्रहात् ॥१.२३२॥

ताव् ऊचतुः– कथम् एतत्?

सोऽब्रवीत्–

अतोऽहं ब्रवीमि “भक्षयित्वा बहून् मत्स्यान्” इति ।

वायस आह भद्र– ! तत् कथय कथं स दुष्ट-सर्पो वधम् उपैष्यति ।

शृगाल आह– गच्छतु भवान् कञ्चिन् नगरं राजाधिष्ठानम् । तत्र कस्यापि धनिनो राजामात्यादेः प्रमादिनः कनक-सूत्रं हारं वा गृहीत्वा तत् कोटरे प्रक्षिप, येन सर्पस् तद्ग्रहणेन वध्यते ।

तत्-क्षणात् काकः काकी च तद् आकर्ण्यात्मेच्छयोत्पतितौ । ततश् च काकी किञ्चित् सरः प्राप्य यावत् पश्यति, तावत् तन् मध्ये कस्यचिद् राज्ञोऽन्तःपुरं जलासन्नं न्यस्त-कनक-सूत्रं मुक्त-मुक्ताहार-वस्त्राभरणं जल-क्रीडां कुरुते । अथ सा वायसी कनक-सूत्रम् एकम् आदाय स्व-गृहाभिमुखं प्रतस्थे । ततश् च कञ्चुकिनो वर्षवराश् च तन् नीयमानम् उपलक्ष्य गृहीत-लगुडाः सत्वरम् अनुययुः । काक्यपि सर्पकोटरे तत् कनक-सूत्रं प्रक्षिप्य सुदूरम् अवस्थिता ।

अथ यावद् राज-पुरुषास् तं वृक्षम् आरुह्य तत्-कोटरम् अवलोकयन्ति, तावत् कृष्ण-सर्पः प्रसारित-भोगस् तिष्ठति । ततस् तं लगुड-प्रहारेण हत्वा कनक-सूत्रम् आदाय यथाभिलषितं स्थानं गताः । वायस-दम्पती अपि ततः परं सुखेन वसतः ।