जम्बूको हुडु-युद्धेन वयं चाषाढ-भूतिना ।
दूतिका पर-कार्येण त्रयो दोषाः स्वयं कृताः ॥१.१७३॥
अस्ति कस्मिंश्चिद् विविक्त-प्रदेशे मठायतनम् । तत्र देव-शर्मा नाम परिव्राजकः प्रतिवसति स्म । तस्यानेक-साधु-जन-दत्त-सूक्ष्म-वस्त्र-विक्रय-वशात् कालेन महती वित्त-मात्रा सञ्जाता । ततः स न कस्यचिद् विश्वसिति । नक्तं दिनं कक्षान्तरात् तां मात्रां न मुञ्चति । अथवा साधु चेदम् उच्यते–
अर्थानाम् अर्जने दुःखम् अर्जितानां च रक्षणे ।
नाशे दुःखं व्यये दुःखं धिग् अर्थाः कष्ट-संश्रयाः ॥१.१७४॥
अथाषाढ-भूतिर् नाम पर-वित्तापहारी धूर्तस् ताम् अर्थमात्रां तस्य कक्षान्तर-गतां लक्षयित्वा व्यचिन्तयत् कथं मयास्येयम् अर्थ-मात्रा हर्तव्या इति ।
तद् अत्र मठे तावद् दृढ-शिला-सञ्चय-वशाद् भित्ति-भेदो न भवति । उच्चैस्तरत्वाच् च द्वारे प्रवेशो न स्यात् । तद् एनं माया-वचनैर् विश्वास्याहं छात्रतां व्रजामि येन स विश्वस्तः कदाचिद् विश्वासम् एति । उक्तं च–
निस्पृहो नाधिकारी स्यान् नाकामी मण्डन-प्रियः ।
नाविदग्धः प्रियं ब्रूयात् स्फुट-वक्ता न वञ्चकः ॥१.१७५॥
एवं निश्चित्य तस्यान्तिकम् उपगम्य-ऊँ नमः शिवाय-इति प्रोच्चार्य साष्टाङ्गं प्रणम्य च स-प्रश्रयम् उवाच– भगवन् असारः संसारो ऽयम् । गिरि-नदी-वेगोपमं यौवनम् । तृणाग्नि-समं जीवितम् । शरद्-अभ्र-च्छाया-सदृशा भोगाः स्वप्नसदृशो मित्र-पुत्र-कलत्र-भृत्य-वर्ग-सम्बन्धः । एवं मया सम्यक् परिज्ञातम् । तत् किं कुर्वतो मे संसार-समुद्रोत्तरणं भविष्यति ।
तच् छ्रुत्वा देव-शर्मा सादरम् आह– वत्स ! धन्यो ऽसि यत् प्रथमे वयस्य् एवं विरक्ती-भावः । उक्तं च–
पूर्वे वयसि यः शान्तः स शान्त इति मे मतिः ।
धातुषु क्षीयमाणेषु शमः कस्य न जायते ॥१.१७६॥
आदौ चित्ते ततः काये सतां संजायते जरा ।
असतां च पुनः काये नैव चित्ते कदाचन ॥१.१७७॥
यच् च मां संसार-सागरोत्तरणोपायं पृच्छसि । तच् छ्रूयताम्–
शूद्रो वा यदि वान्यो ऽपि चण्डालो ऽपि जटाधरः ।
दीक्षितः शिव-मन्त्रेण स भस्माङ्गी शिवो भवेत् ॥१.१७८॥
षड्-अक्षरेण मन्त्रेण पुष्पम् एकम् अपि स्वयम् ।
लिङ्गस्य मूर्ध्नि यो दद्यान् न स भूयो ऽभिजायते ॥१.१७९॥
