०१-०५ कौलिकरथकार-कथा

सुगुप्तस्यापि दम्भस्य ब्रह्माप्यन्तं न गच्छति ।
कौलिको विष्णु-रूपेण राज-कन्यां निषेवते ॥१.२१८॥

कस्मिंश्चिद् अधिष्ठाने कौलिक-रथकारौ मित्रे प्रतिवसतः स्म । तत्र च बाल्यात् प्रभृति सहचारिणौ परस्परम् अतीव स्नेह-परौ सदैक-स्थान-विहारिणौ कालं नयतः । अथ कदाचित् तत्राधिष्ठाने कस्मिंश्चिद् देवायतने यात्रा-महोत्सवः संवृत्तः । तत्र च नट-नर्तक-चारण-सङ्कुले नाना-देशागत-जनावृते तौ सहचरौ भ्रमन्तौ काञ्चिद् राज-कन्यां करेणुकारूढां सर्व-लक्षण-सनाथां कञ्चुकि-वर्ष-धर-परिवारितां देवता-दर्शनार्थं समायातां दृष्टवन्तौ । अथासौ कौलिकस् तां दृष्ट्वा विषार्दित इव दुष्ट-ग्रह-गृहीत इइव काम-शरैर् हन्यमानः सहसा भूतले निपपात । अथ तं तद्-अवस्थम् अवलोक्य रथकारस् तद्-दुःख-दुःखित आप्त-पुरुषैस् तं समुत्क्षिप्य स्व-गृहम् आनाययत् । तत्र च विविधैः शीतोपचारैश् चिकित्सकोपदिष्टैर् मन्त्र-वादिभिर् उपचर्यमाणैश् चिरात् कथंचित् स-चेतनो बभूव ।

ततो रथकारेण पृष्टः– भो मित्र ! किम् एवं त्वम् अकस्माद् विचेतनः सञ्जातः ? तत् कथ्यताम् आत्म-स्वरूपम् ?

स आह वयस्य ! यद्य् एवं तच् छृणु मे रहस्यं येन सर्वाम् आत्म-वेदनां ते वदामि । यदि त्वं मां सुहृदं मन्यसे ततः काष्ठ-प्रदानेन प्रसादः क्रियताम् । क्षम्यतां यद् वा किञ्चित् प्रणयातिरेकाद् अयुक्तं तव मयानुष्ठितम् ।

सोऽपि तद् आकर्ण्य बाष्प-पिहित-नयनः स-गद्गदम् उवाच– वयस्य, यत् किञ्चिद् दुःख-कारणं तद् वद येन प्रतीकारः क्रियते, यदि शक्यते कर्तुम् । उक्तं च–

औषधार्थ-सुमन्त्राणां बुद्धेश् चैव महात्मनाम् ।
असाध्यं नास्ति लोकेऽत्र यद् ब्रह्माण्डस्य मध्यगम् ॥१.२१९॥

तद् एषां चतुर्णां यदि साध्यं भविष्यति तदाहं साधयिष्यामि ।

कौलिक आह– वयस्य, एतेषाम् अन्येषाम् अपि सहस्राणाम् उपायानाम् असाध्यं तन् मे दुःखम् । तस्मान् मम मरणे मा काल-क्षेपं कुरु ।

रथकार आह– भो मित्र ! यद्यप्य् असाध्यं तथापि निवेदय येनाहम् अपि तद् असाध्यं मत्वा त्वया समं वह्नौ प्रविशामि । न क्षणम् अपि त्वद् वियोगं सहिष्ये । एष मे निश्चयः ।

कौलिक आह– वयस्य, यासौ राज-कन्या करेणुम् आरूढा तत्रोत्सवे दृष्टा, तस्या दर्शनानन्तरं मकर-ध्वजेन ममेयम् अवस्था विहिता । तन् न शक्नोमि तद्-वेदनां सोढुम् । तथा चोक्तम्–

मत्तेभ-कुम्भ-परिणाहिनि कुङ्कुमार्द्रे
तस्याः पयोधर-युगे रति-खेद-खिन्नः ।
वक्षो निधाय भुज-पञ्जर-मध्य-वर्ती
स्वप्स्ये कदा क्षणम् अवाप्य तदीय-सङ्गम् ॥१.२२०॥

