०१-०३ दन्तिलगोरम्भ-कथा

यो न पूजयते गर्वाद्
उत्तमाधम-मध्यमान् ।
नृपासन्नान् स मान्यो ऽपि
भ्रश्यते दन्तिलो यथा ॥१.१४१॥

अस्त्य् अत्र धरातले वर्धमानं नाम नगरम् । तत्र दन्तिलो नाम नाना-भाण्ड-पतिः सकल-पुर-नायकः प्रतिवसति स्म । तेन पुर-कार्यं नृप-कार्यं च कुर्वता तुष्टिं नीतास् तत्-पुर-वासिनो लोका नृपतिश् च । किं बहुना, न को ऽपि तादृक् केनापि चतुरो दृष्टो श्रुतो वा । अथवा सत्यम् एतद् उक्तम्–

नरपति-हित-कर्ता द्वेष्यतां याति लोके
जनपद-हित-कर्ता त्यज्यते पार्थिवेन्द्रैः ।
इति महति विरोधे वर्तमाने समाने
नृपति-जन-पदानां दुर्लभः कार्य-कर्ता ॥१.१४२॥

अथैवं गच्छति काले दन्तिलस्य कदाचिद् विवाहः सम्प्रवृत्तः । तत्र तेन सर्वे पुर-निवासिनो राज-संनिधि-लोकाश्च सम्मान-पुरःसरम् आमन्त्र्य भोजिता वस्त्रादिभिः सत्कृताश् च । ततो विवाहानन्तरं राजा सान्तःपुरः स्व-गृहम् आनीयाभ्यर्चितः । अथ तस्य नृपतेर् गृह-सम्मार्जन-कर्ता गोरम्भो नाम राज-सेवको गृहायातो ऽपि तेनानुचित-स्थान उपविष्टो ऽवज्ञायार्ध-चन्द्रं दत्त्वा निःसारितः । सो ऽपि ततः प्रभृति निश्वसन्न् अपमानान् न रात्राव् अप्य् अधिशेते । कथं मया तस्य भाण्डपते राज-प्रसाद-हानिः कर्तव्या इति चिन्तयन्न् आस्ते । अथवा किमनेन वृथा शरीर-शोषणेन । न किंचिन् मया तस्यापकर्तुं शक्यम् इति । अथवा साध्व् इदम् उच्यते–

यो ह्य् अपकर्तुम् अशक्तः कुप्यति
किमसौ नरोऽत्र निर्लज्जः ।
उत्पतितो ऽपि हि चणकः शक्तः
किं भ्राष्ट्रकं भङ्क्तुम् ॥१.१४३॥

अथ कदाचित् प्रत्यूषे योग-निद्रां गतस्य राज्ञः शय्यान्ते मार्जनं कुर्वन्न् इदम् आह– अहो दन्तिलस्य महद् दृप्तत्वं यद् राज-महिषीम् आलिङ्गति ।

तच् छ्रुत्वा राजा स-सम्भ्रमम् उत्थाय तम् उवाच– भो भो गोरम्भ । सत्यम् एतत् यत् त्वया जल्पितम् । किं दन्तिलेन समालिङ्गिता इति ।

गोरम्भः प्राह– देव ! रात्रि-जागरणेन द्यूतासक्तस्य मे बलान् निद्रा समायाता । तन्न वेद्मि किं मयाभिहितम् । राजा सेर्ष्यं स्वगतम् एष तावद् अस्मद्-गृहेऽप्रतिहत-गतिस् तथा दन्तिलोऽपि । तत् कदाचिद् अनेन देवी समालिङ्ग्यमाना दृष्टा भविष्यति । तेनेदम् अभिहितम् । उक्तं च–

यद् वाञ्छति दिवा मर्त्यो वीक्षते वा करोति वा ।
तत् स्वप्नेऽपि तद्-अभ्यासाद् ब्रूते वाथ करोति वा ॥१.१४४॥

तथा च–
शुभं वा यदि पापं यन् नॄणां हृदि संस्थितम् ।
सुगूढम् अपि तज् ज्ञेयं स्वप्न-वाक्यात् तथा मदात् ॥१.१४५॥