तच् छ्रुत्वाषाढ-भूतिस् तत्-पादौ गृहीत्वा स-प्रश्रयम् इदम् आह– भगवन्, तर्हि दीक्षया मेऽनुग्रहं कुरु ।
देवशर्मा आह– वत्स अनुग्रहं ते करिष्यामि । परन्तु रात्रौ त्वया मठ-मध्ये न प्रवेष्टव्यम् । यत्-कारणं निःसङ्गता यतीनां प्रशस्यते तव च ममापि च । उक्तं च–
दुर्मन्त्रान् नृपतिर् विनश्यति यतिः सङ्गात् सुतो लालसाद्
विप्रो ऽनध्ययनात् कुलं कुतनयाच् छीलं खलोपासनात् ।
मैत्री चाप्रणयात् समृद्धिर् अनयात् स्नेहः प्रवासाश्रयात्
स्त्री गर्वाद् अनवेक्षणाद् अपि कृषिस् त्यागात् प्रमादाद् धनम् ॥१.१८०॥
तत् त्वया व्रत-ग्रहणानन्तरं मठ-द्वारे तृण-कुटीरके शयितव्यम् इति ।
स आह– भगवन् ! भवद्-आदेशः प्रमाणम् । परत्र हि तेन मे प्रयोजनम् ।
अथ कृत-शयन-समयं देवशर्म-निग्रहं कृत्वा शास्त्रोक्त-विधिना शिष्यताम् अनयत् । सो ऽपि हस्त-पादावमर्दनादि-परिचर्यया तं परितोषम-अनयत् । पुनस् तथापि मुनिः कक्षान्तरान् मात्रां न मुञ्चति । अथैवं गच्छति काले आषाढ-भूतिश् चिन्तयामास–अहो, न कथञ्चिद् एष मे विश्वासम् आगच्छति । तत् किं दिवापि शस्त्रेण मारयामि, किं वा विषं प्रयच्छामि ? किं वा पशु-धर्मेण व्यापादयामि ? इति ।
एवं चिन्तयतस् तस्य देवशर्मणो ऽपि शिष्य-पुत्रः कश्चिद् ग्रामाद् आमन्त्रणार्थं समायातः । प्राह च– भगवन्, पवित्रारोपण-कृते मम गृहम् आगम्यताम् इति ।
तच् छ्रुत्वा देवशर्माषाढभूतिना सह प्रहृष्ट-मनाः प्रस्थितः । अथैवं तस्य गच्छतो ऽग्रे काचिन् नदी समायाता । तां दृष्ट्वा मात्रां कक्षान्तराद् अवतार्य कन्था-मध्ये सुगुप्तां निधाय स्नात्वा देवार्चनं विधाय तदनन्तरम् आषाढ-भूतिम् इदम् आह– भो आषाढभूते ! यावद् अहं पुरीषोत्सर्गं कृत्वा समागच्छामि, तावद् एषा कन्था योगेश्वरस्य स्वावधानतया रक्षणीया । इत्य् उक्त्वा गतः ।
आषाढ-भूतिर् अपि तस्मिन्न् अदर्शनीभूते मात्राम् आदाय सत्वरं प्रस्थितः । देव-शर्मापि छात्र-गुणानुरञ्जित-मनाः सुविश्वस्तो यावद् उपविष्टस् तिष्ठति तावत् सुवर्ण-रोम-देह-यूथ-मध्ये हुडु-युद्धम् अपश्यत् । अथ रोष-वशाद् धुडु-युगलस्य दूरम् अपसरणं कृत्वा भूयो ऽपि समुपेत्य लालट-पट्टाभ्यां प्रहरतो भूरि रुधिरं पतति । तच् च जम्बूको जिह्वा-लौल्येन रङ्ग-भूमिं प्रावेश्यास्वादयति । देवशर्मापि तद् आलोक्य व्यचिन्तयत्– अहो मन्द-मतिर् अयं जम्बूकः । यदि कथम् अप्य् अनयोः सङ्घट्टे पतिष्यति तन् नूनं मृत्युम् अवाप्स्यतीति वितर्कयामि ।