तथा च–

रागी बिम्बाधरोऽसौ स्तन-कलश-युगं यौवनारूढ-गर्वं
नीचा नाभिः प्रकृत्या कुटिल-कमलकं स्वल्पकं चापि मध्यम् ।
कुर्वत्व् एतानि नाम प्रसभम् इह मनश् चिन्तितान्य् आशु खेदं
यन् मां तस्याः कपोलौ दहत इति मुहुः स्वच्छकौ तन् न युक्तम् ॥१.२२१॥

रथकारोऽप्य् एवं स-कामं तद् वचनम् आकर्ण्य स-स्मितम् इदमा आह– वयस्य ! यद्य् एवं तर्हि दिष्ट्या सिद्धं नः प्रयोजनम् । तद् अद्यैव तया सह समागमः क्रियताम् इति ।

कौलिक आह– वयस्य, यत्र कन्यान्तःपुरे वायुं मुक्त्वा नान्यस्य प्रवेशोऽस्ति तत्र रक्षा-पुरुषाधिष्ठिते कथं मम तस्या सह समागमः ? तत् किं माम् असत्य-वचनेन विडम्बयसि ?

रथकार आह– मित्र, पश्य मे बुद्धि-बलम् ।

एवम् अभिधाय तत् क्षणात् कीलसञ्चारिणं वैनतेयं बाहु-युगलं वायुज-वृक्ष-दारुणा शङ्ख-चक्र-गदा-पद्मान्वितं स-किरीट-कौस्तुभम् अघटयन् । ततस् तस्मिन् कौलिकं समारोप्य विष्णु-चिह्नितं कृत्वा कील-सञ्चरण-विज्ञानं च दर्शयित्वा प्रोवाच– वयस्य, अनेन विष्णु-रूपेण गत्वा कन्यान्तःपुरे निशीथे तां राजकन्याम् एकाकिनीं सप्त-भूमिक-प्रासाद-प्रान्त-गतां मुग्ध-स्वभावां त्वां वासुदेवं मन्यमानां स्वकीय-मिथ्या-वक्रोक्तिभी रञ्जयित्वा वात्स्यायनोक्त-विधिना भज ।

कौलिको ऽपि तदाकर्ण्य तथारूपस् तत्र गत्वा ताम् आह– राज-पुत्रि, सुप्ता किं वा जागर्षि ? अहं तव कृते समुद्रात्-सानुरागो लक्ष्मीं विहायैवागतः । तत् क्रियतां मया सह समागमः इति ।

सापि गरुडारूढं चतुर्भुजं सायुधं कौस्तुभोपेतम् अवलोक्य सविस्मया शयनाद् उत्थाय प्रोवाच–भगवन् ! अहं मानुषी कीटिकाशुचिः । भगवांस् त्रैलोक्य-पावनो वन्दनीयश् च । तत् कथम् एतद् युज्यते ।

कौलिक आह– सुभगे, सत्यम् अभिहितं भवत्या । परं किं तु राधा नाम मे भार्या गोप-कुल-प्रसूता प्रथम आसीत् । सा त्वम् अत्रावतीर्णा । तेनाहम् अत्रायातः ।

इत्य् उक्ता सा प्राह–भगवन्, यद्य् एवं तन् मे तातं प्रार्थय । सो ऽप्य् अविकल्पं मां तुभ्यं प्रयच्छति ।

कौलिक आह– सुभगे, नाहं दर्शन-पथं मानुषाणां गच्छामि । किं पुनर् आलाप-करणम् । त्वं गान्धर्वेण विव्हानेआत्मानं प्रयच्छ । नो चेच् छापं दत्त्वा सान्वयं ते पितरं भस्मसात् करिष्यामि इति । एवम् अभिधाय गरुडाद् अवतीर्य सव्ये पाणौ गृहीत्वा तां सभयां सलज्जां वेपमानां शय्यायाम् आनयत् । ततश् च रात्रि-शेषं यावद् वात्स्यायनोक्त-विधिना निषेव्य प्रत्यूषे स्व-गृहम् अलक्षितो जगाम ।