अथवा स्त्रीणां विषये को ऽत्र सन्देहः ।

जल्पन्ति सार्धम् अन्येन पश्यन्त्य् अन्यं सविभ्रमाः ।
हृद्-गतं चिन्तयन्त्य् अन्यं प्रियः को नाम योषिताम् ॥१.१४६॥

अन्यच् च–

एकेन स्मित-पाटलाधर-रुचो जल्पन्त्य् अनल्पाक्षरं
वीक्षन्तेऽन्यतम् इतः स्फुटत्-कुमुदिनी-फुल्लोल्लसल्-लोचनाः ।
दूरोदार-चरित्र-चित्र-विभवं ध्यायन्ति चान्यं धिया
केनेत्थं परमार्थतो ऽर्थवद् इव प्रेमास्ति वाम-भ्रुवाम् ॥१.१४७॥

तथा च–

नाग्निस् तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्व-भूतानां न पुंसां वाम-लोचना ॥१.१४८॥

रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः ।
तेन नारद नारीणां सतीत्वम् उपजायते ॥१.१४९॥

यो मोहान् मन्यते मूढो रक्तेयं मम कामिनी ।
स तस्या वशगो नित्यं भवेत् क्रीडा-शकुन्तवत् ॥१.१५०॥

तासां वाक्यानि कृत्यानि स्वल्पानि सुगुरूण्य् अपि ।
करोति सः कृतैर् लोके लघुत्वं याति सर्वतः ॥१.१५१॥

स्त्रियं च यः प्रार्थयते सन्निकर्षं च गच्छति ।
ईषच् च कुरुते सेवां तम् एवेच्छन्ति योषितः ॥१.१५२॥

अनर्थित्वान् मनुष्याणां भयात् परिजनस्य च ।
मर्यादायाम् अमर्यादाः स्त्रियस् तिष्ठन्ति सर्वदा ॥१.१५३॥

नासां कश्चिद् अगम्यो ऽस्ति नासां च वयसि स्थितिः ।
विरूपं रूपवन्तं वा पुमान् इत्येव भुज्यते ॥१.१५४॥

रक्तो हि जायते भोग्यो नारीणां शाटिका यथा ।
घृष्यते यो दशालम्बी नितम्बे विनिवेशितः ॥१.१५५॥

अलक्तको यथा रक्तो निष्पीड्य पुरुषस् तथा ।
अबलाभिर् बलाद् रक्तः पाद-मूले निपात्यते ॥१.१५६॥

एवं स राजा बहुविधं विलप्य तत्-प्रभृति दन्तिलस्य प्रसाद-पराङ्मुखः संजातः । किं बहुना राज-द्वार-प्रवेशोऽपि तस्य निवारितः । दन्तिलोऽप्य् अकस्मादेव प्रसाद-पराङ्मुखम् अवनिपतिम् अवलोक्य चिन्तयामास– अहो साधु चेदम् उच्यते–

कोऽर्थान् प्राप्य न गर्वितो विषयिणः कस्यापदो ऽस्तं गताः
स्त्रीभिः कस्य न खण्डितं भुवि मनः को नामा राज्ञां प्रियः ।
कः कालस्य न गोचरान्तर-गतः कोऽर्थी गतो गौरवं
को वा दुर्जन-वागुरासु पतितः क्षेमेण यातः पुमान् ॥१.१५७॥

तथा च–

काके शौचं द्यूत-कारेषु सत्यं सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः ।
क्लीबे धैर्यं मद्यपे तत्त्व-चिन्ता राजा मित्रं केन दृष्टं श्रुतं वा ॥१.१५८॥

अपरं मयास्य भूपतेर् अथवान्यस्यापि कस्यचिद् राज-सम्बन्धिनः स्वप्ने ऽपि नानिष्टं कृतम् । तत् किम् एतत् पराङ्मुखो मां प्रति भूपतिः इति ।