क्षणान्तरे च तथैव रक्तास्वादन-लौल्यान् मध्ये प्रविशंस् तयोः शिरः-सम्पाते पतिओत् मृतश् च शृगालः । देवशर्मापि तं शोचमानो मात्राम् उद्दिश्य शनैः शनैः प्रस्थितो यावद् आषाढभूतिं न पश्यति ततश् चौत्सुक्येन शौचं विधाय यावत् कन्थाम् आलोकयति तावन् मात्रां न पश्यति । ततश् च-हा हा मुषितो ऽस्मि इति जल्पन् पृथिवी-तले मूर्च्छया निपपात । ततः क्षणाच् चेतनां लब्ध्वा भूयो ऽपि समुत्थाय फूत्कर्तुम् आरब्धः–भो आषाढभूते ! क्व मां वञ्चयित्वा गतोऽसि ? तद् देहि मे प्रतिवचनम् ।
एवं बहु विलप्य तस्य पद-पद्धतिम् अन्वेषयन् शनैः शनैः प्रस्थितः । अथैव गच्छन् सायन्तन-समये कञ्चिद् ग्रामम् आससाद । अथ तस्माद् ग्रामात् कश्चित् कौलिकः सभार्ह्यो मद्य-पान-कृते समीप-वर्तिनि नगरे प्रस्थितः । देवशर्मापि तम् आलोक्य प्रोवाच–भो भद्र वयं सूर्योढा अतिथयस् तवान्तिकं प्राप्ताः । न कम् अप्य् अत्र ग्रामे जानीमः । तद् गृह्यताम् अतिथि-धर्मः । उक्तं च–
सम्प्राप्तो यो ऽतिथिः सायं सूर्योढे गृह-मेधिनाम् ।
पूजया तस्य देवत्वं प्रयान्ति गृह-मेधिनः ॥१.१८१॥
तथा च–
तृणानि भूमिर् उदकं वाक्-चतुर्थी च सूनृता ।
सताम् एतानि हर्म्येषु नोच्छिद्यन्ते कदाचन ॥१.१८२॥
स्वागतेनाग्नयस् तृप्ता आसनेन शतक्रतुः ।
पाद-शौचेन पितरः अर्घाच् छम्भुस् तथातिथेः ॥१.१८३॥
कौलिको ऽपि तच् छ्रुत्वा भार्याम् आह– प्रिये, गच्छ त्व् अतिथिम् आदाय गृहं प्रति पाद-शौच-भोजन-शयनादिभिः सत्कृत्य त्वं तत्रैव तिष्ठ । अहं तव कृते प्रभूत-मद्यम् आनेष्यामि । एवम् उक्त्वा प्रस्थितः । सापि भार्या पुंश्चली तम् आदाय प्रहसित-वदना देवदत्तं मनसि ध्यायन्ती गृहं प्रति प्रतस्थे । अथवा साधु चेदम् उच्यते–
दुर्दिवसे घन-तिमिरे दुःसञ्चारासु नगर-वीथीषु ।
पत्युर् विदेश-गमने परम-सुखं जघन-चपलायाः ॥१.१८४॥
तथा च–
पर्यङ्केष्व् आस्तरणं पतिम् अनुकूलं मनोहरं शयनम् ।
