मित्रभेद-उपकथा १
कीलोत्पाटि-वानर-कथा ।
अव्यापारेषु व्यापारं यो नरः कर्तुम् इच्छति ।
स एव निधनं याति कीलोत्पाटीव वानरः ॥ २१॥
कस्मिंश्चिन् नगराभ्यासे केनापि वणिक्-पुत्रेण तरु-खण्ड-मध्ये देवतायतनं कर्तुम् आरब्धम् । तत्र च ये कर्मकराः स्थापनादयस्+++(=स्थपत्यादयः)+++ ते मध्याह्न-वेलायाम् आहारार्थं नगर-मध्ये गच्छन्ति ।
अथ कदाचित् तत्रानुषङ्गिकं वानर-यूथम् इतश् चेतश् च परिभ्रमद् आगतम् ।
तत्रैकस्य कस्यचिच् छिल्पिनो ऽर्ध-स्फाटितो+++(=अर्धच्छेदितो)+++ ऽञ्जन-वृक्ष-दारुमयः स्तम्भः खदिर-कीलकेन मध्य-निहितेन तिष्ठति । एतस्मिन्न् अन्तरे ते वानरास् तरु-शिखर-प्रासाद-शृङ्ग-दारु-पर्यन्तेषु यथेच्छया क्रीडितुम् आरब्धाः ।
एकश् च तेषां प्रत्यासन्न-मृत्युश् चापल्यात् तस्मिन्न् अर्ध-स्फोटित-स्तम्भे उपविश्य पाणिभ्यां कीलकं सङ्गृह्य यावद् उत्पादयितुम् आरेभे तावत् तस्य
स्तम्भ-मध्य-गत-वृषणस्य+++(र५)+++ स्व-स्थानाच् चलित-कीलकेन यद् वृत्तं तत् प्राग् एव निवेदितम् ।