एवं तस्य तां नित्यं सेवमानस्य कालो याति । अथ कदाचित् कञ्चुकिनस् तस्या अधरोष्ठ-प्रवाल-खण्डनं दृष्ट्वा मिथः प्रोचुः– अहो ! पश्यतास्या राज-कन्यायाः पुरुषोपभुक्ताया इव शरीरावयवा विभाव्यन्ते । तत् कथम् अयं सुरक्षितेऽप्यस्मिन् गृह एवंविधो व्यवहारः । तद् राज्ञे निवेदयामः ।

एवं निश्चित्य सर्वे समेत्य राजानं प्रोचुः–देव ! वयं न विद्मः । परं सुरक्षितेऽपि कन्यान्तःपुरे कश्चित् प्रविशति । तद् देवः प्रमाणम् इति । तच् छ्रुत्वा राजातीव व्याकुलित-चित्तो व्यचिन्तयत्–

पुत्रीति जाता महतीह चिन्ता
कस्मै प्रदेयेति महान् वितर्कः ।
दत्त्वा सुखं प्राप्स्यति वा न वेति
कन्या-पितृत्वं खलु नाम कष्टम् ॥१.२२२॥

नद्यश् च नार्यश् च सदृक् प्रभावास्
तुल्यानि कूलानि कुलानि तासाम् ।
तोयैश् च दोषैश् च निपातयन्ति
नद्यो हि कूलानि कुलानि नार्यः ॥१.२२३॥

जननी-मनो हरति जातवती
परिवर्धते सह शुचा सुहृदाम् ।
पर-सात्कृतापि कुरुते मलिनं
दुरित-क्रमा दुहितरो विपदः ॥१.२२४॥

एवं बहुविधं विचिन्त्य देवीं रहःस्थां प्रोवाच– देवि, ज्ञायतां किम् एते कञ्चुकिनो वदन्ति ? तस्य कृतान्तः कुपितो येनैतद् एवं क्रियते ।

देव्यपि तद् आकर्ण्य व्याकुली-भूता सत्वरं कन्यान्तःपुरे गत्वा तां खण्डिताधरां नख-विलिखित-शरीरावयवां दुहितरम् अपश्यत् । आह च– आः पापे ! कुल-कलङ्क-कारिणि ! किम् एव शील-खण्डनं कृतम् । कोऽयं कृतान्तावलोकितस् त्वत् सकाशम् अभ्येति । तत् कथ्यतां ममाग्रे सत्यम् ।

इति कोपाटोप-विसङ्कटं वदत्यां मातरि राज-पुत्री भय-लज्जा-नताननं प्रोवाच–अम्ब, साक्षान् नारायणः प्रत्यहं गरुडारूढो निशि समायाति । चेद् असत्यं मम वाक्यम्, तत् स्व-चक्षुषा विलोकयतु निगुढतरा निशीथे भगवन्तं रमा-कान्तम् ।

तच् छ्रुत्वा सापि प्रहसित-वदना पुलकाङ्कित-सर्वाङ्गी सत्वरं राजानम् ऊूचे–देव, दिष्ट्या वर्धसे । नित्यम् एव निशीथे भगवान् नारायणः कन्यका-पार्श्वेऽभ्येति । तेन गान्धर्व-विवाहेन सा विवाहिता । तद् अद्य त्वया मया च रात्रौ वातायन-गताभ्यां निशीथे द्रष्टव्यः । यतो न स मानुषैः सहालापं करोति ।

तच् छ्रुत्वा हर्षितस्य राज्ञस् तद् दिनं वर्ष-शत-प्रायम् इव कथञ्चिज् जगाम । ततस् तु रात्रौ निभृतो भूत्वा राज्ञी-सहितो राजा वातायनस्-स्थो गगनासक्त-दृष्टिर् यावत् तिष्ठति, तावत् तस्मिन् समये गरुडारूढं तं शङ्ख-चक्र-गदा-पद्म-हस्तं यथोक्त-चिह्नाङ्कितं व्योम्नो ऽवतरन्तं नारायणम् अपश्यत् । ततः सुधा-पूर-प्लावितम् इवात्मानं मन्यमानस् ताम् उवाच– प्रिये ! नास्त्य् अन्यो धन्यतरो लोके मत्तस् त्वत्तश् च । तत् प्रसूतिं नारायणो भजते । तत्-सिद्धाः सर्वेऽस्माकं मनोरथाः । अधुना जामातृ-प्रभावेण सकलाम् अपि वसुमतीं वश्यां करिष्यामि ।