तृणम् इव लघु मन्यन्ते कामिन्यश् चौर्य-रत-लुब्धाः ॥१.१८५॥
तथा च–
केलिं प्रदहति लज्जा शृङ्गारो ऽस्थीनि चाटवः कटवः ।
वन्ध-त्रयाः परितोषो न किंचिद् इष्टं भवेत् पत्यौ ॥१.१८६॥
कुल-पतनं जन-गर्हां बन्धनम् अपि जीवितव्य-सन्देहम् ।
अङ्गीकरोति कुलटा सततं पर-पुरुष-संसक्ता ॥१.१८७॥
अथ कौलिक-भार्या गृहं गत्वा देव-शर्मणे गतास्तरणं भग्नां च खट्वां समर्प्येदम् आह–भो भगवन् ! यावद् अहं स्व-सखीं ग्रामाद् अभ्यागतां सम्भाव्य द्रुतम् आगच्छामि तावत् त्वया मद्-गृहेऽप्रमत्तेन भाव्यम् ।
एवम् अभिधाय शृङ्गार-विधिं विधाय यावद्-देवदत्तम् उद्दिश्य व्रजति तावत् तद्-भर्ता संमुखो मद-विह्वलाङ्गो मुक्त-केशः पदे पदे प्रस्खलन् गृहीत-मद्य-भाण्डः समभ्येति । तं च दृष्ट्वा सा द्रुततरं व्याघुट्य स्वगृहं प्रविश्य नुक्त-शृङ्गार-वेशा यथा-पूर्वम् अभवत् । कौलिको ऽपि तां पलायमानां कृताद्भुत-शृङ्गारां विलोक्य प्राग् एव कर्ण-परम्परया तस्याः श्रुतावपवाद-क्षुभित-हृदयः स्वाकारं निगूहमानः सदैवास्ते । ततश्च तथाविधं चेष्टितम् अवलोक्य दृष्टप्रत्ययः क्रोध-वशगो गृहं प्रविश्य ताम् उवाच–आः पापे पुंश्चलि ! क्व प्रस्थितासि ?
सा प्रोवाच– अहं त्वत्-सकाशाद् आगता न कुत्रचिद् अपि निर्गता । तत् कथं मद्य-पान-वशाद् अप्रस्तुतं वदसि ? अथवा साध्व् इदम् उच्यते–
वैकल्यं धरणी-पातम् अयथोचित-जल्पनम् ।
संनिपातस्य चिह्नानि मद्यं सर्वाणि दर्शयेत् ॥१.१८८॥
कर-स्पन्दोऽम्बर-त्यागस् तेजो-हानिः सरागता ।
वारुणी-सङ्गजावस्था भानुनाप्य् अनुभूयते ॥१.१८९॥
सो ऽपि तच् छ्रुत्वा प्रतिकूल-वचनं वेश-विपर्ययं चावलोक्य तम् आह–पुंश्चलि ! चिर-कालं श्रुतो मया तवापवादः । तद् अद्य स्वयं सञ्जात-प्रत्ययस् तव यथोचितं निग्रहं करोमि । इत्य् अभिधाय लगुड-प्रहारैस् तां जर्जरित-देहां विधाय स्थूणया सह दृढ-बन्धनेन बद्ध्वा सो ऽपि मद-विह्वलो विज्ञाय तां गत्वेदम् आह–सखि ! स देवदत्तस् तस्मिन् स्थाने त्वां प्रतीक्षते । तच् छीघ्रम् आगम्यताम् इति ।
सा चाह– पश्य ममावस्थाम् । तत् कथं गच्छामि ? तद् गत्वा ब्रूहि तं कामिनं यद् अस्यां रात्रौ न त्वया सह समागमः ।