एवं तं दन्तिलं कदाचिद् राज-द्वारे विष्कम्भितं विलोक्य संमार्जन-कर्ता गोरम्भो विहस्य द्वारपालान् इदम् ऊचे– भो भो द्वारपालाः ! राज-प्रसादाधिष्ठितो ऽयं दन्तिलः स्वयं निग्रहानुग्रह-कर्ता च । तद् अनेन निवारितेन यथाहं तथा यूयम् अप्यर्धचन्द्रभाजिनो भविष्यथ । तच् छ्रुत्वा दन्तिलश् चिन्तयामास– नूनम् इदम् अस्य गोरम्भस्य चेष्टितम् । अथवा साध्व् इदम् उच्यते–

अकुलीनो ऽपि मूर्खो ऽपि भूपालं यो ऽत्र सेवते ।
अपि संमानहीनोऽपि स सर्वत्र प्रपूज्यते ॥१.१५९॥

अपि कापुरुषो भीरुः स्याच् चेन् नृपति-सेवकः ।
तथापि न पराभूतिं जनाद् आप्नोति मानवः ॥१.१६०॥

एवं स बहुविधं विलप्य विलक्ष-मनाः सोद्वेगो गत-प्रभावः स्वगृहं निशामुखे गोरम्भम् आहूय वस्त्र-युगलेन संमान्येदम् उवाच– भद्र ! मया न तदा त्वं राग-वशान् निःसारितः । यतस् त्वं ब्राह्मणानाम् अग्रतो ऽनुचित-स्थाने समुपविष्टो दृष्ट इत्यपमानितः । तत् क्षम्यताम् ।

सोऽपि स्वर्गराज्योपमं तद्-वस्त्र-युगलम् आसाद्य परं परितोषं गत्वा तम् उवाच– भोः श्रेष्ठिन् ! क्षान्तं मया ते तत् । तद् अस्य संमानस्य कृते पश्य मे बुद्धिप्रभावं राज-प्रसादं च । एवम् उक्त्वा सपरितोषं निष्क्रान्तः । साधु चेदम् उच्यते–

स्तोकेनोन्नतिम् आयाति स्तोकेनायात्य् अधो-गतिम् ।
अहो ससदृशो चेष्टा तुलायष्टेः खलस्य च ॥१.१६१॥

ततश् चान्ये-द्युः स गोरम्भो राज-कुले गत्वा योग-निद्रां गतस्य भूपतेः संमार्जन-क्रियां कुर्वन्न् इदम् आह– अहो अविवेको ऽस्मद्-भूपतेः । यत् पुरीषोत्सर्गम् आचरंश् चर्भटी-भक्षणं करोति ।

तच् छ्रुत्वा राजा स-विस्मयं तम् उवाच– रे रे गोरम्भ ! किम् अप्रस्तुतं लपसि । गृह-कर्मकरं मत्वा त्वां न व्यापादयामि । किं त्वया कदाचिद् अहम् एवंविधं कर्म समाचरन् दृष्टः ?

सोऽब्रवीत्– द्यूतासक्तस्य रात्रि-जागरणेन संमार्जनं कुर्वाणस्य मम बलान् निद्रा समायाता । तयाधिष्ठितेन मया किंचिज् जल्पितम् । तन् न वेद्मि । तत् प्रसादं करोतु स्वामी निद्रा-परवशस्य इति ।

एवं श्रुत्वा राजा चिन्तितवान्– यन् मया जन्मान्तरे पुरीषोत्सर्गं कुर्वता कदापि चिर्भटिका न भक्षिता । तद् यथायं व्यतिकरो ऽसम्भाव्यो ममानेन मूढेन व्याहृतः । तथा दन्तिलस्यापीति निश्चयः । तन् मया न युक्तं कृतं यत् स वराकः संमानेन वियोजितः । न तादृक् पुरुषाणाम् एवंविधं चेष्टितं सम्भाव्यते । तद्-अभावेन राज-कृत्यानि पौरकृत्यानि न सर्वाणि शिथिलतां व्रजन्ति ।

एवम् अनेकधा विमृश्य दन्तिलं समाहूय निजाङ्ग-वस्त्राभरणादिभिः संयोज्य स्वाधिकारे नियोजयामास ।