एवं निश्चित्य सर्वैः सीमाधिपैः सह मर्यादा-व्यतिक्रमम् अकरोत् । ते च तं मर्यादा-व्यतिक्रमेण वर्तमानम् आलोक्य सर्वे समेत्य तेन सह विग्रहं चक्रुः ।

अत्रान्तरे स राजा देवी-मुखेन तां दुहितरम् उवाच– पुत्रि, त्वयि दुहितरि वर्तमानायां नारायणे भगवति जामातरि स्थिते तत् किम् एवं युज्यते यत् सर्वे पार्थिवा मया सह विग्रहं कुर्वन्ति । तत् सम्बोध्योऽद्य त्वया निज-भर्ता, यथा मम शत्रून् व्यापादयति ।

ततस् तया स कौलिको रात्रौ स-विनयम् अभिहितः–भगवन्, त्वयि जामातरि स्थिते मम तातो यच् छत्रुभिः परिभूयते तन् न युक्तम् । तत् प्रसादं कृत्वा सर्वांस् तान् शत्रून् व्यापादय ।

कौलिक आह– सुभगे ! कियन् मात्रास् त्व् एते तव पितुः शत्रवः । तद्-विश्वस्ता भव । क्षणेनापि सुदर्शन-चक्रेण सर्वांस् तिलशः खण्डयिष्यामि ।

अथ गच्छता कालेन सर्व-देशं शत्रुभिर् उद्वास्य स राजा प्राकार-शेषः कृतः । तथापि वासुदेव-रूप-धरं कौलिकम् अजानन् राज नित्यम् एव विशेषतः कर्पूरागुरु-कस्तूरिकादि-परिमल-विशेषान् नाना-प्रकार-वस्त्र-पुष्प-भक्ष्य-पेयांश् च प्रेषयन् दुहितृ मुखेन तम् ऊचे– भगवन्, प्रभाते नूनं स्थान-भङ्गो भविष्यति । यतो यवसेन्धन-क्षयः सञ्जातस् तथा सर्वोऽपि जनः प्रहारैर् जर्जरित-देहः संवृत्तो योद्धुम् अक्षमः प्रचुरो मृतश् च । तद् एवं ज्ञात्वात्र काले यद् उचितं भवति तद् विधेयम् इति ।

तच् छ्रुत्वा कौलिकोऽप्यचिन्तयत्– स्थान-भङ्गे जाते ममानया सह वियोगो भविष्यति । तस्माद् गरुडम् आरुह्य सायुधम् आत्मानम् आकाशे दर्शयामि । कदाचिन् मां वासुदेवं मन्यमानास् ते साशङ्का राज्ञो योद्धृभिर् हन्यते । उक्तं च–

निर्विषेणापि सर्पेण कर्तव्या महती फणा ।
विषं भवतु वा माभूत् फणाटोपो भयङ्करः ॥१.२२५॥

अथ यदि मम स्थानार्थम् उद्यतस्य मृत्युर् भविष्यति तद् अपि सुन्दरतरम् । उक्तं च–

गवाम् अर्थे ब्राह्मणार्थे स्वाम्य् अर्थे स्वीकृतेऽथवा ।
स्थानार्थे यस्त्यजेत् प्राणांस् तस्य लोकाः सनातनाः ॥१.२२६॥

चन्द्रे मण्डल-संस्थे विगृह्यते राहुणा दिनाधीशः ।
शरणागतेन सार्धं विपद् अपि तेजस्विना श्लाघ्या ॥१.२२७॥