नापिती प्राह–सखि, मा मैवं वद । नायं कुलटा-धर्मः । उक्तं च–
विषम-स्थ-स्वादु-फल-ग्रहण-व्यवसाय-निश्चयो येषाम् ।
उष्ट्राणाम् इव तेषां मन्येऽहं शंसितं जन्म ॥१.१९०॥
तथा च–
सन्दिग्धे पर-लोके जनापवादे च जगति बहु-चित्रे ।
स्वाधीने पर-रमणे धन्यास् तारुण्य-फल-भाजः ॥१.१९१॥
अन्यच् च–
यदि भवति देव-योगात्-पुमान् विरूपो ऽपि बन्धको रहसि ।
न तु कृच्छ्राद् अपि भद्रं निज-कान्तं सा भजत्य् एव ॥१.१९२॥
साब्रवीत्– यद्य् एवं तर्हि कथय कथं दृढ-बन्धन-बद्धा सती तत्र गच्छामि । सन्निहितश् चायं पापात्मा मत्-पतिः ।
नापित्य् आह–सखि, मद-विह्वलो ऽयं सूर्य-कर-स्पृष्टः प्रबोधं यास्यति । तद् अहं त्वम् उन्मोचयामि । माम् आत्म-स्थाने बद्ध्वा द्रुततरं देव-दत्तं सम्भाव्यागच्छ ।
साब्रवीत्– एवम् अस्तु इति ।
तद् अनु सा नापिती तां स्व-सखीं बन्धनाद् विमोच्य तस्याः स्थाने यथा-पूर्वम् आत्मानं बद्ध्वा तां देवदत्त-सकाशे सङ्केत-स्थानं प्रेषितवती । तथानुष्ठिते कौलिकः कस्मिंश्चित् क्षणे समुत्थाय किंचिद् गत-कोपो विमदस् ताम् आह– हे परुष-वादिनि ! यद् अद्य-प्रभृति गृहान् निष्क्रमणं न करोषि, न च परुषं वदसि, ततस् त्वाम् उन्मोचयामि ।
नापित्य् अपि स्वर-भेद-भयाद् यावन् न किंचिद् ऊचे, तावत् सो ऽपि भूयो भूयस् तां तद् एवाह । अथ सा यावत् प्रत्युत्तरं किम् अपि न ददौ, तावत् स प्रकुपितस् तीक्ष्ण-शस्त्रम् आदाय नासिकाम् अच्छिनत् । आह च– रे पुंश्चलि ! तिष्ठेदानीम् । त्वां भूयस् तोषयिष्यामि । इति जल्पन् पुनरपि निद्रावशम् अगात् ।
देवशर्मापि वित्त-नाशात् क्षुत्क्षाम-कण्ठो नष्ट-निद्रस् तत् सर्वं स्त्री-चरित्रम् अपश्यत् । सापि कौलिक-भार्या यथेच्छया देवदत्तेन सह सुरत-सुखम् अनुभूय कस्मिंश्चित् क्षणे स्व-गृहम् आगतय तां नापितीम् इदमाह–अयि ! शिवं भवत्याः । नायं पापात्मा मम गताया उत्थितः ।
नापित्य् आह– शिवं नासिकया विना शेषस्य शरीरस्य । तद् द्रुतं तां मोचय बन्धनाद् यावन् नायं मां पश्यति, येन स्व-गृहं गच्छामि ।
तथानुष्ठिते भूयो ऽपि कौलिक उत्थाय ताम् आह– पुंश्चलि ! किम् अद्यापि न वदसि ? किं भूयो ऽप्य् अतो दुष्टतरं निग्रहं कर्ण-च्छेदेन करोमि ?
