पूर्वमेव मया ज्ञातं
पूर्णम् एतद् धि मेदसा ।
अनुप्रविश्य विज्ञातं
यावच् चर्म च दारु च ॥१.११७॥
कश्चिद् गोमायुर् नाम शृगालः
क्षुत्-क्षाम-कण्ठः
इतस् ततः परिभ्रमन्
वने सैन्य-द्वय-संग्राम-भूमिम् अपश्यत् ।
तस्यां च दुन्दुभेः पतितस्य
वायु-वशाद् वल्ली-शाखाग्रैर् हन्यमानस्य
शब्दम् अशृणोत् ।
अथ क्षुभित-हृदयश् चिन्तयामास
“अहो ! विनष्टोऽस्मि ।
तद् यावन् नास्य प्रोच्चारित-शब्दस्य दृष्टि-गोचरे गच्छामि
तावद् अन्यतो व्रजामि ।
अथवा नैतद् युज्यते सहसैव पितृपैतामहं वनं त्यक्तुम् ।
उक्तञ्च— +++(सम्पादकटिप्पनी - पुस्तके इयं अधिका पङ्क्तिः ।)+++भये वा यदि वा हर्षे
सम्प्राप्ते यो विमर्शयेत् ।
कृत्यं न कुरुते वेगान्
न स सन्तापम् आप्नुयात् ॥१.११८॥तत् तावज् जानामि कस्यायं शब्दः ।
धैर्यम् आलम्ब्य, विमर्शयन्,
यावन् मन्दं मन्दं गच्छति
तावद् दुन्दुभिम् अपश्यत् ।
स च तं परिज्ञाय
समीपं गत्वा स्वयम् एव कौतुकाद् अताडयत् ।
भूयश् च हर्षाद् अचिन्तयत् ।
अहो ! चिराद् एतद् अस्माकं महोद्-भोजनम् आपतितम् ।
तन् नूनं मांस-मेदोऽसृग्भिः परिपूरितं भविष्यति ।
ततः परुष-चर्मावगुण्ठितं तत्
कथम् अपि विदार्यैकदेशे छिद्रं कृत्वा
संहृष्ट-मना मध्ये प्रविष्टः ।
परं चर्म-विदारणतो दंष्ट्राभङ्गः समजनि ।
अथ निराशीभूतस्
तद्-दारु-शेषम् अवलोक्य
श्लोकम् एनम् अपठत् - “पूर्वम् एव मया ज्ञातम्” इति ।