एवं निश्चित्य प्रत्यूषे दन्त-धावनं कृत्वा तां प्रोवाच– सुभगे ! समस्तैः शत्रुभिर् हतैर् अन्नं पानं चास्वादयिष्यामि । किं बहुना, त्वयापि सह सङ्गमं ततः करिष्यामि । परं वाच्यस् त्वयात्म-पिता यत् प्रभाते प्रभूतेन सैन्येन सह नगरान् निष्क्रम्य योद्धव्यम् । अहं चाकाशस्थित एव सर्वांस्तान् निस्तेजसः करिष्यामि । पश्चात् सुखेन भवता हन्तव्याः यदि पुनर् अहं तान् स्वयम् एव सूदयामि तत् तेषां पापात्मनां वैकुण्ठीया गतिः स्यात् । तस्मात् ते तथा कर्तव्या यथा पलायन्तो हन्यमानाः स्वर्गं न गच्छन्ति ।

सापि तद् आकर्ण्य पितुः समीपं गत्वा सर्वं वृत्तान्तं न्यवेदयत् । राजापि तस्या वाक्यं श्रद्दधानः प्रत्यूषे समुत्थाय समुन्नद्ध-सैन्यो युद्धार्थं निश्चक्राम । कौलिकोऽपि मरणे कृत-निश्चयश् चाप-पाणिर् गगन-गतिर् गरुडारूढो युद्धाय प्रस्थितः ।

अत्रान्तरे भगवता नारायणेनातीतानागत-वर्तमान-वेदिना, स्मृत-मात्रो वैनतेयः सम्प्राप्तो विहस्य प्रोक्तः– भो गरुत्मन् ! जानासि त्वं यन् मम रूपेण कौलिको दारु-मय-गरुडे समारूढो राज-कन्यां कामयते ।

सोऽब्रवीत्– देव, सर्वं ज्ञायते तच् चेष्टितम् । तत् किं कुर्मः साम्प्रतम् ?

श्री-भगवान् आह– अद्य कौलिको मरणे कृत-निश्चयो विहित-नियमो युद्धार्थे विनिर्गतः स नूनं प्रधान-क्षत्रियैर् मिलित्वा वासुदेवो गरुडश् च निपातितः । ततः परं लोकोऽयम् आवयोः पूजां न करिष्यति । ततस् त्वं द्रुततरं तत्र दारु-मय-गरुडे सङ्क्रमणं कुरु । अहम् अपि कौलिक-शरीरे प्रवेशं करिष्यामि । येन स शत्रून् व्यापादयति । ततश् च शत्रु-वधाद् आवयोर् माहात्म्य-वृद्धिः स्यात् ।

अथ गरुडे तथेति प्रतिपन्ने श्री-भगवन् नारायणस् तच् छरीरे सङ्क्रमणम् अकरोत् । ततो भगवन् माहात्म्येन गगनस्थः स कौलिकः शङ्ख-चक्र-गदा-चाप-चिह्नितः क्षणाद् एव लीलयैव समस्तान् अपि प्रधान-क्षत्रियान् निस्तेजसश् चकार । ततस् तेन राज्ञा स्व-सैन्य-परिवृतेन सङ्ग्रामे जिता निहताश् च ते सर्वेऽपि शत्रवः । जातश् च लोक-मध्ये प्रवादो, यथा–अनेन विष्णु-जामातृ-प्रभावेण सर्वे शत्रवो निहता इति ।

कौलिकोऽपि तान् हतान् दृष्ट्वा प्रमुदित-मना गगनाद् अवतीर्णः सन्, यावद् राजामात्य-पौर-लोकास् तं नगर-वास्तव्यं कौलिकं पश्यन्ति ततः पृष्टः किम् एतद् इति । ततः सोऽपि मूलाद् आरभ्य सर्वं प्राग्-वृत्तान्तं न्यवेदयत् । ततश् च कौलिक-साहसानुरञ्जित-मनसा शत्रु-वधाद् अवाप्त-तेजसा राज्ञा सा राज-कन्या सकल-जन-प्रत्यक्षं विवाह-विधिना तस्मै समर्पिता देशश् च प्रदत्तः । कौलिकोऽपि तया सार्धं +++(पञ्चेन्द्रियाण्य् अनु)+++ पञ्च-प्रकारं जीव-लोक-सारं विषय-सुखम् अनुभवन् कालं निनाय ।