अथ सा सकोपं साधिक्षेपम् इदम् आह– धिङ् महामूढ ! को मां महासतीं धर्षयितुं व्यङ्गयितुं वा समर्थः ? तच् छृण्वन्तु सर्वेऽपि लोक-पालाः ।
आदित्य-चन्द्र-हरि-शंकर-वासवाद्याः
शक्ता न जेतुम् अतिदुःखकराणि यानि ।
तानीन्द्रियाणि बलवन्ति सुदुर्जयानि
ये निर्जयन्ति भुवने बलिनस् त एके ॥१.१९३॥ +++(सम्पादकटिप्पनी- पुस्तके अयं श्लोक नास्तिः । )+++
- आदित्यचन्द्रावनिलोऽनलश्च
द्यौर्भूमिरापो हृदयं यमश्च ।
अहश्च रात्रिश्च उभे च सन्ध्ये
धर्मश्च जानाति नरस्य वृत्तम् ॥१९३॥ +++( सम्पादकटिप्पनी - पुस्तके १९३तमम् इदं पद्यम् । )+++
तद् यदि मम सतीत्वम् अस्ति, मनसापि पर-पुरुषो नाभिलषितः, ततो देवा भूयो ऽपि मे नासिकां तादृग् रूपाक्षतां कुर्वन्तु । अथवा यदि मम चित्ते पर-पुरुषस्य भ्रान्तिर् अपि भवति, मां भस्मसान् नयन्तु । एवम् उक्त्वा भूयोऽपि तम् आह–भो दुरात्मन् ! पश्य मे सतीत्व-प्रभावेण तादृश्य् एव नासिका संवृत्ता ।
अथासाव् उल्मुकम् आदाय यावत् पश्यति, तावत् तद्-रूपां नासिकां च भूतले रक्त-प्रवाहं च महान्तम् अपश्यत् । अथ स विस्मित-मनास् तां बन्धनाद् विमुच्य शय्यायाम् आरोप्य च चाटुशतैः पर्यतोषयत् । देवशर्मापि तं सर्व-वृत्तान्तम् आलोक्य विस्मित-मना इदम् आह–
शम्बरस्य च या माया या माया नमुचेर् अपि ।
बलेः कुम्भीनसश् चैव सर्वास् ता योषितो विदुः ॥१.१९४॥
हसन्तं प्रहसन्त्य् एता रुदन्तं प्ररुदन्त्य् अपि ।
अप्रियं प्रिय-वाक्यैश् च गृह्णन्ति काल-योगतः ॥१.१९५॥
उशना वेद यच् छास्त्रं यच्च वेद बृहस्पतिः ।
स्त्री-बुद्ध्या न विशिष्येते ताः स्म रक्ष्याः कथं नरैः ॥१.१९६॥
अनृतं सत्यम् इत्याहुः सत्यं चापि तथानृतम् ।
इति यास् ताः कथं वीर संरक्ष्याः पुरुषैर् इह ॥१.१९७॥
अन्यत्राप्य् उक्तम्–
नातिप्रसङ्गः प्रमदासु कार्यो
नेच्छेद् बलं स्त्रीषु विवर्धमानम् ।
अतिप्रसक्तैः पुरुषैर् यतस् ताः
क्रीडन्ति काकैर् इव लून-पक्षैः ॥१.१९८॥
सुमुखेन वदन्ति वगुना
प्रहरन्त्य् एव शितेन चेतसा ।
मधु तिष्ठति वाचि योषितां
हृदये हालाहलं महद्-विषम् ॥१.१९९॥
अत एव निपीयतेऽधरो
हृदयं मुष्टिभिर् एव ताड्यते ।
पुरुषैः सुख-लेश-वञ्चितैर्
मधु-लुब्धैः कमलं यथालिभिः ॥१.२००॥
अपि च–
आवर्तः संशयानाम् अविनय-भवनं पत्तनं साहसानां
दोषाणां संनिधानं कपट-शत-मयं क्षेत्रम् अप्रत्ययानाम् ।
स्वर्ग-द्वारस्य विघ्नं नरक-पुर-मुखं सर्व-माया-करण्डं
स्त्री-यन्त्रं केन सृष्टं विषम् अमृत-मयं प्राणि-लोकस्य पाशः ॥१.२०१॥ +++(सम्पादकटिप्पनी - अयं श्लोकः पुस्तके अन्यथा वर्तते ।)+++
- आवर्तः संशयानामविनयभवनं पत्तनं साहसानां
दोषाणां संनिधानं कपटशतमयं क्षेत्रमप्रत्ययानाम् ।
दुर्ग्राह्यं यन्महद्भिर्नरवरवृषभैः सर्वमायाकरण्डं
स्त्रीयन्त्रं केन लोके वृषममृतयुतं धर्मनाशाय सृष्टम् ॥१.२०१॥ +++(सम्पादकटिप्पनी - पुस्तके इदं २०१ तमं पद्यम् ।)+++
कार्कश्यं स्तनयोर् दृशोस् तरलतालीकं मुखे श्लाघ्यते
कौटिल्यं कच-संचये च वचने मान्द्यं त्रिके स्थूलता ।
भीरुत्वं हृदये सदैव कथितं माया-प्रयोगः प्रिये
यासां दोष-गणो गुणो मृग-दृशां ताः स्युर् नराणां प्रियाः ॥१.२०२॥
एता हसन्ति च रुदन्ति च कार्य-हेतोर्
विश्वासयन्ति च परं न च विश्वसन्ति ।
तस्मान् नरेण कुल-शील-समन्वितेन +++(सम्पादकटिप्पनी - “कुलशीलवता सदैव” इति पुस्तकेऽत्र )+++
नार्यः श्मशान-वटिका इव वर्जनीयाः ॥१.२०३॥
व्यकीर्ण-केसर-कराल-मुखा मृगेन्द्रा
नागाश् च भूरि-मद-राज-विराजमानाः ।
मेधाविनश् च पुरुषाः समरेषु शूराः
स्त्री-सन्निधौ परम-कापुरुषा भवन्ति ॥१.२०४॥
कुर्वन्ति तावत् प्रथमं प्रियाणि
यावन् न जानन्ति नरं प्रसक्तम् ।
ज्ञात्वा च तं मन्मथ-पाश-बद्धं
ग्रस्तामिषं मीनम् इवोद्धरन्ति ॥१.२०५॥
समुद्र-वीचीव चल-स्वभावाः
सन्ध्याभ्र-रेखेव मुहूर्त-रागाः ।
स्त्रियः कृतार्थाः पुरुषं निरर्थं
निष्पीडोतालक्तकवत् त्यजन्ति ॥१.२०६॥
अनृतं साहसं माया मूर्खत्वम् अतिलुब्धता ।
अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः ॥१.२०७॥
सम्मोहयन्तिमदयन्ति विडम्बयन्ति
निर्भर्स्तयन्ति रमयन्ति विषादयन्ति ।
एताः प्रविश्य सरलं हृदयं नराणां
किं वा न वाम-नयना न समाचरन्ति ॥१.२०८॥
अन्तर्-विष-मया ह्य् एता बहिश् चैव मनोरमाः ।
गुञ्जा-फल-समाकारा योषितः केन निर्मिताः ॥१.२०९॥
एवं चिन्तयतस् तस्य परिव्राजकस्य सा निशा महता कृच्छ्रेणातिचक्राम । सा च दूतिका छिन्न-नासिका स्व-गृहं गत्वा चिन्तयामास-किम् इदानीं कर्तव्यम् ? कथम् एतन् महच्-छिद्रं स्थगयितव्यम् ?
अथ तस्या एवं विचिन्तयन्त्या भर्ता कार्य-वशाद् राज-कुले पर्युषितः प्रत्यूषे च स्व-गृहम् अभ्युपेत्य द्वार-देश-स्थो विविध-पौर-कृत्योत्सुकतया ताम् आह– भद्रे शीघ्रम् आनीयतां क्षुर-भाण्डं येन क्षौर-कर्म-करणाय गच्छामि ।
सापि छिन्न-नासिका गृह-मध्य-स्थितैव कार्य-करणापेक्षया क्षुर-भाण्डात् क्षुरम् एकं समाकृष्य तस्याभिमुखं प्रेषयामास । नापितोऽप्य् उत्सुकतया तम् एकं क्षुरम् अवलोक्य कोपाविष्टः सन् तद् अभिमुखम् एव तं क्षुरं प्राहिणोत् । एतस्मिन्न् अन्तरे सा दुष्टोर्ध्वबाहू विधाय फुतकर्तु-मना गृहान् निश्चक्राम । अहो पश्यत पापेनानेन मम सद्-आचार-वर्तिन्याः नासिका-च्छेदो विहितः । तत्-परित्रायतां परित्रायताम् ।
अत्रान्तरे राजपुरुषाः समभ्येत्य तं नापितं लगुड-प्रहारैर् जर्जरीकृत्य दृढ-बन्धनैर् बद्ध्वा तया छिन्ननासिकया सह धर्माधिकरण-स्थानं नीत्वा सभ्यान् ऊचुः– शृण्वन्तु भवन्तः सभासदः । अनेन नापितेनापराधं विना स्त्री-रत्नम् एतद् व्यङ्गितम् । तद् अस्य यद् युज्यते तत् क्रियताम् ।
इत्य् अभिहिते सभ्या ऊचुः– रे नापित ! किम् अर्थं त्वया भार्या व्यङ्गिता । किम् अनया पर-पुरुषोऽभिलषितः । उन्त स्वित् प्राण-द्रोहः कृतः, किं वा चौर्य-कर्माचरितम् । तत् कथ्यताम् अस्या अपराधः ?
नापितो ऽपि प्रहार-पीडित-तनुर् वक्तुं न शशाक । अथ तं तूष्णींभूतं दृष्ट्वा पुनर् ऊचुः– अहो, सत्यम् एतद् राज-पुरुषाणां वचः । पापात्मायम् । अनेनेयं निर्दोषा वराकी दूषिता । उक्तं च–
भिन्न-स्वर-मुख-वर्णः शङ्कित-दृष्टिः समुत्पतित-तेजाः ।
भवति हि पापं कृत्वा स्व-कर्म-सन्त्रासितः पुरुषः ॥१.२१०॥
तथा च–
आयाति स्खलितैः पादैर् मुख-वैवर्ण्य-संयुतः ।
ललाट-स्वेद-भाग् भूरि-गद्गदं भाषते वचः ॥१.२११॥
अधो-दृष्टिर् वदेत् कृत्वा पापं प्राप्तः सभां नरः ।
तस्माद् यत्नात् परिज्ञेयाश् चिह्नैर् एतैर् विचक्षणैः ॥१.२१२॥
अन्यच् च–
प्रसन्न-वदनो दृष्टः स्पष्ट-वाक्यः सरोष-दृक् ।
सभायां वक्ति सामर्षं सावष्टम्भो नरः शुचिः ॥१.२१३॥
तद् एष दुष्ट-चरित्र-लक्षणो दृश्यते । स्त्री-धर्सणाद् वध्य इति । तच् छूलीयाम् आरोप्यताम् इति ।
अथ वध्यस्थाने नीयमानं तम् अवलोक्य देव-शर्मा तान् धर्माधिकृतान् गत्वा प्रोवाच– भो भोः, अन्यान्येनैष वराको वध्यते नापितः । साधु-समाचार एषः । तच् छ्रूयतां मे वाक्यम्-जम्बूको हुडु-युद्धेन इति ।
अथ ते सभ्या ऊचुः– भो भगवन् ! कथम् एतत्?
ततो देवशर्मा तेषां त्रयाणाम् अपि वृत्तान्तं विस्तरेणाकथयत् । तद् आकर्ण्य सुविस्मित-मनसस् ते नापितं विमोच्य मिथः प्रोचुः– अहो !
अवध्या ब्राह्मणा गावो स्त्रियो बालाश् च ज्ञातयः ।
येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः ॥१.२१४॥
तद् अस्या नासिका-च्छेदः स्व-कर्मणा हि संवृत्तः । ततो राज-निग्रहस् तु कर्ण-च्छेदः कार्यः ।
तथानुष्ठिते देवशर्मापि वित्त-नाश-समुद्भूत-शोक-रहितः पुनर् अपि स्वकीयं मठायतनं जगाम ।